भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 301, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 301

तत्रादौ दश लकाराः प्रदर्श्यन्ते-लट् । लिट् । लुट् । लृट् । लेट् । लोट् । लङ् । लिङ् । लुङ् । लृङ् ॥ एषु पञ्चमो लकारश्छन्दोमात्रगोचरः ॥ वर्तमाने लट् ।३।२। १२३ ॥ वर्तमानक्रियावृत्तेर्धातोर्लट् स्यात् । अटावितौ ॥ लः कर्मणि च भावे चाक- १ तत्रेति । तत्र=तृतीयाध्यायगोचरेषु प्रत्ययेषु । आदौ दश लकाराः प्रदर्श्यन्ते इत्यर्थः । अनुबन्धभेदेन लकाराणां भेदाद् दशविधत्वम् । "प्रदर्श्यन्ते" = इत्यस्य स्वरूपतस्तदादेशतस्तद्रूपादितश्च प्रदर्श्यन्ते इत्यर्थः । सर्वनिरूपण एव च तस्य तात्पर्यम् । उपरिष्टाच्च "एषु पञ्चमो लकारश्छन्दो- मात्रगोचरः" इति वक्ष्यमाणतया तादृशस्य च लकारस्य वैदिकप्रक्रियायामेव निरूपणीयतया तत्रैव तस्य स्वरूपरूपादिकं प्रादर्शि । एवं च उत्सर्गापवादस्थल इव संकोचस्यावश्यकतया तदतिरिक्तानां नवानां लकाराणां स्वरूपरूपाभ्यां प्रदर्शनमादिमे तिङन्तप्रकरणे प्रतिज्ञातं भवतीति तथैव कृतत्वान्न काप्यनु- पपत्तिः । "दश लकाराः" इति "दश" पदं तु लकाराणां "लः कर्मणि च" इत्यादि विधीनां वस्तुतो दशत्वमिति ज्ञापनायैव । तथा च स्वरूपस्वभावाभ्यामादिमे तिङन्तप्रकरणे प्रदर्श्यमानेषु लकारेषु न दशत्वं विशेषणं सत् तेन रूपेण लकाराणां प्रदर्श्यमानतां बोधयति, किं तु उपलक्षणं सत् वस्तुतो ये दश लकारास्तेषु योग्यताबलान्नवानां लकाराणां स्वरूपस्वभावाभ्यां प्रदर्शनं बोधयतीति फलितम् ॥ २ सूत्रकृता तत्रतत्र निर्दिष्टानि लकाराणां स्वरूपान्याह-लट् लिडित्यादिना । अत्र प्रथमतः षट् टितः । पश्चात् ङितो निर्दिष्टाः प्रत्याहारस्थवर्णक्रमानुरोधेन ॥ ३ पञ्चम इति । लेडित्यर्थः । तस्य च पञ्चमत्वं स्वोक्तक्रमानुरोधेन । छन्दोमात्रेति । अतः प्रकृते तिङन्तप्रकरणे स्वरूपस्वभावतः सूत्रेण तस्य व्युत्पादनं न क्रियते इति भावः ॥ ४ वर्तमान इति । वर्तमाना या क्रिया तद्वाचकाद्धातोर्लट् स्यात् । स च प्रत्ययसंज्ञ इत्यर्थः ॥ क्रियाया वर्तमानत्वं नाम प्रारब्धापरिसमाप्तत्वम् । पदान्तरसमभिव्याहारं विनैव साध्यत्वप्रकारक- प्रतीतिविषयः, एकफलोद्देशेन प्रवृत्तपूर्वापरीभूतावयवकः, संकलनात्मकैकबुद्धिविषयीकृतो व्यापारसमूहः क्रिया । स्पष्टा चेयं रीतिर्भूवादिसूत्रे भाष्ये ॥ हरिरप्याह-“यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते । आश्रितक्रमरूपत्वात् क्रियेति व्यपदिश्यते ॥ गुणभूतैरवयवैः समूहः क्रमजन्मनाम् । बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ॥” इति ॥ इत्थं च आरब्धक्रियात आरभ्य तत्समा- प्तिपर्यन्तं “पचति” इत्येव प्रयोगः । “पूर्वापरीभूतं भावमाख्यातेनाचष्टे उपक्रमप्रभृत्यपवर्गप- र्यन्तं व्रजति पचतीति” इति यास्कोक्तेरप्यत्रैव तात्पर्यम् ॥ भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानि । यथा “गच्छति” इत्यत्र “गमनं करोति” इत्यर्थेन क्रियायाः प्राधान्यम् । यथा च “गौः” इत्यत्र “एकत्वसंख्याविशिष्टा गौः” इत्यर्थेन द्रव्यस्य प्राधान्यम् । “यत्रोभे भावप्रधाने” इति निरुक्ततो यत्राख्यातनामनी द्वे एव भवतस्तत्र भावप्राधान्यम् । यथा “देवदत्तो गच्छति” इत्यत्र “देवदत्ताभिन्नैक- कर्तृकं वर्तमानकालिकं गमनम्” इत्यर्थेन क्रियाया एव प्राधान्यम् । शाब्दिकमते क्रियामुख्यविशेष्यकः शाब्द- बोधो भवति । तथा च “देवदत्तो भवति” इत्यस्य “देवदत्ताभिन्नैककर्तृकं वर्तमानकालिकं भवनम्” इति शाब्दबोधः । नैयायिक नये तु कर्तृमुख्यविशेष्यकः शाब्दबोधो भवति । तथा च “देवदत्तो भवति” इत्यस्य “भवनानुकूलकृतिमान् देवदत्तः” इत्येवं शाब्दबोधः । युक्तायुक्तत्वं स्वयमूहनीयं विस्तरभिया नेह प्रपञ्चि ॥ ५ इत्संज्ञामन्तरा निवृत्त्युपायाभावादाह-अटाविताविति । “उपदेशेऽजनुनासिक इत्” “हल- न्त्यम्” इति सूत्राभ्यामित्संज्ञकावित्यर्थः ॥ लटि टित्त्वम् “एधते” इत्यादौ “टित आत्मनेपदानां टेरे” इत्येत्वार्थम् । अकारोच्चारणं तु “लटः शतृशानचावप्रथमासमानाधिकरणे” इति विशेषणार्थम् । ननु अकार- टकारयोरित्संज्ञावल् लकारस्यापि “लशकतद्धिते” इति सूत्रेणेत्संज्ञा कुतो न ? न च फलाभावान्नेत्संज्ञेति वाच्यम्, “लिति” इति लित्स्वरस्यैव फलत्वेन वक्तुं शक्यत्वात् । न च णलो लित्त्वेन तदभावस्य ज्ञापना- न्नेदं फलमिति वाच्यम्, अश्रवणस्यैव फलत्वादिति चेन्न, “उच्चारणसामर्थ्याल्लस्य नेत्त्वम्” इत्यङ्गीकारेणे- त्संज्ञाया अप्रवृत्तेः ॥