वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 277, कुल 835 में से
संदर्भ में पढ़ें( २२६ ) सिद्धान्तकौमुद्याम्- कर्णस्य मूलं कर्णजाहम् ॥ पक्षात्तिः । ५ । २ । २५ ॥ मूलग्रहणमात्रमनुवर्तते । पक्षस्य मूलं पक्षतिः ॥ तेन वित्तश्चुञ्चुप्चणपौ । ५ । २ । २६ ॥ यकारः प्रत्यययोरादौ लुप्तनिर्दिष्ट- स्तेन चस्य नेत्संज्ञा । विद्यया वित्तौ विद्याचुञ्चुः । विद्याचणः ॥ विन्ञ्भ्यां नानाञौ नसह । ५ । २ । २७ ॥ असहार्था पृथग्भावे वर्तमानाभ्यां स्वार्थे प्रत्ययौ ॥ विना । नाना ॥ वेः शालच्छङ्कटचौ । ५ । २ । २८ ॥ क्रियाविशिष्टसाधनवाचकात्स्वार्थे ॥ विस्तृतम् । विशा- लम् । विशङ्कटम् ॥ संप्रोदश्व कटच् । ५ । २ । २९ ॥ सङ्कटम् । प्रकटम् । उत्कटम् । चाद्विकटम् ॥ अलाबूतिलोमाभङ्गाभ्यो रजस्युपसंख्यानम् * ॥ अलाबूनां रजः अलाबू- कटम् ॥ गोष्ठजादयः स्थानादिषु पशुनामभ्यः * ॥ गवां स्थानं गोगोष्ठ