भारतकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 86, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 86

50 वास्तुमण्डनम् रुद्रोऽनिलो विश्वकर्मा वह्निर्ब्रह्मायमोऽम्बुपः । धनदो विष्णुरित्यादौ पुष्पेष्वग्रे सुरा नव ॥ १७७ ॥ उच्चाटव्याधि२४८सन्तापा वह्निः प्रजाक्षयो मृतिः । जलधान्यक्षयौ मोहः फलं तत्पीडने क्रमात् ॥ १७८ ॥ केवलान्यत्र२४९ पर्वाणि २५०चत्वार्यर्काङ्गुलै२५१र्भजेत् । मध्यातपञ्चाष्ट सूर्यांशं द्वित्रिवेदांशकैः पुनः ॥ १७९ ॥ मूले पुष्पेषु रेखासु प्रान्ते च त्रिदशाः करे ॥ त्रयोविंशतिराद्यार्धे स धार्यः पुष्पकान्तरे ॥ १८० ॥ २५२ईशोऽनिलो विश्वकर्मा वह्नि ब्रह्मा रविः क्रमात् । रुद्रो यमो विरूपाक्षो वसवो दिग्गजाम्बुपाः ॥ १८१ ॥ २५३स्कन्द इच्छाक्रियाज्ञानी धनेशश्चन्द्रमाजयः । वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥ १८२ ॥ एते देवाः सदैवास्यां कम्बिकायां सुनिश्चलाः । आगमैर्वेदमन्त्रैश्च पूज्या सा परमाकला ॥ १८३ ॥ ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ॥ इयं हि रुद्रगायत्रीपवित्रीकरणं परम् । चतुर्विंशत्यङ्गुलेषु वर्णनेतान् क्रमान्न्यसेत् ॥ १८४ ॥ खेटकं नगरं ग्रामं क्रोशगव्यूतियोजनम् । क्षेत्रादिभूमिभागांश्च ज्येष्ठहस्तेन मापयेत् ॥ १८५ ॥ २४८. संतापो in A २४९. वर्षाणि in A २५०. चत्वार्थकां २५१. भवेत् in DE २५२. similar verse in AP ch 41. V16 २५३. स्कन्दरो in B