वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 77, कुल 465 में से
संदर्भ में पढ़ें६८ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ० २४ श्लो० १३-३६] (शार्वस्तवः)
शतयोजनविस्तीर्णं तरुणादित्यवर्चसम् । वज्रदण्डं महोत्सेधं लीलया प्रभविष्णुना ॥ १३ तस्यैवं क्रीडमानस्य समीपं देवमीढुषः । हेमब्रह्माण्डजो ब्रह्मा रुक्मवर्णो ह्यतीन्द्रियः ॥ चतुर्मुखो विशालाक्षः समागम्य यदृच्छया ॥ १४ श्रिया युक्तेन नव्येन सुप्रभेण सुगन्धिना । तं क्रीडमानं पद्मेन दृष्ट्वा ब्रह्मा तु भेजिवान् ॥ १५ स विस्मयमथाऽऽगम्य श्लक्ष्णसम्पूर्णया गिरा । प्रोवाच को भवांश्शेते आश्रितो मध्यमम्भसाम् ॥ १६ अथ तस्याच्युतः श्रुत्वा ब्रह्मज्ञस्तु शुभं वचः । उदतिष्ठत पर्यङ्काद्विस्मयोत्फुल्ललोचनः ॥ १७ प्रत्युवाचोत्तरं चैव क्रियते यच्च किंचन । द्यौरन्तरिक्षं भूश्चैव परं पदमहं प्रभुः ॥ १८ तमेवमुक्त्वा भगवान्विष्णुः पुनरथाब्रवीत् । कस्त्वं खलु समायातः समीपं भगवान्कुतः ॥ कुतश्च भूयो गन्तव्यं कुत्र वा ते प्रतिश्रयः ॥ १९ को भवान्विधमूर्त्तिस्त्वं कर्तव्यं किं च ते मया । एवं ब्रुवाणं वैकुण्ठं प्रत्युवाच पितामहः ॥ २० यथा भवांस्तथा चाहमादिकर्त्ता प्रजापतिः । नारायणसमाख्यातः सर्वं वै मयि तिष्ठति ॥ २१ सविस्मयं परं श्रुत्वा ब्रह्मणा लोककर्तृणा । सोऽनुज्ञातो भगवता वैकुण्ठो विश्वसंभवः ॥ २२ कौतूहलान्महायोगी प्रविष्टो ब्रह्मणो मुखम् । इमानष्टादश द्वीपान्ससमुद्रान्सपर्वतान् ॥ २३ प्रविश्य स महातेजाश्चातुर्वर्ण्यसमाकुलान् । ब्रह्मादिस्तम्बपर्यन्तान्सप्तलोकान्सनातनान् ॥ २४ ब्रह्मणस्तूदरं दृष्ट्वा सर्वान्विष्णुर्महायशाः । अहोऽस्य तपसो वीर्यं पुनः पुनरभाषत ॥ २५ पर्यटन्विविधाँल्लोकान्विष्णुर्नानाविधाश्रमान् । ततो वर्षसहस्रान्ते नान्तं हि ददृशे तदा ॥ २६ तदाऽस्य वक्त्रान्निष्क्रम्य पन्नगेन्द्रादिकेतनः । अजातशत्रुर्गर्भगवान्पितामहमथाब्रवीत् ॥ २७ भगवन्नादिमध्यं च अन्तः कालादिशे न च । नाहमन्तं प्रपश्यामि ह्युदरस्य तवानघ ॥ २८ एवमुक्तवाऽब्रवीद्भूयः पितामहमिदं हरिः । भवानप्येवमेवाद्य ह्युदरं मम शाश्वतम् ॥ प्रविश्य लोकान्पश्यैताननौपम्यानद्विजोत्तम ॥ २९ मनःप्रह्लादनीं वाणीं श्रुत्वा तस्याभिनन्द्य च । श्रीपतेरुदरं भूयः प्रविवेश पितामहः ॥ ३० तानेव लोकान्गर्भस्थः पश्यन्सोऽचिन्त्यविक्रमः । पर्यटित्वाऽऽदिदेवस्य ददर्शान्तं न वै हरेः ॥ ३१ ज्ञात्वाऽऽगमं तस्य पितामहस्य द्वाराणि सर्वाणि विधाय विष्णुः । विभुर्मनः कर्तुमियेष चाऽऽशु सुखं प्रसुप्तोऽस्मि महाजलौघे ॥ ३२ ततो द्वाराणि सर्वाणि पिहितान्युपलक्ष्य ते । सूक्ष्मं कृत्वाऽऽत्मनो रूपं नाभ्यां द्वारमविन्दत ॥ पद्मसूत्रानुमार्गेण ह्यनुगम्य पितामहः । उज्जहाराऽऽत्मनो रूपं पुष्कराच्चतुराननः । ३३ विरराजारविन्दस्थः पद्मगर्भसमद्युतिः ॥ ३४ एतस्मिन्नन्तरे ताभ्यामेकैकस्य तु कार्त्स्न्यतः । प्रवर्त्तमाने संहर्षे मध्ये तस्यार्णवस्य तु* ॥ ३५
सूत उवाच- ततो ह्यपरिमेयात्मा भूतानां प्रभुरीश्वरः । शूलपाणिर्महादेवो हेमचीराम्बरच्छदः ॥ आगच्छद्यत्र सोऽनन्तो नागभोगपतिर्हरिः ॥ ३६
* अस्मिन्स्थलेऽध्यायपरिसमाप्तिर्दृश्यते ख. घ. ङ. पुस्तकेषु ।