BharatKosha
Back to the archive

वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

Vedantasara by Sadananda Yogindra

by सदानन्द योगीन्द्र

Source: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (origin)

DevanagariSanskritpublished145 pages
Page 120Permalink

( १२० ) वेदान्तसार । म्बन करनेमें असमर्थ अन्तःकरणवृत्तिका जो अन्य वस्तुका अवलम्बन है उसको विक्षेप कहते हैं । लय और विक्षेपके न होनेपर रागादि वासनासे अन्तःकरण स्तब्ध होजाताहै तब अखण्ड ब्रह्मवस्तुके अवलम्बनकी असामर्थ्यका नाम कषाय है । निर्विकल्पक अखण्ड ब्रह्मवस्तुके अवलम्बन करनेमें अ- समर्थ अन्तःकरणकी वृत्तिके सविकल्पक आनन्द आस्वादन का नाम रसास्वादन है अथवा निर्विकल्पक समाधिके आर- म्भके समय सविकल्पक रसास्वादनकोभी रसास्वादन कहतेहैं। अनेन विघ्नचतुष्टयेन रहितं चित्तं निर्वातदीपवद- चलं सदखण्डचैतन्यमात्रमवशिष्यते यदा तदा नि- र्विकल्पकः समाधिरित्युच्यते तदुक्तम्-“लये स- म्बोधयेच्चित्तं विक्षिप्तं शमयेत्पुनः । सकषायं विजा- नीयाच्छमप्राप्तं न चालयेत् । नास्वादयेद्रसं तत्र निःसङ्गः प्रज्ञया भवेत्” इत्यादि “यथा दीपो नि- वातस्थो नेङ्गते सोपमा स्मृता” इत्यादि च ॥९५॥ (सं०टी०) प्रोक्तविघ्नचतुष्टयनिवृत्तेः फलमाह। अनेने- ति। लयादिविघ्नाभावसहितं चित्तं यदा निर्वातदीपवदचलमखं- डचैतन्यमात्रमवतिष्ठते तदा निर्विकल्पकसमाधिरित्यर्थः। लया- दिविघ्नसद्भावे तन्निवृत्तिप्रकारे च वृद्धसंमतिमाह। तदुक्तमिति। पूर्वोक्तनिद्रालक्षणे लये जाते सति तन्निवृत्त्यर्थं चित्तं संबोधये- त् चित्तगतजाड्यादिपरित्यागेन चित्तमुद्बोधयेत् उक्तविक्षेप- युक्तं चित्तं यदा भवति तदा विषयवैराग्यादिना चित्तं शमयेत्

Page 121Permalink

बहिर्मुखतां परित्यज्यांतर्मुखं कुर्यात् उक्तरागादिकषाय सहितं चित्तं यदा भवेत्तदा विजानीयादियं रागादिवासनाबा- ह्यविषयप्रापिका नत्वखंडवस्तुप्रापिका अतो नेयं समीचीनेति विविच्य प्रत्यक्श्रवणवासनायाः सकाशादियं निकृष्टाऽतस्त्या ज्येयमिति जानीयादित्यर्थः। यद्वा सम्यग्वस्तुन्यप्राप्तं चित्तं यदा भवति तदा तच्चित्तं कषायसहितंजानीयात्तच्चचित्तं यावताकाले न रागादिवासनाक्षयसहितं भवति तावत्कालंतच्चित्तंस्वस्थानान्न चालयेद्वासनाक्षयानंतरं चित्तं स्वत एव प्रत्यक्प्रवणं भवतीत्य र्थः। नास्वादयेदिति। पूर्वोक्तसविकल्पकरसं विषयप्रपंचभारत्या गजन्यं नास्वादयेन्नानुभवेत् । तत्र युक्तिमाह । निःसंग इति । यतो निःसंगो वैषयिकसुखदुःखादिसंगरहितः अतः प्रज्ञया युक्तो भवेत् स्थिरप्रज्ञो भवेदित्यर्थः । तदुक्तं भगवता “प्रज- हाति यदा कामान्सर्वान्पार्थ मनोगतान् । आत्मन्येवात्मना तु- ष्टः स्थितप्रज्ञस्तदोच्यते” इति । तस्माल्लयदिविघ्नाभावविशि- ष्टचित्तस्य चिन्मात्रतयावस्थानं निर्विकल्पकसमाधिरित्यर्थः। तत्र भगवानाह । यथेति । अथ निर्विकल्पकसमाधौ स्व- गुरूपदिष्टमार्गेण यथामति किंचिद्विचार्यते । पंचभूमिकोपेतस्य चित्तस्य भूमिकात्रयपरित्यागेनावशिष्टं भूमिकाद्वयं समाधिरि त्युच्यते। कास्ताः पंचभूमिकाः। क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरु- द्धं चेति पंच चित्तभूमिकाः । तत्र सुरसंपल्लोकशास्त्रदेहवासना- सु वर्त्तमानं क्षिप्तमित्युच्यते, निद्रातंद्रादिग्रस्तं चित्तं मूढमित्यु- च्यते, कदाचित्कृतध्यानयुक्तमपि बहिर्गमनशीलं उक्तविक्षिप्ता- ६

Page 122Permalink

( १२२ ) वेदान्तसार । द्विशिष्टतया विक्षिप्तं चित्तमित्युच्यते, तत्र क्षिप्तमूढयोः समा- धित्वशंकैव नास्ति विक्षिप्ते तु चेतसि विक्षेपांतर्गततया दह- नांतर्गतबीजवच्चित्तस्य सद्यएव विनाशात्तदापि न समाधिः। ए- काग्यतां पतञ्जलिः सूत्रयति “शांतोदितौ तुल्यप्रत्ययौ चित्तस्यै- काग्यता परिणामः”इति। अस्यार्थः।शांतोऽतीतःउदितोवर्तमानः चित्तवृत्तिरतीतवर्त्तमानप्रत्ययौ भवतः। अतीतप्रत्ययो यं पदार्थं गृह्णाति उदितोपि तमेव चेत् गृह्णीयात् तदा तावुभौ तुल्यौ भ- वतः। तादृशएव चित्तस्य परिणाम एकाग्रतेत्युच्यते,एकाग्रता- भिवृद्धिलक्षणं समाधिं सूत्रयति । सर्वार्थैकाग्रतयोः क्षयोदयौ चित्तस्य परिणामः समाधिरिति रजोगुणेन चाल्यमानं चित्तं क्रमेण सर्वानर्थान्पदार्थान्परिगृह्णाति तस्य रजोगुणस्य निरो- धाय क्रियमाणेन प्रयत्नविशेषेण दिने दिने योगिनः सर्वार्थता क्षीयते एकाग्रता चोदेति तादृशः चित्तस्य परिणामः समाधि- रित्यर्थः। अस्य समाधेरष्टांगेषु यमनियमासनप्राणायामप्रत्याहा राः पंच बहिरंगानि। हिंसादिभ्यो निषिद्धेभ्यो योगिनः कर्म्मभ्यो यमयन्ति निवर्त्तयंतीत्यहिंसादयो यमाः। जन्महेतोः काम्यधर्मा- न्निवर्त्य मोक्षे हेतौ निष्कामधर्मे नियमयंति प्रेरयंतीति शौचा- दयो नियमाः। यमनियमयोरनुष्ठानवैलक्षण्यं स्मर्यते “यमान्से- वेत सततं न नित्यं नियमान्बुधः । यमान्पतत्यकुर्वाणोनियमां- न्केवलान् भजन्” इति बुद्धया यमनियमौ समीक्ष्य यमबहु- लेषु प्रयत्नेषु बुद्धिमनुसंदधीत । आसनप्राणायामप्रत्याहारा व्याख्याताः ॥ ९५ ॥

Page 123Permalink

संस्कृतटीका-भाषाटीकासमेत । ( १२३ ) (भा०टी०) जिससमय चित्त पूर्वोक्त चार प्रकारके विघ्नोंसे रहित होकर वायुरहित स्थानमें स्थित दीपककी तरह अचलहुआ केवल अखण्ड चैतन्यमात्रकी चिन्तामें तत्पर होता है उस समय चित्तका निर्विकल्पक समाधि कहाता है श्रुतिके प्रमाणसेभी जाना जाता है- "लयरूप विघ्न उपस्थित होनेपर अन्तःकरणमें उद्बोधकको उत्पन्न करै अन्तःकरणके विक्षेपरूप विघ्नके तिरस्कृत होनेपर उसको शान्त करै । कषायरूप विघ्नयुक्त हुए चित्तको जानकर निवृत्त रक्खै। जिस समय अखण्ड ब्रह्म वस्तुमें प्रणिधान होय उससमय अन्तःक- रणको चलायमान न करै । उस समय कोई सविकल्पक आनन्द आस्वादन न करै। और प्रज्ञाद्वारा निःसंग होजायहै। इस विषयमें स्मृतिका प्रमाणभी है- "जिसप्रकार दीपक वायु- रहित स्थानमें स्थित होकर निश्चल रहता है तिसीप्रकार प्र- णिधान होनेपर अन्तःकरण निश्चल होता है" ॥ ९५ ॥ अथ जीवन्मुक्तलक्षणमुच्यते । जीवन्मुक्तो नाम स्वस्वरूपाखण्डे ब्रह्मणि साक्षात्कृते सति अज्ञात- तत्कार्य्यसञ्चितकर्म्मसंशयविपर्य्ययादीनामपिबा धितत्वादखिलबन्धरहितो ब्रह्मनिष्ठः । "भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्म्माणि तस्मिन्दृष्टे परावरे"। इत्यादिश्रुतेः॥९६॥ (सं०टी०) ध्यानधारणासमाधित्रयं मनोविषयत्वात्सम्प्र- ज्ञातसमाधेरंतरंगं यमादिकंतुबहिरंगं तथाचकेनापि पुण्येनांतरंगे

Page 124Permalink

( १२४ ) वेदान्तसार । प्रथमं लब्धे सति बहिरंगलाभाय नातिप्रयासः कर्तव्यः । यद्य- पि पतंजलिना भौतिकभूततन्मात्रेन्द्रियाहंकारविषयाः संप्र- ज्ञातसमाधयो बहुधा प्रपंचिताः तथापि तेषामंतर्धानाकाश- गमनादिसिद्धिहेतुतया मुक्तिहेतुसमाधिविरोधित्वान्नास्माभिः तत्रादरः क्रियते । तथा चोक्तं वासिष्ठे । "श्रीराम उवाच । जीवन्मुक्तशरीराणां कथमात्मविदांवर । शक्तयो नेह दृश्यंते आ- काशगमनादिकाः॥ श्रीवसिष्ठउवाच। अनात्मविदमुक्तो पि सि- द्धिजालानि वांछति । द्रव्यमंत्रक्रियाकालयुक्त्याप्नोत्येव राघव ॥ नात्मज्ञस्यैष विषय आत्मज्ञो ह्यात्मनात्मदृक् । आत्मना- त्मनि संतुष्टो नाविद्यामनुधावति । ये केचन जगद्भावा- स्तानविद्यामयान्विदुः । कथं तेषु किलात्मज्ञस्त्यक्त्वा वि- द्यां निमज्जति । द्रव्यमंत्रक्रियाकालयुक्तयः साधुसिद्धिदाः । परमात्मपदप्राप्तौ नोपकुर्वंति कांचन ॥" इति। आत्मविषयस्तु सं प्रज्ञातसमाधिर्वासनाक्षयस्य निरोधसमाधेश्च हेतुः तस्मा- त्तत्रादरः कृतः । अथ पंचमभूमिकारूढचित्तस्य निरोध- लक्षणः समाधिर्निरूप्यते । तं च समाधिं सूत्रयति “व्युत्था- ननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधलक्षणचित्तान्वयो निरोधः परिणामः” इति । व्युत्थानसंस्काराः समाधिविरोधिनः ते च निरोधहेतुना योगिप्रयत्नेन प्रतिदिनं प्रतिक्षणं वाऽभिभू- यंते तद्विरोधिनश्च निरोधसंस्काराः प्रादुर्भवंति तथा सति नि- रोध एवैकस्मिन् क्षणे चित्तमनुगच्छति सोऽयमीदृशः चित्तस्य परिणामो भवति यदा तदाऽसंप्रज्ञातसमाधिरुच्यत इत्यर्थः। ए-

Page 125Permalink

संस्कृतटीका-भाषाटीकासमेत । ( १२५ ) तत्समाधिद्वयं जीवन्मुक्तस्यैव भवति नान्यस्येति मनसि नि- धाय प्रथमं जीवन्मुक्तस्य स्वरूपं प्रतिपादयितुं प्रतिजानीते । अथेति । तस्य लक्षणमाह । जीवन्मुक्तो नामेत्यादिना ब्रह्मनि- ष्ठ इत्यंतेन । जीवन्मुक्तो नामेति । अत्राखिलबंधरहितो ब्रह्म- निष्ठो जीवन्मुक्त इति । तस्य लक्षणं जीवतः पुरुषस्य हि कर्तृत्वभोक्तृत्वसुखदुःखलक्षणोऽखिलो यः चित्तधर्मः स क्ले- शरूपत्वाद्बंधो भवति तेन रहितः परित्यक्तबंधनः ब्रह्मणि निष्ठा तदेकपरता यस्य स ब्रह्मनिष्ठः जीवन्मुक्त इत्यर्थः । सकलबं- धराहित्ये हेतुमाह । स्वस्वरूपेति । गुरुश्रुतिस्वानुभवैर्ब्रह्मा- त्मैकत्वविज्ञानेन मूलाज्ञानतत्कार्यसंचितकर्म्मादीनामपि बा- धितत्वात्सर्वसंशयाः क्षीयंते इति। तथा च श्रुतिः “भिद्यते हृ- दयग्रंथिश्चिद्यंते सर्वसंशयाः। क्षीयंते चास्य कर्माणि तस्मिन्दृ- ष्टे परावरे” इति ॥ ९६ ॥ ( भा०टी० ) अब जीवन्मुक्तका लक्षण निरुपण करते हैं। जो पुरुष अखण्ड चैतन्यस्वरूप ब्रह्मज्ञान होनेके अनन्तर अज्ञानका नाश होनेसे सर्वव्यापी चैतन्यस्वरूप ब्रह्मका सा- क्षात्कार करके अज्ञान और अज्ञानके कार्य,इकठे कियेहुये पाप,पुण्य,संशय, और भ्रमादिको दूर करके संसार बन्धनसे विमुक्त होकर ब्रह्मनिष्ठ होता है उसको जीवन्मुक्त कहते हैं। इसका प्रमाण श्रुतिसेभी जाना जाता है-“सर्वश्रेष्ठ परब्रह्मका साक्षात्कार होनेसे हृदयका भ्रम नष्ट होता है। सम्पूर्ण संशय

Page 126Permalink

( १२६ ) वेदान्तसार । दूर हो जाते हैं । और अच्छे बुरे कर्म्मोंके फल नष्ट होजातेहैं अयन्तु व्युत्थानसमये मांसशोणितमूत्रपुरीषादि- भाजनेन शरीरेण आन्ध्यमान्द्यापटुत्वादिभाजने- नेन्द्रियग्रामेण अशनायापिपासाशोकमोहादिभा- जनेनान्तःकरणेन च तत्तत्पूर्वपूर्ववासनया क्रिय- माणानि कर्म्माणि भुज्यमानानि ज्ञानाविरुद्धान्या- रब्धफलानि च पश्यन्नपि बाधितत्वात् परमार्थतो न पश्यति यथा इदमिन्द्रियजालमिति ज्ञानवान् तदिन्द्रियजालं पश्यन्नपि परमार्थमिदमिति न पश्यति। "सचक्षुरचक्षुरिव सकर्णोऽकर्ण इव समना अमना इव सप्राणोऽप्राण इव"इत्यादिश्रुतेः । उक्तञ्च—"सुषुप्तवज्जाग्रति यो न पश्यति द्वयञ्च प- श्यन्नपि चाद्वयत्वतः ॥ तथापि कुर्वन्नपि निष्क्रि- यश्च यः स आत्मविन्नान्य इतीह निश्चयः " इति ॥ ९७ ॥ ( सं०टी० ) नन्वेतादृशस्य जीवन्मुक्तस्य देहेंद्रियादिभा- नमस्ति नवेत्याशंक्य दग्धपटन्यायेनेन्द्रजालनिर्मितसौधसमु- द्रादिवच्च बाधितानुवृत्त्या मिथ्यात्वेन भानेपि परमार्थतया भा- नं नेत्याह । अयमित्यादिना न पश्यतीत्यंतेन । अस्मि- न्नर्थे श्रुतिमाह सचक्षुरिति । उक्तेर्थे आचार्यवचनं प्रमा- णयति । उक्तंचेति । इह जगति स एवात्मविन्नान्य इति मे नि-

Page 127Permalink

संस्कृतटीका-भाषाटीकासमेत । ( १२७ ) श्रय इत्यन्वयः। स क इत्यपेक्षायामाह । य इति । यः कोपि महापुरुषो ब्रह्मात्मैकत्वसाक्षात्कारेण निरस्तसमस्तभेदबुद्धिः सुषुप्त्यवस्थायां यथा द्वैतं न पश्यति तथा ब्रह्मदृष्टिदार्थ्येन जाग्रदवस्थायामपि द्वैतं न पश्यति तद्दृष्ट्या ब्रह्मव्यतिरि- क्तजडपदार्थाभावात्स तथोक्तः किंच कदाचित् व्युत्थान- दशायामाविद्यकसंस्कारलेशवशाद्भिक्षाटनादिव्यवहारेण द्वयं पश्यन्नपि समाध्यभ्याससामर्थ्यवशादद्वयत्वेन पश्यति स तथो- क्तः यश्च लोकसंग्रहार्थं नित्यादिकर्माणि कुर्वन्नपि आत्मनि कर्तृत्वाभावनिश्चयेन निष्क्रियः कर्मरहितो भवति कर्मफलेन न लिप्यते स जीवन्मुक्तो नात्र संशयः कर्तव्य इत्यर्थः ॥९७॥ ( भा०टी० ) जिसप्रकार साधारण पुरुष इंद्रजालके प- दार्थोंको देखकर विचार करता है कि ये इंद्रजालके पदार्थ प्रकृत दृश्यमान पदार्थ नहीं हैं । तिसीप्रकार जीवन्मुक्त पुरुष जाग्रदवस्थामें रुधिर, मांस, विष्ठा, मूत्रादिकोंका भाण्ड ऐसे शरीरद्वारा, अन्धापन, बहिरापन इत्यादि दोषोंका भाण्ड ऐसे इन्द्रियोंके द्वारा, और भूख, प्यास, शोक, मोह इत्यादि भाण्ड ऐसे अन्तःकरणद्वारा, पहिली वासनासे उत्पन्न हुए ज्ञानके विरोधी सञ्चित कर्मोंका फल भोगनेके अनन्तर दृश्यमान यह जगत् सत्य वस्तु नहीं होय है. इसप्रकार विचार करता है। इस विषयमें श्रुतिकाभी प्रमाण है-“जीवन्मुक्त पुरुष बाह्य वस्तुमें नेत्रयुक्त होकर नेत्रहीनकासा व्यवहार करता है, कर्ण

Page 128Permalink

( १२८ ) वेदान्तसार । होनेपरभी बधिरकेसा व्यवहार करता है, मन होनेपरभी म- नोहीनकेसा व्यवहार करता है, और प्राण होनेपरभी प्राणर- हितकेसा व्यवहार करता है।” और जगहभी कहा है-“जा- ग्रत् अवस्थामें सुषुप्तिकी तरह बाह्य वस्तुमें व्यवहार करता है जो द्वैत वस्तुकोभी अद्वैत बोले है और जो कर्म करता हुआभी अन्तःकरणको निष्क्रिय माने है वह ब्रह्मपरायण पु- रुष निश्चय करके जीवन्मुक्त है। उससे अन्यको जीवन्मुक्त नहीं कहेहैं ॥ ९७ ॥ अस्य ज्ञानात्पूर्व विद्यमानानामेवाहारविहारादी- नां अनुवृत्तिवच्छुभवासनानामेवानुवृत्तिर्भवति शुभाशुभयोरौदासीन्यं वा। तदुक्तम्-“बुद्धाद्वैतम- तत्त्वस्य यथेष्टाचरणं यदि । शुनां तत्त्वदृशां चैव को भेदोऽशुचिभक्षणे । ब्रह्मवित्त्वं तथा मुक्त्वा स- आत्मज्ञो न चेतरः”इति ॥ ९८ ॥ (सं०टी०) नन्वस्य जीवन्मुक्तस्य योगीश्वरस्य मम पु- ण्यं पापं च नास्तीत्यभिमानवशायथेष्टाचरणप्रसंगमाशंक्य परिहरति॥ अस्येति। अस्य पूर्वोक्तजीवन्मुक्तस्य ज्ञानात्प्रागे- व शांत्यादिगुणैरशुभवासनाया निवारितत्वात्संसारदशायाम- प्रयत्नेनाहारादिप्रवृत्तिवत् तत्त्वज्ञानोत्तरमपि शुभानामेव वास- नानामनुवृत्तिर्भवति नाशुभानामित्यर्थः । ननु शुभवासनानुवृ- त्तेरपि प्रयोजनाभावात्किं तदनुवृत्त्येत्यत आहाशुभाशुभयोरि-

Page 129Permalink

संस्कृतटीका-भाषाटीकासमेत । ( १२९ ) ति । तस्माज्जीवन्मुक्तस्य यथेष्टाचरणप्रसंगो नास्तीति भावः । अस्मिन्नर्थे ग्रंथांतरं संवादयति । तदुक्तमिति । जीवन्मुक्तस्य ब्रह्मज्ञानत्वाभिमानो नास्तीत्यत्रापि संमतिमाह । ब्रह्मवित्त्व- मिति । ननु विदुषां यथेष्टाचरणप्रसंगो नास्तीत्युक्तं तदनुपप- न्नं। “न मातृवधेन न पितृवधेन। यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते ।हत्वापि स इमाँल्लोकान्न हंति न निबध्यते।”इति। “हयमेधशतसहस्राण्यथ कुरुते ब्रह्मघातलक्षाणि परमात्मविन्नपु ण्यैर्न च पापैर्लिप्यते मनुजः”।”अश्वमेधसहस्राणि ब्रह्महत्याश- तानि चा।कुर्वन्नपि न लिप्येत यद्येकत्वं प्रपश्यति ।सभयादभयं प्राप्तस्तदयं यतते च यः ॥ स पुनः सभयं गंतुं स्वतंत्रश्चेन्नहीच्छ- ति ।आरब्धकर्मनानात्वाद्वुधानामन्यथान्यथा । वर्तनं तेन शा- स्त्रार्थे विभ्रांतव्यं न पंडितैः”इत्यादिश्रुतिस्मृत्यभियुक्तवाक्यैर्वि- दुषां यथेष्टाचरणत्वांगीकारादिति चेत्सत्यम्। तेषां च वचनानां विद्वत्स्तुतिपरत्वेन तत्कर्तव्यमित्यत्र तात्पर्याभावात् । तदुक्त- माचार्यैः--“अधर्माज्जायतेऽज्ञानं यथेष्टाचरणं ततः ।। धर्मकार्ये कथं तत्स्याद्यत्र धर्मो विनश्यति”इति ॥ ९८ ॥ ( भा०टी० ) इस पूर्वोक्त जीवन्मुक्तको ज्ञान होनेके प्र- थमही शमदमादिक गुणों करके अशुभ वासनाका नाश हो जानेसेभी संसारदशामें जैसी आहार विहार आदिकमें अभि- मान रहित होकर प्रवृत्ति की जाती है. इसीही रीतिसे तत्त्व- ज्ञान होनेके पश्चात्भी आहारविहार आदिकोंमें प्रवृत्ति होती

Page 130Permalink

( १३० ) वेदान्तसार । है. परंतु तत्त्वज्ञान होनेके पश्चात् अशुभ वासनाकी प्रवृत्ति बिलकुल होती नहीं. केवल शुभवासनाओंकाही अनुवर्तन कि- या जाता है. अथवा शुभवासना तथा अशुभवासना इन दो- नोंमेंभी उदासीनभाव रहता है इससे जीवन्मुक्त हुआ पुरुष यथेच्छ आचरण करता नहीं, यह सिद्ध हुआ. इस विषयमें ग्रंथांतरका यह प्रमाण है कि,–“जो कोई पुरुष एक ब्रह्मत- त्त्वको जानले, और यथेच्छ आचरण करे, तौ फिर अपवित्र पदार्थके भक्षणमें लगाहुआ कुत्ता, और वह ब्रह्मतत्त्ववेत्ता इन दोनोंमें भेद कौनसा रहा ? ” और जो जीवन्मुक्त है उसको अपने ब्रह्मज्ञपनेका अभिमानही रहता नहीं. इसमें प्रमाण यह है कि,–“ब्रह्मवेत्तापनाको प्राप्त होकरभी जीवन्मुक्त पुरुष अपने आत्माको केवल जानता है. दूसरा कुछ जानता नहीं. अभिमानभी करता नहीं.” इति ॥ ९८ ॥ तदानीममानित्वादीनि ज्ञानसाधनानि अद्वेष्टृत्वा- दयश्चालंकारवदनुवर्तन्ते । तदुक्तं–“उत्पन्नात्मा- वबोधस्य ह्यद्वेष्टृत्वादयो गुणाः ॥ अयत्नतो भव- न्त्यस्य न तु साधनरूपिणः” इति ॥ ९९ ॥ ( सं०टी० ) नन्वेवं “अमानित्वमदंभित्वमहिंसा क्षां- तिरार्जवम्” इत्यादिस्मृत्युक्तसाधनस्य 'अद्वेष्टा सर्वभूतानाम्' इ- त्यादिवचनैः प्रतिपाद्यमानाद्वेष्टृत्वादिगुणसमूहस्य च विदुषां सं- पाद्यमानत्वश्रवणेन सह विरोधमाशंक्य अमानित्वादिसंपाद-

Page 131Permalink

संस्कृतटीका-भाषाटीकासमेत । ( १३१ ) नस्य विविदिषासंन्यासविषयत्वाद्विदुषां तु लक्षणत्वेनालं- कारवदनुवर्तमानान्न विरोध इत्याह । तदानीमिति । जीव- न्मुक्तावस्थायामित्यर्थः । अस्मिन्नर्थे वार्तिकसंमतिमाह । तदु- क्तमिति । अस्य विद्वत्संन्यासिनो जीवन्मुक्तस्याद्वेष्टृत्वादयो गुणाः अप्रयत्नेन स्वत एव भवंति, । न तु साधनरूपिणः, तं प्र- ति ते साधनरूपा न भवंति तत्र हेतुमाह । उत्पन्नेति । यत उत्पन्नात्मावबोधो ब्रह्मात्मैकत्वनिश्चयरूपः ततः तस्य ते गु- णाः लक्षणत्वेनैव भवतीत्यन्वयः ॥ ९९ ॥ ( भा०टी० ) उस जीवन्मुक्त अवस्थामें अमानीपना- अदंभीपना आदिक ज्ञानसाधन, अद्वेष्टृत्व, निर्लोभत्व, अमा- त्सर्य, अहिंसा आदिक सद्गुण, अलंकार सरीखे उस तत्त्वज्ञा- नीके पीछे पीछे चले आते हैं. इस विषयमें वार्तिकग्रंथमें यह प्रमाण है कि,—“जिसको आत्मबोध उत्पन्न हुआ है,उस पुरुषको अद्वेष्टृत्व, अदंभित्व, अहिंसा आदिक गुण विना यत्नसेही होजाते हैं, परंतु वे गुण उसके साधनरूपी हात नहीं. ” इति ॥ ९९ ॥ किं बहुना अयं देहयात्रामात्रार्थमिच्छानिच्छापरे- च्छाप्रापितानि सुखदुःखलक्षणान्यारब्धफलान्य- नुभवन्नन्तःकरणाभासादीनामवभासकः सन् तद- वसाने प्रत्यगानंदपरब्रह्मणि प्राणे लीने सति अज्ञा- नतत्त्कार्य्यसंस्काराणामपि विनाशात् परमकैव-

Page 132Permalink

( १३२ ) वेदान्तसार । ल्यमानन्दैकरसमखिलभेदप्रतिभासरहितमखण्डं ब्रह्मावतिष्ठते । “न तस्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्ते विमुक्तश्च विमुच्यते” इत्येवमादि- श्रुतेः ॥ ॥ १०० ॥ इति वेदान्तसारः समाप्तिमितः ॥ ( सं० टी० ) इयता प्रबंधेन प्रतिपादितेऽस्मिन्वेदांतसारा- ख्ये ग्रन्थे श्रीमत्परमगुरुपरमहंसपरिव्राजकाचार्यसदानन्दयो- गींद्रेण महापुरुषेणाथवेदांतो नामेत्यारभ्य साधनचतुष्टयसंपन्न- स्य प्रमातुरधिकारिणः मूलाज्ञाननिवृत्तिपरमानंदप्राप्तिसिद्धये प्रतीयमानाविद्यकसकलप्रपंचजातस्य ब्रह्मण्यध्यारोपापवादपु- रःसरं सविस्तरं निष्प्रपंचत्वं प्रतिपाद्य तत्साधनं च श्रवणा- दिकं सप्रपंचमभिधाय तस्यैवाधिकारिणः तत्त्वमस्यादिवाक्य- श्रवणानंतरं ब्रह्मात्मैकत्वसाक्षात्कारेण निरस्तसमस्तभेदबुद्धेः जीवन्मुक्तत्वं प्रदर्शितम् । एतावत्तैव कार्यसिद्धिः किं बहुलेखने- नेति मनसि निधाय संप्रत्यस्यैव जीवन्मुक्तस्य स्वप्रकाशा- त्मानंदानुभवैकनिष्ठस्य भेदप्रतीत्यभावेऽपि अविद्यालेशवशा- त्प्रारब्धकर्मभुंजानोभिक्षाटनादिदेहयात्रामात्रक्रियावशिष्टोब्रह्म भूत एवावतिष्ठत इत्युपसंहरति।किं बहुना इत्यादिना। प्रारब्ध- फलं त्रिविधं स्वेच्छाकृतं परेच्छाकृतं अनिच्छाकृतं चेति । तत्र व्युत्थानदशायामीश्वरप्रेरिततयास्वकीयेच्छयाकृतंस्वेच्छाकृतं भिक्षाटनादिसमाध्यवस्थायां शिष्यादिभिर्दीयमानमन्नादिकं परेच्छाकृतम्। समाध्यवस्थायां व्युत्थानदशायां वा आका- शफलपातवदकस्माज्जायमानं पाषाणपतनकंटकवेधादिकमनि-

Page 133Permalink

संस्कृतटीका-भाषाटीकासमेत । ( १३३ ) च्छाकृतम् । स चायं जीवन्मुक्तः प्रोक्तत्रिविधप्रारब्धप्रापिकं सुखदुःखमनुभवन्बुद्ध्यादिसाक्षितया सर्वावभासकः सम्भोगे- नारब्धकर्मक्षये सति प्रत्यगभिन्नपरमात्मनि प्राणादिलयानं- तरं प्रनष्टाविद्यकसंसारः कृतकृत्यः सन् गलितसकलभेदप्र- तिभासो ब्रह्मैवावंतिष्ठते इति सकलवेदरहस्यतात्पर्यमित्यर्थः । अयं जीवन्मुक्तो बुद्ध्याद्युपाधिविलये सति घटाद्युपाधिवि- निर्मुक्ताकाशवन्मुक्तइत्युपचारव्यवहारभाग्भवति बद्धत्वस्या- प्यवास्तवत्वात् । तदुक्तमाचार्यैः । “न निरोधो न चोत्प- त्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वा मुक्त इत्येषा परमार्थता।”अस्यजीवन्मुक्तस्योपाधिविगमसमयेप्राणाख्यं लिं- गशरीरं अतितप्तलोहक्षिप्तनीरबिंदुवत्प्रत्यगभिन्नपरमानंदे लीन- त्वात्स्थूलशरीरंनोत्तिष्ठतीति । अत्र श्रुतिमाह । न तस्येति । अयं जीवन्मुक्तो जीवन्नेव दृश्यमानाद्रागद्वेषादिबंधनाद्विशेषेण मुक्तः सन् वर्तमानदेहपाते सति भाविदेहबंधाद्विशेषेण मुच्यत इत्य त्रापि श्रुतिमाह । विमुक्तश्चेति बृहदारण्यकेपि “यदा सर्वे प्रमु- च्यंते कामा येऽस्य हृदि स्थिताः । अथ मर्त्यो मृतो भवत्य- त्र ब्रह्म समश्नुते”इति । वासिष्ठेपि “जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते।भवत्यदेहमुक्तत्वं पवनोऽस्पंदतामिव” इति “असंगो ह्ययं पुरुष आकाशवत्सर्वगतश्च नित्यः।अस्त्राविरं शुद्धमपापवि- द्धम्”इत्यादिश्रुत्या प्रत्यगात्मनो नित्यत्वपरिपूर्णत्वकूटस्थत्व- श्रवणात् उत्पत्त्याप्तिविकृतिसंस्कारचतुर्विधक्रियाफलविलक्ष- णत्वेन विद्यया नित्यनिवृत्ताविद्यामात्रेण प्राप्त एवात्मा पुनः प्राप्त

Page 134Permalink

( १३४ ) वेदान्तसार । एवेत्युपचर्यते अधिष्ठानस्य गमनाभावेऽध्यस्तस्य लोकांतरगम- नायोगान्नसालोक्यादिमुक्तिसंभवः। नन्वप्राप्तस्य क्रियासाध्यस्य वस्तुनो विद्यमानानर्थनिवृत्तेश्च पुरुषार्थत्वं दृष्टं अत्र तदभावा त्कथं पुरुषार्थत्वमिति चेत्, न । तयोरेव पुरुषार्थत्वमिति नि- यमाभावात्। स्वच्छायायामारोपितरक्षसा विस्मृतकंठगतचा- मीकरस्य भ्रांतपुरुषस्याप्तवाक्येन तयोर्निवृत्त्या तयोरपि पुरु- षार्थत्वदृष्टेः । अत्र संग्रहः “आत्माज्ञानमलं निरस्तममलं प्राप्तं च तत्त्वं परं कंठस्थाभरणादिवद्भ्रमवशाच्छायापिशाची यथा। आप्तोक्त्याप्तिनिवृत्तिवच्छ्रुतिशिरोवाक्याद्गुरोरुत्थिता- द्ध्वस्तध्वांतनिरासतः परसुखं प्राप्तं तयोरुच्यते” इति । न च मुक्तानां अपि वसिष्ठभीष्मप्रभृतीनामपरोक्षज्ञानिनां पु- नर्देहांतरश्रवणात्केवलं ज्ञानोत्पत्तिसमय एवाल्पज्ञानिनामस्मा- कं मुक्तिर्भवतीति कथं विश्वसिमः अतो ज्ञानव्यतिरिक्तमप्यु- पायांतरं किंचित्कर्तव्यमिति वाच्यं । शास्त्रप्रामाण्यादेव तदुप- पत्तेः।“ब्रह्मविद्ब्रह्मैव भवति। तरति शोकमात्मवित्”इत्यादिश्रु- तिभिर्ज्ञानोत्पत्तिसमय एव मुक्तिप्रतिपादनात्। तदुक्तंशेषेण “ती- र्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन्देहम् । ज्ञानसमकाल- मुक्तः कैवल्यं याति हतशोकः”इति वसिष्ठादीनां त्वधिकारि- कपुरुषत्वेन यावदधिकारं प्रारब्धवेगप्रयुक्तशापादिनास्वीकृता- वांतरदेहपातेपितद्देहभाविभोगस्य निवारयितुमशक्यत्वात्प्रार- ब्धस्य विना भोगेन क्षयानुपपत्तेः यावदधिकारमवस्थितिरधि- कारिकाणामिति भगवद्व्यासैर्विशेषितत्वात् । अस्मदादीनां च

Page 135Permalink

संस्कृतटीका-भाषाटीकासमेत । ( १३५ ) प्रारब्धकर्मणोऽनेकदेहारंभकत्वसंभवेऽपि चरमदेहं विनाऽप- रोक्षज्ञानोत्पत्तेरसंभवात् वामदेवे तथा दृष्टत्वात् । अन्यथा गर्भस्थस्य श्रवणाद्यभावेन ज्ञानोत्पत्त्यनुपपत्तेः । ननु ज्ञानि- नामपि स्वप्नावस्थायां देहांतरस्वीकारवन्मुक्तानामपि पुनर्देहां- तरस्वीकारः किं न स्यादिति चेत्। न। “कंठे स्वप्ने समाविशेत्” इत्यादिवाक्येषु कंठान्निर्गमनाभावश्रणाद्देहांतरप्राप्तेस्तु “तदनं- तरप्रतिपत्तौ” इत्यत्र देहान्निर्गमनश्रवणाद्वैषम्यम् । तदुक्तं स्कां- दे “यस्मिन्देहे दृढं ज्ञानमपरोक्षं विजायते । तद्देहपातपर्यंतमेव संसारदर्शनं।पुरापि नास्ति संसारदर्शनं परमार्थतः।कथं तद्दर्शनं देहविनाशादूर्ध्वमुच्यते। तस्माद्ब्रह्मात्मविज्ञानं दृढं चरमविग्रहे। जायते मुक्तिदं ज्ञानं प्रसादादेव मुच्यते” इति।तस्मात्सुष्ठूक्तं “वि- मुक्तश्चविमुच्यते” इति।नित्यशुद्धपरिपूर्णमद्वयंसच्चिदात्मकमखं डमक्षरं।सर्वदासुखमबोधतत्कृतैर्वर्जितं सदहमस्मितत्परम् गोव- र्द्धनोद्धरणप्रेरणया विमुक्तक्षेत्रे पवित्रे नरसिंहयोगी। वेदान्तसार स्य चकार टीकां सुबोधिनीं विश्वपतेः पुरस्तात् ॥ जाते पंच- शताधिके दशशते संवत्सराणां पुनःसंजाते दशवत्सरेप्रभुवरेश्री- शालिवाहे शके । प्राप्ते दुर्मुखवत्सरे शुभशुचौ मासे नवम्यां ति थौ प्राप्ते भार्गववासरे नरहरिष्टीकां चकारोज्ज्वलाम् । इति श्रीपरमहंसपरिव्राजकाचार्यश्रीमद्रामानंदभगवत्पूज्यपादशिष्य नृसिंहसरस्वतीविरचिता वेदान्तसारस्य टीका समाप्ता १०० ( भा०टी० ) बहुत कहनेसे क्या होगा? यह जीव- न्मुक्त पुरुष शरीरयात्राके निर्वाहके अर्थ इच्छा, अनिच्छा,

Page 136Permalink

( १३६ ) वेदान्तसार । और परेच्छा इन तीन प्रकारके प्रारब्ध कर्म्मोंसे उत्पन्न हुए सुख दुःखका अनुभव करता हुआ साक्षी चैतन्यरूपबुद्धि आदिका प्रकाशक होता हुआ प्रारब्ध कर्म्मोंके भोगके अन्तमें सच्चिदानन्दरूप परब्रह्ममें प्राणोंके लीन होनेपर अज्ञान और अज्ञानके कार्य्य स्वरूप पूर्व संसारके विनाशका हेतु परम कै- वल्यरूप सच्चिदानन्दमय अद्वैत पूर्णब्रह्ममें अवस्थित होकर अनिर्वचनीय कैवल्यानन्दका भोग करता है । इस विषयमें प्रमाणभी है—“जीवन्मुक्त पुरुषके देहका त्याग करनेपर सम्पू- र्ण अन्यलोकोंको नहीं जाते हैं । उसी सच्चिदानन्दमय परब्र- ह्ममें लीन होजाते हैं और असार संसारके बन्धनसे छूट- कर परम ब्रह्मानन्दमें निमग्न हो जाता है” ॥ १०० ॥ इतिश्रीपरमहंसपरिव्राजकाचार्य्यश्रीसदानन्दयोगीन्द्रविर- चितं वेदान्तसारप्रकरणं रामपुरवास्तव्य-त्रिवेदभो- लानाथात्मजरामस्वरूपविरचितस्वरूपप्रकाशभा- षासहितं समाप्तिमगमत् । पुस्तक मिलनेका ठिकाना-- खेमराज श्रीकृष्णदास, “श्रीवेङ्कटेश्वर” छापाखाना ( मुंबई. )

Page 137Permalink

विक्रय्यपुस्तकें। नाम. की रु. आ. ऋग्वेदसंहिता .. .. .. ४-० यजुर्वेदसंहिता ( वाजिसनेयी सर्वानुक्रमणिका या- ज्ञवल्क्य शिक्षा व स्वरसहित मोटे टैपमें शुद्धता पूर्वक मन्त्रोंकी अकारादि अनुक्रमणिका समेत ३--० द्वादशउपनिषद्मूल स्थूलाक्षर शांती सहित ... ३--० अष्टादशोपनिषद् रेशमी गुटका [ अठारहों उपनिषद् पाठ करने योग्य ] .. १-० मंत्रसंहिता यजुर्वेदी ... ... ... ... ०-६ रुद्री यजुर्वेदी ... ... ... ... ०--४ दंडक यजुर्वेदी ... ... ... ... ०-४ पितृसंहिता ... ... ... ... ०--१॥ पारस्कराचार्यकृत “गृह्यसूत्र” हरिहरभाष्यसहित १--८ पुरुषसूक्त श्रीसूक्त ... ... ... ... ०--१ मंत्रार्थदीपिका सटीक .. .. १--८ शारीरक ( शांकरभाष्य ) रत्नप्रभाटीका व्यासाधिक- रणमाला और भक्तिसूत्र सभाष्य अक्षर बडा १०--० ब्रह्मसूत्र ( शारीरक ) भाषाटीका .. १--८ पंचदशीसटीक ... ... ... ... २--८

Page 138Permalink

( १३८ ) जाहिरात. नाम. की. रु. आ. पंचदशी पं०मिहिरचंद्रकृत अत्युत्तम भाषाटीका सहित .. .. .. ४-० पंचदशी भाषा-आत्मस्वरूजीकृत .. ४-० गीता चिद्घनानंदस्वामिकृत गूढ़ार्थदीपिका मूल अन्वय पदच्छेदके सहित भाषाटीका .. ७-० गीता आनंदगिरिकृतभाषाटीका .. ३--० श्रीमद्भगवद्गीता सान्वयब्रजभाषा दोहासहित .. १-४ गीतामृततरंगिणी भाषाटीका ( रघुनाथप्रसाद- कृत ) अक्षरबड़ा .. .. १--४ गीतामृततरंगिणी भाषाटीका पाकिटबुक् .. ०-१२ श्रीरामगीता मूल .. .. ०-२ श्रीरामगीता भाषाटीका-पदप्रकाशिका अनुवाद समुच्चय और विषमपदीके सहित .. ०-८ श्रीमद्भगवद्गीतापंचरत्नअक्षरमोटागुटकारेशमी .. १-० " पंचरत्न अक्षरबड़ा खुलापत्रा छोटीसंची .. १--८ "पंचरत्न अक्षरबड़ा लंबीसंची खुला .. १-० "पंचरत्न भाषाटीका .. .. २-० गीता श्रीधरीटीका सहित ... ... ... १-० गीता बडे अक्षरकी १६ पेजी गुटका ... ... १-१२ गीता बडेअक्षरकी खुली १२ पेजी .. ०--१०

Page 139Permalink

जाहिरात. ( १३९ ) नाम, की. रु. आ. गीता गुटका विष्णुसहस्रनाम सहित .. ०--८ गीतापंचरत्न और एकादश रत्न .. ०--१२ ” पंचरत्न द्वादशरत्न .. .. ०--१० गीतापंचरत्न नवरत्न पाकिट बुक् .. ०--७ गीता गुटका पाकिट बुक् .. .. ०--५ अष्टावक्रगीता अत्युत्तम सान्वय भाषाटीका .. १-० शिवगीता भाषाटीकासहित .. ०--१२ गणेशगीता भाषाटीकासहित .. ०-६ गीतापंचदश भाषाटीका-[ काश्यपगीता, शौनकगी- ता, अष्टावक्रगीता, नहुषगीता, सरस्वतीगीता, युधिष्ठिरगीता, बकगीता, धर्मव्याधगीता, श्री- कृष्णगीतादि ] ... .. ०-१२ पाण्डवगीता भाषाटीकासह .. ०-३ तथा मूल ४ रत्न बडा अक्षर .. ०-२ अपरोक्षानुभूति संस्कृत टीका भाषाटीकासहित ०-१० आत्मबोध भाषाटीका .. .. ०-३ तत्त्वबोध भाषाटीका .. .. ०-२ वेदांतग्रंथपंचकम्(वाक्यप्रदीपःवाक्यसुधारसः हस्तामलकःनिर्वाणपंचकं मनीषापंचकं ) स० -८ वेदस्तुति भाषाटीकासह .. ०-८