भारतकोश
वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)

वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)

Vasishtha Dharmashastra with Commentary

महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा

DevanagariSanskritpublished106 पृष्ठ

पृष्ठ 19, कुल 106 में से

संदर्भ में पढ़ें
पृष्ठ 19

५ चत्वारो वर्णा ब्राह्मणक्षत्रियवैश्यशूद्राः ॥ १ ॥ त्रयो वर्णा द्विजातयो ब्राह्मणक्षत्रियवैश्याः ॥ २ ॥ तेषाम् ऽ द्विजननमिति मानवे पाठः । मातुरग्रे विजननं द्वितीयं मौञ्जिबन्धने । क्वचनादिति मानवे पाठः अत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥ ३ ॥ वेदप्रदानात्पितेत्याचार्यमाचक्षते ॥ ४ ॥ तथाप्युदाहरन्ति । द्वयमुह वै पुरुषस्य रेतो ब्राह्मणस्योर्ध्वं नाभेरधस्तादवाचीनमन्यत्- यदूर्ध्वं नाभेस्तेन हैतत्प्रजा जायते यद्ब्राह्मणानुपनेयति यदध्यापयति यद्याजयति यत्साधुकरोति । अथ यदवाचीनं नाभेस्तेनेहास्यौरसी प्रजा जायते । तस्माच्छ्रोत्रियमनूचानमप्रजोसीति न वदन्तीति ॥५॥ हारीतोप्युदाहरति । न ह्यस्मिन्विद्यते कर्म किंचिदा मौञ्जिबन्धनात् । युज्यते इति तु मानवे । वृत्त्या शूद्रसमो ह्येष यावद्वेदे न जायत इति ॥ ६ ॥ अन्यत्रोदककर्मस्वधापितृसंयुक्तेभ्यः ॥ ७ ॥ विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवधिस्तेहमस्मि । असूयकायानुजवेयताय न मां ब्रूया वीर्यवती तथा स्याम् ॥ ८ ॥ II. 3. मातुरग्रेधिजननम् E. F. तेषां मातुरग्रे जन्म Bh. तत्रास्य E. F. 5. °उदाहरति Ban. ed. अथाप्युदाहरति E. F; द्वयंमिह C. ed. B. gives of पुरुषस्य the marginal gloss सुश्रवसोऽनूचानस्य । °अर्वाचीनं C.ed.6. °समो ज्ञेयो E. F. यावद्वेदो Ban. ed. 7. अन्यदैवोदक° E. F. 8. सेवधिः Bh. ॰अनृजवेव्रताय C. ed. comp., Nir. 24: Viṣṇus. 29. 9; Saṁhitopan. 29, 8 ff.