भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 307, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 307

An exact line-by-line transcription of the page into Devanagari:

स्यात् ॥ अनेकाल्त्वात्सर्वादेशः । यद्यपि 'ङिच्चेत्ययमपवादस्तथाप्यनन्यथासिद्धित्त्वेष्वनङादिषु चरितार्थ इति गुणवृद्धिप्रतिषेधसंप्रसारणाद्यर्थतया संभवत्प्रयोजनङकारे तातङि मन्थरं प्रवृत्तः परेण बाध्यते । इहोत्सर्गापवादयोरपि समबलत्वात् । भवतात् ॥ लोटो लङ्वत् । ३।४। ८५ ॥ लोटो लङ् इव कार्यं स्यात् ॥ तेन तामादयः सलोपश्च ॥ तथा हि-॥ तस्थस्थ- मिपां तान्तन्तामः । ३।४।१०१ ॥ ङितश्चतुर्णां तामादयः क्रमात्स्युः ॥ नित्यं ङितः ३।४।९९ ॥ सकारान्तस्य ङिदुत्तमस्य नित्यं लोपः स्यात् ॥ अलोऽन्त्यस्येति सस्य लोपः । भवताम् । भवन्तु ॥ सेर्ह्यपिच्च । ३।४।८७ ॥ लोटः सेर्हिः स्यात्सोऽपिच्च ॥ अतो हेः । ६