वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 74, कुल 465 में से
संदर्भ में पढ़ें[अ०२३श्लो०१७३-१९६] वायुपुराणम् ६५
( माहेश्वरावतारयोगः )
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः । काश्यपो ह्युशना चैव च्यवनोऽथ बृहस्पतिः ]
तेऽपि तेनैव मार्गेण गमिष्यन्ति परं पदम् ॥ १७३
ततः सप्तदशे चैव परिवर्ते क्रमागते । तदा भविष्यते व्यासो नाम्ना देवकृतञ्जयः ॥ १७४
तदाऽप्यहं भविष्यामि गुहावासीति नामतः । हिमवच्छिखरे चैव महातुङ्गे महालये ॥
सिद्धक्षेत्रं महापुण्यं भविष्यति महालयम् ॥ १७५
तत्रापि मम ते पुत्रा ब्रह्मज्ञा योगवेदिनः । भविष्यन्ति महात्मानो मर्मज्ञा निरहंकृताः ॥ १७६
उतथ्यो वामदेवश्च महाकालो महालयः । तेषां शतसहस्रं तु शिष्याणां ध्यानसाधनम् ॥ १७७
भविष्यन्ति तदा कल्पे सर्वे ते ध्यानयुञ्जकाः । ते तु संनिहिता योगे हृदि कृत्वा महेश्वरम् ॥
महालये पदं शिप्त्वा प्रविष्टाः शिवमव्ययम् ॥ १७८
ये चान्येऽपि महात्मानः काले तस्मिन्युगान्तिके । ध्यानयुक्तेन मनसा विमलाः शुद्धबुद्धयः ॥
गत्वा महालयं पुण्यं दृष्ट्वा माहेश्वरं पदम् । तूर्णं तारयते जन्तून्दश पूर्वान्दशापरान् ॥ १७९
आत्मानमेकविंशं च तारायित्वा महार्णवम् । मम प्रसादाद्यास्यन्ति रुद्रलोकं गतज्वराः ॥ १८०
ततोऽष्टादशमश्चैव परिवर्तो यदा भवेत् । तदा ऋतञ्जयो नाम व्यासस्तु भविता मुनिः॥
तदाऽप्यहं भविष्यामि शिखण्डी नाम नामतः ॥ १८१
सिद्धक्षेत्रे महापुण्ये देवदानवपूजिते । हिमवच्छिखरे पुण्ये शिखण्डी यत्र पर्वतः ॥
शिखण्डिनो वनं चापि ऋषिसिद्धनिषेवितम् ॥ १८२
तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः । वाचश्रवा ऋती(ची)कश्च शावासश्च दृढव्रतः ॥ १८३
योगात्मानो महासत्वाः सर्वे ते वेदपारगाः । प्राप्य माहेश्वरं योगं रुद्रलोकं व्रजन्ति ते ॥ १८४
ततस्त्वेकोनविंशे तु परिवर्ते क्रमागते । व्यासस्तु भविता नाम्ना भरद्वाजो महामुनिः ॥ १८५
तत्राप्यहं भविष्यामि जटामालीति नामतः । हिमवच्छिखरे रम्ये जटायुर्यत्र पर्वतः ॥ १८६
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः । हिरण्यनामा कौशिल्यः काक्षीवः कुथुमिस्तथा ॥ १८७
ईश्वरा योगधर्माणः सर्वे ते ह्युर्ध्वरेतसः । प्राप्य माहेश्वरं योगं गमिष्यन्ति न संशयः ॥ १८८
ततो विंशतिमे सर्गे परिवर्ते क्रमेण तु । वाचःश्रवाः स्मृतो व्यासो भविष्यति महामतिः ॥ १८९
तदाऽप्यहं भविष्यामि हट्टहासेति नामतः । अट्टहासप्रियाश्चापि भविष्यन्ति तदा नराः ॥ १९०
तत्रैव हिमवत्पृष्ठे त्वट्टहासो महागिरिः । भविष्यति महातेजाः सिद्धचारणसेवितः ॥ १९१
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः । युक्तात्मानो महासत्वा ध्यायिनो नियमव्रताः ॥ १९२
सुमन्तुर्बर्बरिर्विद्वान्सुबन्धुः कुशिकन्धरः । प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गताः ॥ १९३
एकविंशे पुनः प्राप्ते परिवर्ते क्रमेण तु । वाचस्पतिः स्मृतो व्यासो यदा स ऋषिसत्तमः ॥ १९४
तदाऽप्यहं भविष्यामि दारुको नाम नामतः । तस्माद्भविष्यते पुण्यं देवदारुवनं महत् ॥ १९५
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः । प्लक्षो दाक्षायणिश्चैव केतुमाली वकस्तथा ॥ १९६
९