वेदान्तसार (सदानन्द योगीन्द्र - विद्वन्मनोरञ्जनी व हिन्दी व्याख्या सहित)
Vedantasara of Sadananda with Hindi Commentary
by सदानन्द योगीन्द्र
Source: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (origin)
Page 203 of 314
Read in contextसूक्ष्मशरीर निरूपण १८९ (7) कुछ विद्वानों ने इसी प्रसङ्ग में चित्त और अहंकार को भी परिभाषित किया है- (क) अनुसंधानात्मिकान्तःकरणवृत्तिः चित्तम्। (ख) अभिमानात्मिकान्तःकरण वृत्तिरहंकारः॥ (8) विज्ञानमयकोश को ही व्यावहारिकदृष्टि से 'जीव' संज्ञा प्रदान की गई है। (9) प्रस्तुत अंश की चित्रात्मक व्याख्या के लिए द्रष्टव्य भूमिका में चित्रसंख्या-2, 3, 6 । अवतरणिका- इसी विषय को आगे विवेचन करते हुए पञ्चकर्मेन्द्रिय, पञ्चप्राण एवं प्राणमयकोश की उत्पत्ति की प्रक्रिया को कहते हैं- कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थाख्यानि। एतानि पुनराकाशादीनां रजोंशेभ्यो व्यस्तेभ्यः पृथक् पृथक् क्रमेणोत्पद्यन्ते। वायवः प्राणापानव्यानोदानसमानाः। प्राणो नाम प्राग्गमनवान्नासाग्रस्थानवर्ती। अपानो नामावाग्गमनवान्पाय्वादिस्थानवर्ती। व्यानो नाम विष्वग्गमनवानखिलशरीरवर्ती। उदानो नाम कण्ठस्थानीय ऊर्ध्वगमनवानुत्क्रमणवायुः। समानो नाम शरीरमध्यगताशित- पीतान्नादिसमीकरणकरः। केचित्तु नागकूर्मकृकलदेवदत्तधनञ्जयाख्याः पञ्चान्ये वायवः सन्तीति वदन्ति। तत्र नाग उद्गिरणकरः। कूर्म उन्मीलनकरः। कृकलः क्षुत्करः। देवदत्तो जृम्भणकरः। धनञ्जयः पोषणकरः। एतेषां प्राणादिष्वन्तर्भावात्प्राणादयः पञ्चैवेति केचित्। एतत्प्राणादिपञ्चक- माकाशादिगतरजोंशेभ्यो मिलितेभ्य उत्पद्यते। इदं प्राणादिपञ्चकं कर्मेन्द्रियैः सहितं सत्प्राणमयकोशो भवति। अस्य क्रियात्मकत्वेन रजोंशकार्यत्वम्। पदच्छेद-कर्मेन्द्रियाणि-वाक्-पाणि-पाद-पायु-उपस्थ-आख्यानि। एतानि पुनः आकाश-आदीनाम् रजः अंशेभ्यः व्यस्तेभ्यः पृथक् पृथक् क्रमेण उत्पद्यन्ते। वायवः-प्राण-अपान-व्यान-उदान-समानाः। प्राणः नाम प्राग् गमनवान् नासाग्रस्थानवर्ती। अपानः नाम अवाक् गमनवान् पायु- आदि स्थानवर्ती। व्यानः नाम विष्वग् गमनवान् अखिल-शरीरवर्ती। उदानः नाम कण्ठस्थानीयः ऊर्ध्वगमनवान् उत्क्रमणवायुः। समानः नाम शरीरमध्यगत-अशीत-पीत-अन्नादि समीकरणकरः।