वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 442, कुल 835 में से
संदर्भ में पढ़ेंत्यध्याहारो वा । ल्यब्लोपे पञ्चमीति तु ल्यबन्तं विनैव तदर्थावगतिर्यत्र तद्विषयकम् । भेत्तुमित्यादि तुमुन्नन्ताध्याहारो वा । समीपमेत्येति वा ॥ आत्मनेपदेष्वन्यतरस्याम् । २।४।४४ ॥ हनो वधादेशो वा लुङि आत्मनेपदेषु परेषु ॥ अवधिष्ट । अवधिषाताम् ॥ हनः सिच् । १।२।१४ ॥ कित्स्यात् ॥ अनुनासिकलोपः । आहत । आहसाताम् । आहसत ॥ यमो गन्धने । १।२।१६ ॥ सिच् कित्स्यात् ॥ गन्धनं सूचनं परदोषाविष्करणम् । उदा- यते ॥ गन्धने किम् ? उदायंस्त पादम् । आकृष्टवानित्यर्थः ॥ समो गम्यृच्छिभ्याम् । १।३।२९ ॥ अकर्मकाभ्यामित्येव ॥ संगच्छते ॥ वा गमः । १।२।१३ ॥ गमः परौ झलादी लिङ्सिचौ वा कितौ स्तः ॥ संगसीष्ट । संगंसीष्ट । समगत । समगंस्त । समृच्छि- ष्यते । अकर्मकाभ्यां किम् ? ग्रामं संगच्छति ॥ विदिप्रच्छिस्वरतीनामुपसंख्यानम् * ॥ वेत्तेरेवं ग्रहणम् । संवित्ते । संविदाते ॥ वेत्तेर्विभाषा । ७।१।७ ॥ वेत्तेः परस्य झादेशस्या- तो रुडागमो वा स्यात् ॥ संविद्रते । संविदते । संविद्रताम् । संविदताम् । समविद्रत । समविदत । संपृच्छते । संस्वरते ॥ ऋतिश्रुदृशिभ्यश्चेति वक्तव्यम् * ॥ ऋतीति द्वयोर्ग्र- हणम् । अङ्विधौ त्वियर्तेरेवेत्युक्तम् । मा समृत् । मा समृषाताम् । मा समृषतेति । समार्त । समार्षाताम् । समार्षतेति च भ्वादेः । इयर्तेस्तु मा समरत । मा समरेताम् । मा समरन्त । समारत । समारेताम् । समारन्तेति च । संशृणुते । संपश्यते । अकर्मकादित्येव । अत एव ‘रक्षांसीति पुरापि संशृणुमहे’ इति मुरारिप्रयोगः प्रामादिक इत्याहुः । अध्याहारो वा ‘इति कथयद्भ्यः’ इति ॥ अथास्मिन्नकर्मकाधिकारे हनिगम्यादीनां कथमकर्मकतेति चेत् शृणु- धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥ १ ॥ १ ननु “प्राप्य” इत्यध्याहारे “ल्यब्लोपे कर्मण्यधिकरणे च” इति पञ्चमीप्रसङ्गस्तत्राह- ल्यब्लोप इति । ल्यबन्तं विनैवेति । “ल्यबर्थो दृश्यते यत्र ल्यबन्तं नैव दृश्यते । तदेव हि ल्यब्लोपित्वं ज्ञातव्यं च सदा बुधैः ॥” इति शिष्टोक्तेरिति भावः । “उच्चारितः शब्दः प्रत्यायको नानुच्चारितः” इति भाष्योक्तेः कथन्तदर्थावगतिरिति तु न शङ्क्यम्, वाक्ये वाक्यैकदेशप्रयोगन्यायेन अत्र शब्दाध्याहारात् ॥ २ ननु शब्दाध्याहारेऽपि लोपोऽप्रयोगोऽस्त्येवेतीदम- युक्तमिति मन्यमान आह-भेत्तुमित्यादिति । तुमुन्नन्तघटितवाक्यैकदेशोऽयमित्यर्थः ॥ ३ अकर्म- कत्वेन समाधाय साङ्गकर्मत्वेन समाधातुमाह-समीपमिति । विषमविलोचनस्य समीपमेत्य आगत्य स्ववक्ष आजघ्ने इत्यन्वय इति भावः ॥ ४ “अकर्मकाच्च” इत्यनुवर्तमानं द्विवचनान्तानुरोधेन द्विवचनान्तत्वेन विपरिणम्यते इत्याशयेनाह-अकर्मकाभ्यामित्येवेति ॥ ५ संगच्छते इति । सङ्गतं भवतीत्यर्थः ॥ ६ वेत्तेरेवेति । “संवित्ते” इति भाष्यीयोदाहरणदर्शनमूलकाद् “वेत्तेर्विभाषा” इति झादेशानुवादेन रुडागमविधानदर्शनमूलकाच्च व्याख्यानादिति भावः ॥ ७ द्वयोरिति । साहचर्यानाश्रयणमूलकाद् व्याख्यानादिति भावः । तदाश्रयणे तु श्रुदृशसाहचर्याल्लुग्विकरणस्यैव भवेद् ग्रहणमिति बोध्यम् ॥ ८ धातो- रिति । सकर्मकधातोरपि क्रिया अकर्मिका भवति, कुत इत्याकाङ्क्षायां चतुर्भिर्हेतुभिरकर्मकत्वं साधयति- धातोरिति । अर्थान्तरे अन्योर्थोऽर्थान्तरम्, तत्र वृत्तेः वर्तनात् । यदा प्रकृतमर्थं विहाय नानार्थत्वाद्- न्यस्मिन्नर्थे धातुर्वर्तते तदा स धातुरकर्मक इति भावः ॥ पुनः कर्मणो धात्वर्थेनोपसंग्रहादकर्मकः किमित्या- काङ्क्षा यत्र धात्वर्थेनैव पूर्येत तत्र नैराकाङ्क्ष्येण कर्मणोऽनुपस्थितौ धातुरकर्मक इति भावः ॥ कर्मणो यत्र-