भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 75, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 75

६६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० २३ श्लो १९७-२१८] ( माहेश्वरावतारयोगः )

योगात्मानो महात्मानो नियता ह्यूर्ध्वरेतसः । परं योगमास्थाय रुद्रं प्राप्तास्तदाऽनघाः ॥ १९७
द्वाविंशे परिवर्ते तु व्यासः शुक्सायनो यदा । तदाऽप्यहं भविष्यामि वाराणस्यां महामुनिः ॥ १९८
नाम्ना वै लाङ्गली भीमो यत्र देवाः सवासवाः । द्रक्ष्यन्ति मां कलौ तस्मिन्प्रवतीर्णे हलायुधम् ॥
तत्रापि मम ते पुत्रा भविष्यन्ति सुधार्मिकाः । तुल्यार्चिर्मधुपिङ्गाक्षः श्वेतकेतुस्तथैव च ॥ २००
तेऽपि माहेश्वरं योगं प्राप्य ध्यानपरायणाः । विराजा ब्रह्मभूयिष्ठा रुद्रलोकाय संस्थिताः ॥ २०१
परिवर्ते त्रयोविंशे तृणविन्दुर्यदा मुनिः । व्यासो भविष्यति ब्रह्मंस्तदाऽहं भविता पुनः ॥ २०२
श्वेतो नाम महाकायो मुनिपुत्रः सुधार्मिकः ॥ २०३
तत्र कालं जरिष्यामि तदा गिरिवरोत्तमे । तेन कालंजरो नाम भविष्यति स पर्वतः ॥ २०४
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः । आसिजो बृहदुद्यंश्च देवलः काविरेव च ॥
प्राप्य माहेश्वरं योगं रुद्रलोकं गता हि ते ॥ २०५
परिवर्ते चतुर्विंशे ऋक्षो व्यासो भविष्यति । तत्राहं भविता ब्रह्मन्कलौ तस्मिन्युगान्तिके ॥
शूली नाम महायोगी नैमिषे योगिवन्दिते ॥ २०६
तत्रापि मम ते पुत्रा भविष्यन्ति तपस्विनः । शालिहोत्रोऽग्निवेश्यश्चः युवनाथः शरद्वसुः ॥
तेऽपि योगबलोपेता रुद्रं यास्यन्ति सुव्रताः ॥ २०७
पञ्चविंशे पुनः प्राप्ते परिवर्ते यथाक्रमम् । वसिष्ठस्य यदा व्यासः शक्तिर्नाम भविष्यति ॥ २०८
तदाऽप्यहं भविष्यामि दण्डी मुण्डीश्वरः प्रभुः । कोटिवर्षं समासाद्य नगरं देवपूजितम् ॥ २०९
तत्रापि मम ते पुत्रा भविष्यन्ति क्रमागतः । योगात्मानो महात्मानः सर्वे ते ह्यूर्ध्वरेतसः २१०
छागलः कुम्भकर्णाश्यः कुम्भश्चैव प्रवाहकः । प्राप्य माहेश्वरं योगं गमिष्यन्ति तथैव ते ॥ २११
षड्विंशे परिवर्ते तु यदा व्यासः पराशरः । तदाऽप्यहं भविष्यामि सहिष्णुर्नाम नामतः ॥
पुण्यं रुद्रवटं प्राप्य कलौ तस्मिन्युगान्तिके ॥ २१२
तत्रापि मम ते पुत्रा भविष्यन्ति सुधार्मिकाः । उलूको वैद्युतश्चैव शर्वको ह्वाश्वलायनः ॥
प्राप्य माहेश्वरं योगं गन्तारस्ते तथैव हि ॥ २१३
सप्तविंशतितमे प्राप्ते परिवर्ते क्रमागते । जातूकर्ण्यो यदा व्यासो भविष्यति तपोधनः ॥ २१४
तदाऽप्यहं भविष्यामि सोमशर्मा द्विजोत्तमः । प्रभासं तीर्थमासाद्य योगात्मा लोकविश्रुतः ॥ २१५
तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः । अक्षपादः कणादश्च उलूको वत्स एव च ॥ २१६
योगात्मानो महात्मानो विमलाः शुद्धबुद्धयः । प्राप्य माहेश्वरं योगं रुद्रलोकं ततो गताः ॥
अष्टाविंशे पुनः प्राप्ते परिवर्ते कृपागते । पराशरसुतः श्रीमान्विष्णुर्लोकपितामहः ॥ २१७
यदा भविष्यति व्यासो नाम्ना द्वैपायनः प्रभुः । तदा षष्ठेन चांशेन कृष्णः पुरुषसत्तमः ॥
वसुदेवाद्यदुश्रेष्ठो वासुदेवो भविष्यति ॥ २१८