वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 599, कुल 835 में से
संदर्भ में पढ़ेंलिङ्गानुशासनम् । ( ५४७ ) मालती जातिः । देववाची तु पुंस्येव । सुपर्वाणः सुमनसः । बहुत्वं प्रायिकम् । एका च सिकता तैलदाने असमर्थेति अर्थवत्सूत्रे भाष्यप्रयोगात् । समांसमां विजायत इत्यत्र समायां समायामिति भाष्याच्च । विभाषा ग्रावेडिति सूत्रे अत्रासातां सुमनसाविति वृत्तिव्याख्यायां हरदत्तोऽप्येवम् ॥ ॠक्त्वक्ज्योङ्वाग्यवागूनौस्फिजः ॥ इयं ऋक् । त्वक् । ज्योक् । वाक् । यवागूः । नौः । स्फिक् ॥ त्रुटिसीमासंवध्याः ॥ इयं त्रुटिः । सीमा । संवध्या ॥ चुल्लिवेणिखार्यश्च ॥ स्पष्टम् ॥ ताराधाराज्योत्स्नादयश्च ॥ शलाका स्त्रियां नित्यम् ॥ नित्यग्रहणमन्येषां क्वचिद्व्य- भिचारं ज्ञापयति ॥ इति स्त्र्यधिकारः । पुमान् ॥ अधिकारोऽयम् ॥ घञन्तः ॥ पाकः । त्यागः । करः । गरः । भावार्थ एवेदम् । नपुंसक