BharatKosha
वेदान्तसार (सदानन्द योगीन्द्र - विद्वन्मनोरञ्जनी व हिन्दी व्याख्या सहित)

वेदान्तसार (सदानन्द योगीन्द्र - विद्वन्मनोरञ्जनी व हिन्दी व्याख्या सहित)

Vedantasara of Sadananda with Hindi Commentary

by सदानन्द योगीन्द्र

Source: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (origin)

DevanagariSanskritpublished314 pages

Page 203 of 314

Read in context
Page 203

सूक्ष्मशरीर निरूपण १८९ (7) कुछ विद्वानों ने इसी प्रसङ्ग में चित्त और अहंकार को भी परिभाषित किया है- (क) अनुसंधानात्मिकान्तःकरणवृत्तिः चित्तम्। (ख) अभिमानात्मिकान्तःकरण वृत्तिरहंकारः॥ (8) विज्ञानमयकोश को ही व्यावहारिकदृष्टि से 'जीव' संज्ञा प्रदान की गई है। (9) प्रस्तुत अंश की चित्रात्मक व्याख्या के लिए द्रष्टव्य भूमिका में चित्रसंख्या-2, 3, 6 । अवतरणिका- इसी विषय को आगे विवेचन करते हुए पञ्चकर्मेन्द्रिय, पञ्चप्राण एवं प्राणमयकोश की उत्पत्ति की प्रक्रिया को कहते हैं- कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थाख्यानि। एतानि पुनराकाशादीनां रजोंशेभ्यो व्यस्तेभ्यः पृथक् पृथक् क्रमेणोत्पद्यन्ते। वायवः प्राणापानव्यानोदानसमानाः। प्राणो नाम प्राग्गमनवान्नासाग्रस्थानवर्ती। अपानो नामावाग्गमनवान्पाय्वादिस्थानवर्ती। व्यानो नाम विष्वग्गमनवानखिलशरीरवर्ती। उदानो नाम कण्ठस्थानीय ऊर्ध्वगमनवानुत्क्रमणवायुः। समानो नाम शरीरमध्यगताशित- पीतान्नादिसमीकरणकरः। केचित्तु नागकूर्मकृकलदेवदत्तधनञ्जयाख्याः पञ्चान्ये वायवः सन्तीति वदन्ति। तत्र नाग उद्गिरणकरः। कूर्म उन्मीलनकरः। कृकलः क्षुत्करः। देवदत्तो जृम्भणकरः। धनञ्जयः पोषणकरः। एतेषां प्राणादिष्वन्तर्भावात्प्राणादयः पञ्चैवेति केचित्। एतत्प्राणादिपञ्चक- माकाशादिगतरजोंशेभ्यो मिलितेभ्य उत्पद्यते। इदं प्राणादिपञ्चकं कर्मेन्द्रियैः सहितं सत्प्राणमयकोशो भवति। अस्य क्रियात्मकत्वेन रजोंशकार्यत्वम्। पदच्छेद-कर्मेन्द्रियाणि-वाक्-पाणि-पाद-पायु-उपस्थ-आख्यानि। एतानि पुनः आकाश-आदीनाम् रजः अंशेभ्यः व्यस्तेभ्यः पृथक् पृथक् क्रमेण उत्पद्यन्ते। वायवः-प्राण-अपान-व्यान-उदान-समानाः। प्राणः नाम प्राग् गमनवान् नासाग्रस्थानवर्ती। अपानः नाम अवाक् गमनवान् पायु- आदि स्थानवर्ती। व्यानः नाम विष्वग् गमनवान् अखिल-शरीरवर्ती। उदानः नाम कण्ठस्थानीयः ऊर्ध्वगमनवान् उत्क्रमणवायुः। समानः नाम शरीरमध्यगत-अशीत-पीत-अन्नादि समीकरणकरः।