भारतकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 98, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 98

62 वास्तुमण्डनम् महोत्कटा दिशां नाथाः वसन्त्यन्योन्यसंमुखाः । पूजिताः पूजयन्त्येते घातयन्त्यपदस्थिताः ॥ ७ ॥ ध्वजः सिंहो १०वृषो हस्ती स्वपदे वामदक्षिणे । कर्णगाः स्वपदे देया आयद्वारे ११विदिग्गते ॥ ८ ॥ ध्वजसिंहवृषे वास्तु देवतायतने हिताः । विप्रादिनां क्रमाद्गेहे सर्ववर्णे गजो हितः ॥ ९ ॥ १२अधमानां गृहे धूमो श्वान रासभवायसः । वृषस्थाने गजं दद्यात् सिंहवृषभहस्तिनोः ॥ १० ॥ ध्वजः सर्वेषु दातव्यो नान्यत्र स्वपदादृषः । नवकोष्टीकृते भूमिमध्येऽस्याः कुलदेवता ॥ ११ ॥ स्थापयेच्छकुनार्थेषु ध्वजाद्येषु फलं क्रमात् । अर्थलाभश्च सन्तापो भोगः कलह एव च ॥ १२ ॥ धान्यं स्त्रीदूषणं सौख्यं मरणं च विनिर्दिशेत् । ध्वजः सर्वमुखः प्रत्यङ्मुखः पूर्वाननो वृषः ॥ १३ ॥ सिंह सौम्यमुखो हस्ती दक्षिणाभिमुखः शुभः । खण्डितं स्फुटितं दग्धं भिन्नं निपतितं तथा ॥ १४ ॥ तेषां न मन्त्रसंस्कारो गतास्ता आयदेवताः ॥ १५ ॥ देवयज्ञगृहच्छत्रध्वजवेदीषु तोरणे । वस्त्रालङ्कारदैवेषु दद्यात्तोयाशये ध्वजम् ॥ १६ ॥ होमकुण्डेऽग्निसंस्थाने होमशाला महानसे । धूमं युज्याद्विशेषेण वह्निकर्मोपजीविनाम् ॥ १७ ॥ १० पृष्टो in A ११. विदिग्जजे in A १२. अधूमानां in B