भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 290, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 290

पुत्रकः । अनुकम्पितः पुत्र इत्यर्थः ॥ नीतौ च तद्युक्तात् । ५।३।७७ ॥ सामदानादिना यो नीतिस्तस्यां गम्यमानायामनुकम्पायुक्तात्कन्प्रत्ययः स्यात् ॥ हन्त ते धानकाः । गुडकाः । एडकि । भद्रकि ॥ पूर्वेणानुकम्प्यमानात्प्रत्ययः । अनेन तु परम्परासम्बन्धेऽपीति विशेषः ॥ बह्वचो मनुष्यनाम्नष्ठज्वा । ५।३।७८ ॥ पूर्वसूत्रद्वयविषये ॥ वानिर्लचौ च । ५।३।७९ ॥ तत्रैव ॥ ठाजादावूर्ध्वं द्वितीयादचः । ५।३।८३ ॥ अस्मिन्प्रकरणे यष्ठोऽजादि- प्रत्ययश्च तस्मिन्प्रत्यये परे प्रकृतेर्द्वितीयादच ऊर्ध्वं सर्वं लुप्यते ॥ अनुकम्पितो देवदत्तो देविकः । देविथः । देविलः । देवदत्तकः । अनुकम्पिनो वायुदत्तो वायुदत्तकः । ठग्रहणमुको द्वितीयात्वे कविधानार्थम् । वायुकः । पितृकः ॥ चतुर्थादच ऊर्ध्वस्य लोपो वाच्यः * ॥ अनुकम्पितो वृहस्पतिदत्तो वृहस्पतिकः ॥ अनजादौ च विभाषा लोपो वक्तव्यः * ॥ देवदत्तकः । देवकः ॥ लोपः पूर्वपदस्य च * ॥ दत्तिकः । दत्तिथः । दत्तिलः । दत्तकः ॥ विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वाच्यः * ॥ देवदत्तः । दत्तः । देवः ॥ सत्य- भामा ॥ भामा । सत्या ॥ उवर्णाल्लि इलस्य च * ॥ भानुदत्तः । भानुलः । ऋवर्णादपि * ॥ सवित्रियः । सवितुलः ॥ चतुर्थादनजादौ च लोपः पूर्वपदस्य च । अप्रत्यये तथैवेष्ट उवर्णाल्लिइलस्य च ॥१॥ प्राचामुपादेरडज्वुचौ च । ५।३।८० ॥ उपशब्दपूर्वात्प्रातिपदिकात्पूर्वविषये अडच् वुच् एतौ स्तः ॥ चाद्यथाप्राप्तम् । प्राचां ग्रहणं पूजार्थम् । अनुकम्पित उपेन्द्रदत्तः उपडः । उपकः । उपिकः । उपियः । उपिलः । उपेन्द्रदत्तकः । षड् रूपाणि ॥ जाति- नाम्नः कन् । ५।३।८१ ॥ मनुष्यनाम्न इत्येव । जातिशब्दो यो मनुष्यनामधेयस्तस्मात्क- न्स्यादनुकम्पायां नीतौ च ॥ सिंहकः । शरभकः । रासभकः ॥ द्वितीयं संध्यक्षरं चेत्तदादे- र्लोपो वक्तव्यः * ॥ अनुकम्पितः कहोडः कहिकः ॥ एकाक्षरपूर्वपदानामुत्तरपदलोपो वक्तव्यः * ॥ वागाशीर्दत्तः वाचिकः॑ ॥ कथं षडङ्गुलिदत्तः षडिक इति? ॥ षषन्नाजादि- वचनात्सिद्धम् * ॥ शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् ।५।३।८४ ॥ एषां मनुष्यनाम्नां ठाजादौ परे तृतीयादच ऊर्ध्वं लोपः स्यात् । पूर्वस्यापवादः ॥ अनुकम्पितः शेवलदत्तः शेवलिकः । शेवलियः । शेवलिलः । सुपारिकः । विशालिकः । वरुणिकः । अर्यमिकः ॥ १ भाष्ये न दृश्यत इति शेखरकृत् ॥ २ वागाशीर्दत्तशब्दात् ठप्रत्यय उत्तरपदस्य आशीर्दत्तशब्दस्य लोपे अज्झलादेशत्वेनाजमात्रदेशत्वाभावात् स्थानिवद्भावाप्रवृत्तौ अजादितद्धितनिमित्तया भसंज्ञया अन्तर्वर्ति- विभक्तिनिमित्तापिपदसंज्ञा तुल्यावधिकतया बाध्यत एवेति पदत्वाभावान्न जश्त्वकुत्वादिरिति भावः ॥ ३ षडङ्गुलिदत्तशब्दात् ठे इकादेशे च 'ठाजादावूर्ध्वं द्वितीयादचः' इति सूत्रेण द्वितीयादचः 'अङ्गुलि' शब्दा- कारात् परस्य ङ्गुलिदत्तशब्दस्य लोपे 'षष् अ इक इत्यवस्थायाम्' 'यस्येति च' इत्यकारलोपे 'षष् इक' इत्यत्र अकारलोपस्य षष् इत्यस्य पदत्वे आनेये स्थानिवद्भावानिषेध इति षकारान्तस्य स्वादिप्रत्ययपरत्वेन पदसंज्ञा प्राप्नोति भत्व आनेये स्थानिवद्भावो भवतीति भसंज्ञाऽकारान्तस्य प्राप्नोति पदसंज्ञा तु षूकारान्तस्येति भिन्नावधिकतया पदसंज्ञा भसंज्ञया न बाध्यत इति पदत्वनिमित्तकं जश्त्वं भवेत्येवेति भावः ॥