वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 291, कुल 835 में से
संदर्भ में पढ़ेंHere is the complete line-by-line transcription of the page into Unicode Devanagari:
अजिनान्तस्योत्तरपदलोपश्च ।५।३।८२ ॥ अजिनान्तान्मनुष्यनाम्नोऽनुकम्पायां कन् तस्य चोत्तरपदलोपः ॥ अनुकम्पितो व्याघ्राजिनो व्याघ्रकः । सिंहकः ॥ अल्पे ।५।३।८५॥ अल्पं तैलं तैलकम् ॥ ह्रस्वे ।५।३।८६ ॥ ह्रस्वो वृक्षो वृक्षकः ॥ संज्ञायां कन् ।५।३।८७ ॥ ह्रस्वहेतुका या संज्ञा तस्यां गम्यमानायां कन् । पूर्वस्यापवादः ॥ वंशकः । वेणुकः ॥ कुटी- शमीशुण्डाभ्यो रः ।५।३।८८ ॥ ह्रस्वा कुटी कुटीरः । शमीरः । शुण्डारः ॥ कुत्वा डुपच् ।५।३।८९ ॥ ह्रस्वा कुतूः कुतुपः । 'कुतूः कृत्तेः स्नेहपात्रं ह्रस्वा सा कुतुपः पुमान् ॥' कासूगोणीभ्यां ष्टरच् ।५।३।९० ॥ आयुधविशेषः कासूः । ह्रस्वा सा कासूतरी । गो