BharatKosha
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

by भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती)

DevanagariHindipublished835 pages

Page 288 of 835

Read in context
Page 288

An exact, line-by-line transcription of the page into pure Markdown in Unicode Devanagari:

द्वैधानि ॥ एधाच्च ।५।३।४६॥ द्वेधा । त्रेधा ॥ याप्ये पाशप् ।५।३।४७॥ कुत्सितो भिषक् भिषक्पाशः ॥ पूरणाद्भागे तीयादन् ।५।३।४८॥ द्वितीयो भागो द्वितीयः । तृतीयः । स्वरे विशेषः ॥ तीयादीकक् स्वार्थे वाच्यः *॥ १ द्वैतीयीकः । द्वितीयः । तार्ती- यीकः । तृतीयः ॥ २ न विद्यायाः *॥ द्वितीया । तृतीया । विद्येत्येव ॥ प्रागेकादशभ्योऽ- छन्दसि ।५।३।४९॥ पूरणप्रत्ययान्ताद्भागेऽन् ॥ चतुर्थः । पञ्चमः ॥ षष्ठाष्टमाभ्यां ञ च ।५।३।५०॥ चादन् ॥ षष्ठो भागः षाष्ठः षष्ठः । आष्टमः । अष्टमः ॥ मान- पश्वङ्कयोः कन्लुकौ च ।५।३।५१॥ षष्ठाष्टमशब्दाभ्यां क्रमेण कन्लुकौ स्तो माने [

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध) · Page 288 of 835 · BharatKosha