वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 219, कुल 835 में से
संदर्भ में पढ़ें( १६८ ) सिद्धान्तकौमुद्याम्- कुस्तुम्बुरूणि जातिः । ६।१।१४३ ॥ अत्र सुन्निपात्यते ॥ कुस्तुम्बुरु धान्याकम्। क्लीबत्वमतन्त्रम् ॥ जातिः किम् ? कुस्तुम्बुरूणि । कुत्सितानि तिन्दुकीफलानीत्यर्थः ॥ अप- रस्पराः क्रियासातत्ये । ६।१।१४४ ॥ सुन्निपात्यते ॥ अपरस्पराः सार्था गच्छन्ति । सततमविच्छेदेन गच्छन्तीत्यर्थः ॥ क्रियेति किम् ? अपरपरा गच्छन्ति । अपरे च परे च सकृदेव गच्छन्तीत्यर्थः ॥ गोष्पदं सेवितासेवितप्रमाणेषु । ६।१।१४५ ॥ सुट् सस्य षत्वं च निपात्यते ॥ गावः पद्यन्तेऽस्मिन्देशे स गोभिः सेवितो गोष्पदः । असेविते—अगो- ष्पदान्यरण्यानि । प्रमाणे,—गोष्पदमात्रं क्षेत्रम् ॥ सेवितेत्यादि किम् ? गोः पदं गोपदम् ॥ आस्पदं प्रतिष्ठायाम् । ६।१।१४६ ॥ आत्म्यापनाय स्थाने सुट् निपात्यते ॥ आस्पदम् ॥ प्रेति किम् ? आपदापदम् ॥ आश्चर्यमनित्ये । ६।१।१४७ ॥ अद्भुते सुट् ॥ आश्चर्यं यदि स भुञ्जीत ॥ अनित्ये किम् ? आचर्यं कर्म शोभनम् ॥ वर्चस्केऽवस्करः । ६।१।१४८ ॥ कुत्सितं वर्चः वर्चस्कम् अन्नमलं तस्मिन् सुट् ॥ अवकीर्यत इत्यवस्करः ॥ वर्चस्के किम् ? अवकरः ॥ अपस्करो रथाङ्गम् । ६।१।१४९ ॥ अपकरोऽन्यः ॥ विष्किरः शकुनौ वा । ६।१।१५० ॥ पक्षे विकिरः । वावचनेनैव सुड्विकल्पे सिद्धे विकिरग्रहणं तस्यापि शकुनेरन्यत्र प्रयोगो माभूदिति वृत्तिस्तन्न । भाष्यविरोधात् ॥ प्रतिष्कशश्च कशेः । ६।१।१५२ ॥ कश गतिशासनयोरित्यस्य प्रतिपूर्वस्य पचाद्यचि सुट् निपात्यते षत्वं च ॥ सहायः पुरोयायी वा प्रतिष्कश इत्युच्यते ॥ कशेः किम् ? प्रतिगतः कशां प्रतिकशोऽश्वः ॥ यद्यपि कशोरेव कशा, तथापि ‘कशोरिति धातोर्ग्रहणमुपसर्गस्य प्रतेर्ग्रहणार्थम् । तेन धात्वन्तरोपसर्गान्न ॥ प्रस्कण्वह- रिश्चन्द्रावृषी । ६।१।१५३ ॥ हरिश्चन्द्रग्रहणममन्त्रार्थम् ॥ ऋषीति किम् ? प्रकण्वो देशः । हरिश्चन्द्रो माणवकः ॥ मस्करमस्करिणौ वेणुपरिव्राजकयोः । ६।१।१५४ ॥ मकरशब्दो- ऽव्युत्पन्नस्तस्य सुडिनिश्च निपात्येते ॥ वेण्विति किम् ? मकरो ग्राहः । मकरी समुद्रः ॥ कास्तीराजस्तुन्दे नगरे । ६ । १ । १५५ ॥ ईषत्तीरमस्यास्तीति कास्तीरं नाम नगरम् । अजस्येव तुन्दमस्येति अजस्तुन्दं नाम नगरम् ॥ नगरे किम् ? कातीरम् । अजतुन्दम् ॥ कार- स्करो वृक्षः । ६।१।१५६ ॥ कारं करोतीति कारस्करो वृक्षः । अन्यत्र कारकरः ॥ केचित्तु कस्क्यादिष्विदं पठन्ति, न सूत्रेषु ॥ ^४पारस्करप्रभृतीनि च संज्ञायाम् । ६।१।१५७ ॥ एतानि ससुटानि निपात्यन्ते नाम्नि ॥ पारस्करः । किष्किन्धा ॥ तद्बृहतोः करपत्योश्चोरदे- A पारस्करो देशे, कारस्करो वृक्षः, रथस्या नदी, किष्कुः प्रमाणम्, किष्किन्धा गुहा, तद्बृहतोः करपत्यो- श्चोरदेवतयोः सुट् तलोपश्च, प्रातुंपतौ गवि कर्तरि च, प्रायस्य वित्तिचित्तयोः । इति पारस्करादिराकृतिगणः॥ १ 'सातत्ये' इति निपातननिर्देशेन 'लम्पेदवश्यमः कृत्ये तु काममनसोरपि । समो वा हितततयोर्मांसस्य यचि युड्घञोः ॥' इति प्राचीनवैयाकरणतन्त्रे वाचनिकस्यास्य श्लोकस्य एकदेशानुमत्या स्वीकारः सूचितः ॥ २ 'विष्किरः शकुनौ विकिरो वेति वक्तव्यम्' इति वार्तिके इति बोध्यम् ॥ ३ 'विष्किर इत्ये- तच्छकुनौ वा निपात्यते' इति भाष्येण शकुनेरन्यत्र विकिरस्येष्टत्वमेव प्रतीयत इति भावः ॥ ४ 'पारस्करादिषु' इत्येवमुचितः पाठः, तस्मिन्नेव गणेऽस्य दर्शनात् ॥ कस्कादिष्वौचित्याभावाच्च ॥