भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 289, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 289

( २३८ ) सिद्धान्तकौमुद्याम्-

नेदिष्ठः । नेदीयान् । साधिष्ठः । साधीयान् ॥ स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणा- दिपरं पूर्वस्य च गुणः ।६।४।१५६ ॥ एषां यणादिपरं लुप्यते, पूर्वस्य च गुण इष्ठा- दिषु ॥ स्थविष्ठः । दविष्ठः । यविष्ठः । ह्रसिष्ठः । क्षेदिष्ठः । क्षोदिष्ठः । एवमीयसुन् । ह्रस्वक्षि- प्रक्षुद्राणां पृथ्वादित्वात् ह्रसिमा । क्षेपिमा । क्षोदिमा ॥ प्रियस्थिरस्फिरोरुबहुलगुरुवृद्ध- तृप्रदीर्घवृन्दारकाणां प्रस्थस्फवबंहिगर्षिव्रप्रद्राघिवृन्दाः ।६।४।१५७ ॥ प्रियादीनां क्रमात्प्रादयः स्युरिष्ठादिषु ॥ प्रेष्ठः । स्थेष्ठः । स्फेष्ठः । वरिष्ठः । बंहिष्ठः । गरिष्ठः । वर्षिष्ठः । त्रपिष्ठः । द्राघिष्ठः । वृन्दिष्ठः ॥ एवमीयसुन् । प्रेयान् ॥ प्रियोरुबहुलगुरुदीर्घाणां पृथ्वादित्वात्प्रेमेत्यादि ॥ बहोलोंपो भू च बहोः ।६।४।१५८ ॥ बहोः परयोरिमेयसो- र्लोपः स्याद्वहोश्च भूरादेशः ॥ भूमा । भूयान् ॥ इष्ठस्य यिट् च ।६।४।१५९ ॥ बहोः परस्य इष्ठस्य लोपः स्यात् यिडागमश्च ॥ भूयिष्ठः ॥ युवालपयोः कनन्यतरस्याम् ।५। ३।६४ ॥ एतयोः कनादेशो वा स्यादिष्टेयसोः ॥ कनिष्ठः । कनीयान् ॥ पक्षे यविष्ठः । अल्पिष्ट इत्यादि ॥ विन्मतोर्लुक् ।५।३।६५ ॥ विनो मतुपश्च लुक् स्यादिष्टेयसोः ॥ अतिशयेन स्रग्वी स्रजिष्ठः । स्रजीयान् । अतिशयेन त्वग्वान् त्वचिष्ठः । त्वचीयान् ॥ प्रशं- सायां रूपप् ।५।३।६६ ॥ सुबन्तात्तिङन्ताच ॥ प्रशस्तः पटुः पटुरूपः । प्रशस्तं पचति पचतिरूपम् ॥ ईषदसमाप्तौ कल्पब्देश्यदेशीयरः ।५।३।६७ ॥ ईषदूनो विद्वान् विद्वत्कल्पः । यशस्कल्पम् २ । यजुष्कल्पम् ३ । विद्वद्देश्यः । विद्वद्देशीयः । पचतिकल्पम् ॥ विभाषा सुपो बहुच् पुरस्तात्तु । ५ । ३ । ६८ ॥ ईषदसमाप्तिविशिष्टेऽर्थे सुबन्ताद्ब- हुच्वा स्यात्स च प्रागेव नतु परतः ॥ ईषदूनः पटुर्बहुपटुः । पटुकल्पः ॥ सुपः किम् ? पचतिकल्पम् ॥ प्रकारवचने जातीयर् ।५।३।६९ ॥ प्रकारवति चायम् । थाल् तु प्रकारमात्रे ॥ पटुप्रकारः । पटुजातीयः ॥ प्रागिवात्कः ।५।३।७० ॥ 'इवे प्रतिकृतावित्यतः प्राक् काधिकारः ॥ अव्ययसर्वनाम्नाकच् प्राक् टेः । ५ । ३ । ७१ ॥ 'तिङश्चेत्यनुव- र्त्तते ॥ कस्य च दः । ५ । ३ । ७२ ॥ कान्ताव्ययस्य दकारोऽन्तादेशः स्यादकच्च ॥ अज्ञाते ।५।३।७३ ॥ कस्यायमश्वोऽश्वकः । उच्चकैः । नीचकैः । सर्वके । विश्वके ॥ ओकारसकार- भकारादौ सुपि सर्वनाम्नष्टेः प्रागकच् * ॥ युवकयोः । आवकयोः । युष्मकासु । ४ अस्मकासु । युष्मकाभिः । अस्मकाभिः ॥ ओकारेत्यादिकिम् ? त्वयका । मयका ॥ अकच्प्रक- रणे तूष्णीमः काम्द्वक्तव्यः * ॥ मित्त्वादन्त्यादचः परः । तूष्णीकामास्ते ॥ शीले को मलोपश्च * ॥ तूष्णींशीलस्तूष्णीकः । पचतकि । जल्पतकि । धकित् । हिरकुत् ॥ कुत्सिते ।५।३।७४ ॥ कुत्सितोऽश्वोऽश्वकः ॥ संज्ञायां कन् । ५ । ३ । ७५ ॥ कुत्सिते कन् स्यात्तद- न्तेन चेत्संज्ञा गम्यते । शूद्रकः । राधकः । स्वराथं वचनम् ॥ अनुकम्पायाम् । ५।३।७६॥


१ आदिना वरिमा बंहिमा गरिमा द्राघिमा ॥ २ 'सोऽपदादौ' इति सत्वम् ॥ ३ 'इणः षः' इति षत्वम् ॥ ४ युष्मदस्मद्रूपस्य ॥ भाष्ये अनयोरेवोदाहरणस्य दानादिति बोध्यम् ॥

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध) · पृष्ठ 289, कुल 835 में से · BharatKosha