BharatKosha
Back to the archive

वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

Vedantasara by Sadananda Yogindra

by सदानन्द योगीन्द्र

Source: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (origin)

DevanagariSanskritpublished145 pages
Page 22Permalink

( २२ ) वेदान्तसार । कहा है-दीप्तिमान आत्माकी शक्ति निज सत्त्वगुणआदि द्वारा वेष्टित होकर निगूढभावमें रहती है ॥ २५ ॥ इदमज्ञानंसमष्टिव्यष्ट्यभिप्रायेणैकमनेकमितिच- व्यवह्रियते । तथाहि-यथावृक्षाणांसमष्ट्यभि- प्रायेणवनमित्येकत्वव्यपदेशः ॥ यथा वा जला नां समष्ट्यभिप्रायेण जलाशय इति तथा नाना त्वेन प्रतिभासमानजीवगताज्ञानानां समष्ट्यभि- प्रायेण तदेकत्वव्यपदेशः । “अजामेकाम्” इत्यादिश्रुतेः । इयं समष्टिरुत्कृष्टोपाधितया विशु- द्धसत्वप्रधाना । एतदुपहितं चैतन्यंसर्वज्ञत्वसर्वै- श्वरत्वसर्वनियंतृत्त्वादिगुणकं सदसदव्यक्तमन्तर्या- मि जगत्कारणमीश्वर इति च व्यपदिश्यते । सकलाज्ञानावभासकत्वादस्य सर्वज्ञत्वम् । “यः सर्वः स सर्ववित्” इति श्रुतेः ॥ २६ ॥ (सं०टी०)अज्ञानं विभजते । इदमिति । वस्तुतोऽज्ञा- नस्यैकत्वेपि समष्ट्यभिप्रायेणैकमिति व्यवह्रियते । व्यष्ट्यभि- प्रायेणानेकमित्यर्थः । तदेव प्रपंचयितुं प्रतिजानीते । तथाहीति। यथा बहूनां वृक्षाणां समुदायविवक्षया वनमित्येकत्वव्यपदेशः यथा बहूनां नद्यादिजलानां समुदायविवक्षया जलाशय इत्ये कत्वव्यपदेशःतथांतःकरणोपाधिभेदेन नानात्वेन प्रतीयमानानां जीवगताज्ञानानां समुदायविवक्षयाऽज्ञानमित्येकत्वव्यपदेश इ- त्यर्थः । अस्मिन्नर्थे श्रुतिं प्रमाणयति । अजामिति । “अजा-

Page 23Permalink

संस्कृतटीका-भाषाटीकासमेत । ( २३ ) मेकांलोहितशुक्लकृष्णां बह्वीं प्रजां जनयंतीं सरूपाम्” इत्या- दिश्रुतेः। नानाजीवगतनिकृष्टांतःकरणव्यष्ट्युपाध्यपेक्षया सम- ष्ट्युपाधेरस्य वैलक्षण्यं दर्शयति ।विगतरागादिदोषसकलकार्य- प्रपंचस्य जगत्कारणभूतस्याज्ञानस्य समष्टिभूतोत्कृष्टोपाधित्वे- न विशुद्धसत्वप्राधान्यमितिभावः। एतत्समष्ट्युपाधिद्वारेण ईश्व- रचैतन्यं लक्षयति । एतदुपहितचैतन्यमिति । एतत्समष्ट्यज्ञा- नोपलक्षितं चैतन्यं सर्वस्य चराचरात्मकप्रपंचस्य साक्षित्वेन सर्वज्ञ इत्युच्यते ।सर्वेषां जीवानां कर्म्मानुरूपेशितृत्वेनफलदा- तृत्वेनेश्वर इत्युच्यते ।तथा सर्वेषां जीवानामंतर्हृदये स्थित्वा बुद्धिनियामकत्वेनांतर्यामीत्युच्यते प्रमाणागोचरत्वादव्यक्त- मित्युच्यते।सर्वस्य चराचरात्मप्रपंचस्य विवर्ताधिष्ठानत्वेन ज- गत्कारणमिति व्यपदिश्यत इत्यर्थः । उक्तेऽर्थे युक्तिमाह । सकलेति । अत्र प्रमाणमाह । य इति ॥ २६ ॥ ( भा०टी० ) इस अज्ञानको समष्टिरूप ( एक ) व्यष्टि- रूप ( अनेक ) बोलकर व्यवहार किया जाताहै। जिस वृक्षों- के समूहको समष्टिरूप ( एक ) वन ऐसा बोलते हैं तथा जल- के समूहोंको समष्टिरूप ( एक ) जलाशय ( तलाब ) बोलते हैं। इसी प्रकार विभक्त और विराजित जीवोंके अज्ञानके समूहोंको समष्टिरूप ( एक ) अज्ञान शब्दसे बोलते हैं। श्रु- तिमेंभी कहाहै "एकही अज्ञान जन्मरहित और त्रिगुणमय- है।” यही अज्ञान समष्टिरूप उत्कृष्ट उपाधिविशिष्ट है इसी कारण इसमें विशुद्ध सत्त्वगुण प्रधान है इसी अज्ञानसे उपहित

Page 24Permalink

( २४ ) वेदान्तसार । चैतन्यस्वरूप ब्रह्म, सर्वज्ञ सर्वेश्वर सर्वनियन्ता अव्यक्त अ- न्तर्यामी जगतकारण और ईश्वर इन शब्दोंसे व्यवहार किया जाता है जो सम्पूर्ण अज्ञानके प्रकाशका हेतु है वही सर्वज्ञ है। श्रुतिमेंभी कहा है-“जो जगत्को सामान्यरूप और विशेष- रूपसे जानता है वह सर्वज्ञ है,, ॥ २६ ॥ ईश्वरस्येयं समष्टिरखिलकारणत्वात्-कारणशरी- रमानन्दप्रचुरत्वात् कोशवदाच्छादकत्वाच्चानन्द- मयकोशः सर्वोपरमत्वात् सुषुप्तिः।अत एव स्थूल- सूक्ष्मप्रपञ्चलयस्थानमिति चोच्यते, यथा वनस्य व्यष्ट्यभिप्रायेण वृक्षा इत्यनेकत्वव्यपदेशः, यथा वा जलाशयस्य व्यष्ट्यभिप्रायेण जलानीति, तथा ऽज्ञानस्य व्यष्ट्यभिप्रायेण तदनेकत्वव्यपदेशः । “ इन्द्रो मायाभिः पुरुरूप ईयते ” इत्यादिश्रुतेः । अत्र समस्तव्यापित्वेन समष्टिव्यष्टिव्यपदेशः॥२७॥ (सं०टी० ) इदानीं तस्यैवेश्वरस्य समुदायोपाधिरेव का- रणशरीरत्वमानंदमयकोशत्वं सुषुप्त्यवस्थावैशिष्ट्यं च लभ- त इत्याह । ईश्वरस्येति । कारणशरीरत्वे हेतुमाह । अखिले- ति । आनन्दमयत्वे हेतुमाह । आनंदप्रचुरत्वादिति । कार- णावस्थायां प्रकृतिपुरुषमात्रव्यतिरिक्तस्य स्थूलसूक्ष्मकार्य- प्रपंचस्यैवाभावादानंदबाहुल्यमिति कोशत्वे युक्तिमाह । आ- च्छादकत्वादिति।शरीराच्छादकचर्मवदात्माच्छादकत्वादज्ञा- नस्यैव कोश इति व्यवहारः । ननु तथापि कारणत्वोपाधैरज्ञा-

Page 25Permalink

संस्कृतटीका-भाषाटीकासमेत । (२५) नस्य सुषुप्तित्वं कुत इत्यत आह । सर्वोपरमत्वादिति । सर्व- स्य स्थूलसूक्ष्मोपाधेः कारणोपाधौ लीनत्वात्सुषुप्तित्वमित्यर्थः ननु स्थूलसूक्ष्मप्रपंचलयस्थानस्य कथं सुषुप्तित्वमित्याशंक्यसं- ज्ञाभेद इत्याह।अत एवेति।लयकारणात्सुषुप्तित्वं अतएव पंची- कृतभूतकार्यस्य स्थूलप्रपंचस्य जाग्रदवस्थाविशिष्टस्यापंचीकृ- तभूतकार्यस्य । सूक्ष्मप्रपंचस्य स्वामप्रपंचविशिष्टस्य लयस्था- नमित्यपि व्यवहियत इत्यर्थः । समष्टिरूपाज्ञानं सप्रपंचं निरू- प्येदानीं व्यष्टिभूतमज्ञानं निरूपयितुं दृष्टांतौ तावद्दर्शयति । य- था वनस्येति । यथा बहुवृक्षसमुदायस्य वनत्वेन रूपेणैकत्व- व्यवहारेपि प्रत्येकविवक्षया चूतादयो बहवोपि वृक्षाः तिष्ठं- तीति बहुत्वव्यवहारः । यथा वापीकूपतडागादिषु समुदा- यविवक्षया जलाशय इत्येकत्वव्यवहारेऽपि प्रत्येकवाप्यादिवि- वक्षया बहूनि जलानि तिष्ठंतीति बहुत्वव्यवहारः ॥ तथा स- कलप्रपंचकारणस्याज्ञानस्य समुदायरूपेणैकत्वेपि अहंकारादि- कारणीभूतानां जीवगताज्ञानानां प्रत्येकविवक्षया बहुत्वव्यव- हार इत्यर्थः ॥ अस्मिन्नर्थे श्रुतिं प्रमाणयति । इंद्र इति । ननु तथाप्येकस्यैवाज्ञानस्य तदवच्छिन्नचैतन्यस्य च व्यष्टिसमष्टि- ता कुत इत्यत आह । अत्रेति । भेदविवक्षया व्यष्टित्वं मृद्ध- टादिवत् । अभेदविवक्षया च समष्टित्वं मृत्पिंडवदित्यर्थः२७॥ ( भा०टी० ) ईश्वरकी उपाधिस्वरूप यह अज्ञान समष्टि, प्रपञ्चब्रह्माण्डका कारण है इसी कारण इसको कारणशरीर

Page 26Permalink

( २६ ) वेदान्तसार । कहते हैं। आनन्दके आधिक्य होनेसे और कोषकी तरह आच्छादक होनेसे आनन्दमय कोषभी कहते हैं। यह शरी- रही सम्पूर्ण इन्द्रियोंके उपरामका स्थान होनेसे सुषुप्ति कहा- ताहै इसी कारण इसको स्थूल और सूक्ष्म प्रपञ्चका लय- स्थान कहते हैं । जिस तरह बनके वृक्ष सबको अलग अलग- ग्रहण करनेसे उसको अनेक वृक्षोंद्वारा व्यवहार किया जा- ताहै इसी प्रकार जलाशयके जल व्यष्टिभावसे अनेक जल प्र- तीत होयहैं इसी प्रकार नानाप्रकारके विराजमान जीवसमूहके अज्ञानको व्यष्टिरूपसे अनेक व्यवहार करें हैं। श्रुतिने भी क- हाहै-“ईश्वर नानाप्रकारकी मायाओंके द्वारा नानारूप धारण करताहै।” इस स्थलमें ईश्वरको प्रत्येक जीव व्यापी होनेसे व्यष्टि और समस्त जीवव्यापी होनेसे समष्टिरूप जनना॥ २७॥ इयं व्यष्टिर्निकृष्टोपाधितया मलिनसत्वप्रधाना एत- दुपहितचैतन्यमल्पज्ञत्वानीश्वरत्वादिगुणं प्राज्ञ- इत्युच्यते एकाज्ञानावभासकत्वादस्य प्राज्ञत्वं अ- स्पष्टोपाधितयाऽनतिप्रकाशकत्वम् ॥ २८ ॥ (सं०टी०) तत्र महाप्रलयकालीनसमष्ट्युपाधिभूतविशुद्ध सत्वप्रधानाया मूलप्रकृतेः सकाशात् दैनंदिनप्रलयकालीन- व्यष्ट्युपाधिभूतजीवप्रकृतेर्भेदं दर्शयति । इयं व्यष्टिरिति । इ- यं जीवगताज्ञानसुषुप्त्यवस्थापन्नाहंकारादिविक्षेपसंस्कारादिरू- पा निकृष्टोपाधित्वेन मलिनसत्वप्रधानेत्यर्थः। अनेनोपाधिनाप्रा- ज्ञचैतन्यं लक्षयति। एतदुपहितमिति । अत्रोपपत्तिमाह एके-

Page 27Permalink

संस्कृतटीका-भाषाटीकासमेत। ( २७ ) ति। ईश्वरगतमूलाज्ञानस्य जीवगताहंकारादिविक्षेपसंस्कारादि- रूपाज्ञानस्य वस्तुत एकत्वेन तदवभासकेश्वरजीवचैतन्ययोर- प्येकत्वमित्यर्थः ॥ २८ ॥ ( भा०टी० ) उक्त अज्ञानकी व्यष्टि अपकृष्ट उपाधि है इसीसे अज्ञानकी व्यष्टिसे तमोगुणमिश्रित सत्वगुण प्रधान है । इसी व्यष्टिभूत अज्ञानसे उपहित चैतन्य प्राज्ञशब्दसे क- हा जाता है इसी व्यष्टिभूत अज्ञानोपहित चैतन्यमें अल्पज्ञत्व और अनीश्वरत्व आदि गुण रहते हैं । इसी कारण व्यष्टिभूत अज्ञानोपहित चैतन्य अलग अलग एक एक अज्ञानका प्र- काशक है इसी कारण इसको प्राज्ञ, और मलिनसत्त्वप्र- धान, अस्पष्ट उपाधिसे उपहित होनेसे अनतिप्रकाशक ( अ- ल्पप्रकाशक ) कहते हैं ॥ २८ ॥ अस्यापीयमहङ्कारादिकारणत्वात्कारण- शरीरम्।आनन्दप्रचुरत्वात्कोशवदाच्छा- दकत्वाच्च--आनन्दमयःकोशः। सर्वोपर- मत्वात्सुषुप्तिः। अत एव स्थूलसूक्ष्मश- रीरलयस्थानमिति चोच्यते ॥ २९ ॥ ( सं०टी० ) सौषुप्तजीवचैतन्यस्य प्राज्ञत्वं साधयति । अस्येति । संस्काररूपास्पष्टोपाधितया तदावृतत्वेनातिप्र- काशकत्वाभावान्प्राज्ञत्वमस्येत्यर्थः। यथा जगत्कारणेश्वरोपा- धेःकारणशरीरत्वेनानंदप्रचुरत्वेन चानंदमयत्वं कोशदृष्टांतेन च कोशत्वं तथैतत्सर्वं तारतम्येन प्राज्ञचैतन्येऽप्यतिदिशति । अहं-

Page 28Permalink

( २८ ) वेदान्तसार । कारादीति।प्रलयकाले हिरण्यगर्भादिप्रपंचोत्पादकेश्वरगतमूल- प्रकृतिवत्सुषुप्तिकालेऽहंकारादिशरीरोत्पादकसंस्कारमात्राव- शिष्टजीवगताज्ञानस्यापिकारणशरीरत्वंइंद्रियतद्विषयाभावेन- व्यासंगाभावादानंदबाहुल्यादानंदमयत्वंकोशवदात्माच्छादक- त्वात्कोशत्वंचयुक्तमितिभावः॥ ननुस्थूलसूक्ष्मशरीरलयस्थान स्यकथं सुषुप्तिशब्दवाच्यत्वमित्याशंक्यपूर्ववत्संज्ञाभेदो नव- स्तुभेदइतिवक्तुंतत्रयुक्तिमाह। सर्वोपरमत्वादिति। पंचीकृतस्थूल- शरीरस्य व्यावहारिकस्यापंचीकृतसूक्ष्मशरीरे प्रातिभासिके प्रविलापितत्वात्तस्यापि प्रातिभासिकस्य स्वाप्नप्रपंचस्य स्व- कारणेऽज्ञाने लीनत्वात्सर्वोपरतिरित्यर्थः । तथा चोक्तम्"लये फेनस्य तद्धर्मा द्रवाद्याः स्युस्तरंगके । तस्यापि विलये नीर तिष्ठंत्येव यथा पुरा । व्यावहारिकजीवस्य लयःस्यात्प्रातिभा- सिके । तल्लये सच्चिदानंदाः पर्यवस्यंति साक्षिणि" इति ॥ २९ ॥ ( भा०टी० ) यही व्यष्टिभूत ज्ञान अहंकारादिका कारण है इसी कारण इसको कारणशरीर कहते हैं आनन्दका आ- धिक्य होनेसे तथा कोषकी तरह आच्छादक होनेसे आन- न्दमयकोष, और इन्द्रियोंका उपरमस्थान होनेसे सुषुप्ति कहाजाताहै । इसी कारण इसी अज्ञानको स्थूल सूक्ष्म प्र- पञ्चका लयस्थान कहते हैं ॥ २९ ॥ तदानीमेतावीश्वरप्राज्ञौ चैतन्यप्रदीप्ताभिरतिसू- क्ष्माभिरज्ञानवृत्तिभिरानन्दमनुभवतः । "आनन्द- भुक् चेतोमुखः प्राज्ञः" इति श्रुतेः । 'सुखमहमस्वा-

Page 29Permalink

संस्कृतटीका-भाषाटीकासमेत । ( २९ ) प्सं न किञ्चिदवेदिषम्'इत्युत्थितस्य परामर्शाप- त्तेश्च ॥ ३० ॥ ( सं०टी० ) ननु प्रलयकाले सुषुप्तिकाले चांतःकरणत- द्वृत्यभावेनानंदग्राहकाभावादानंदप्राचुर्यसद्भावे प्रमाणाभावमा शंक्य परिहरति । तदानीमिति । यथा सूक्ष्मत्वेनान्तः- करणस्य वृत्तिरंगीक्रियते तथाचैतन्यप्रदीप्त्याज्ञानस्यापिसूक्ष्मा वृत्तयःस्वीक्रियंते तथा चेश्वरःस्वकीयाज्ञानवृत्तिभिःस्वात्मानं- दबाहुल्यमनुभवति जीवोपि संस्कारमात्राविशिष्टातिशयाज्ञान वृत्तिभिः स्वात्मानंदबाहुल्यं तारतम्येनानुभवतीति भावः । अत्रैवोपष्टंभकत्वे श्रुतिमवतारयति । आनंदभुगिति । अस्यार्थः आनंदो विक्षेपाभावोपलक्षित आत्मानमेव भुंक्तेऽज्ञानवृत्तिभि- रवगच्छतीत्यानंदभुक् चेत आत्मस्वरूपावबोधःसएवावरणश- क्तिसहितो मुखं यस्य स चेतोमुखः प्राज्ञः प्रकृष्टे स्वयंप्रकाश आनंदात्मनि अज्ञानावृत्तिरूपो बोधो यस्य स प्राज्ञः उक्ताव- स्थाद्वयाभावेनावगम्यमानत्वात्तृतीयः उत्तरकालीनसुखपराम- र्शोपपत्तिरपिपूर्वानुभूतसुखबाहुल्यानुभवसद्भावे प्रमाणमित्याह सुखमहमिति । सुखमहमस्वाप्समित्यानंदपरामर्शः न किञ्चिद- वेदिषमित्यज्ञानपरामर्शः । तथाच सुषुप्तिदशायां प्रलयकाले च प्राज्ञेश्वरावज्ञानवृत्तिभिरानंदमनुभवत एवेत्यर्थः ॥ ३० ॥ ( भा०टी० ) ईश्वर और प्राज्ञ दोनों सुषुप्तिकालमें चैत- न्यद्वारा प्रकाशित होकर अतिसूक्ष्म अज्ञानवृत्तिके द्वारा आनन्द भोगते हैं । इस विषयमें श्रुति प्रमाण है-“प्राज्ञ चैत-

Page 30Permalink

( ३० ) वेदान्तसार । न्यके प्रकाशद्वारा सुखको भोगता है"स्मरणकेप्रमाणसेभी जा- ना जाता है क्योंकि जब पुरुष शयन करके उठता है तब ऐसा कहता है कि'आजमें जिस समय सुखकी निद्रामें सो रहा था तब मुझको कुछ खबर नहीं थी' ॥ ३० ॥ अनयोर्व्यष्टिसमष्टयोर्वनवृक्षयोरिव ज- लाशयजलयोरिव चाभेदः ॥ ३१ ॥ (सं०टी०)तदानीमीश्वरगतमूलाज्ञानस्यजीवगतसंस्कारमा त्रावशिष्टाज्ञानस्य च समष्टिव्यष्टयभिप्रायेण भेदभानेपि वस्तुतो भेदो नास्तीत्येतत्सदृष्टांतमाह । अनयोरिति ॥ ३१ ॥ ( भा०टी० ) जिस प्रकार वृक्षकी समष्टि सहित वनका और वनकी व्यष्टिसहित वृक्षका कुछ भेद नहीं है, और जैसे जलकी समष्टिसहित जलाशयका और जलाशयकी व्यष्टि सहित जलका कोई भेद नहीं है तिसी प्रकार अज्ञान समष्टिसहित अज्ञानव्यष्टिकाभी कोई भेद नहीं है ॥ ३१ ॥ एतदुपहितयोरीश्वरप्राज्ञयोरपि वनवृक्षावच्छिन्ना- काशयोरिव जलाशयजलगतप्रतिबिम्बाकाशयो- रिव चाभेदः। “एष सर्वेश्वर एष सर्वज्ञ एषोन्तर्या- म्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ” इत्यादिश्रुतेः ॥ ३२ ॥ ( सं०टी० ) उक्तोपाधिद्वारेणेश्वरप्राज्ञयोरप्यभेदं दृष्टांत- मुखेन दर्शयति । एतदुपहितयोरिति । ईश्वरस्य वनावच्छि- न्नाकाशवत्प्राज्ञस्य वृक्षावच्छिन्नाकाशवच्च तथा स्थूलजलाश-

Page 31Permalink

संस्कृतटीका-भाषाटीकासमेत । ( ३१ ) योपाध्यवच्छिन्नाकाशवत् जलगतप्रतिबिंबाकाशवच्चकारणो पाध्यवच्छिन्नैश्वरस्य कार्योपाध्यवच्छिन्नप्राज्ञस्य च वस्तुतोऽ भेद एवेत्यर्थः।तत्र प्रमाणमाह।एष इति । तथा चोक्तमाचार्यैः । “कार्योपाधिरयं जीवःकारणोपाधिरीश्वरःकार्यकारणतांहित्वा पूर्णबोधोऽवशिष्यते” इति ॥ ३२ ॥ ( भा०टी० ) जिसप्रकार वृक्षोंके समष्टिरूप वनमें अव- स्थित आकाश सहित वनका और व्यष्टिरूप प्रत्येक वृक्षमें अवस्थित आकाशका कोई भेद प्रतीत नहीं होता है तथा जलके समष्टिरूप जलाशयमें प्रतिबिम्बित आकाशसहित ज- लाशयका और व्यष्टिरूप जलमें प्रतिबिम्बित आकाशका कोई भेद नहीं मालूम होता है। इसी प्रकार समष्टिरूप अज्ञान- उपाधि विशिष्टचैतन्यस्वरूप ईश्वरका और व्यष्टिरूप अज्ञा- नसे उपहित चैतन्यस्वरूप प्राज्ञका कोई भेद नहीं है इस वि- षयमें श्रुतिका भी प्रमाण है—“यही सम्पूर्णका ईश्वर, यही स- र्वज्ञ, यही अन्तर्यामी, यही सम्पूर्णका कारण, यही जगत्की उत्पत्ति और प्रलयका हेतु है” ॥ ३२ ॥ वनवृक्षतदवच्छिन्नाकाशयोर्जलजलाशयतद्गतप्रति बिम्बाकाशयोर्वा आधारभूतानुपहिताकाशवदन- योरज्ञानतदुपहितचैतन्ययोराधारभूतं यदनुपहि- तं चैतन्यं तत्तूरीयमित्युच्यते । “शान्तंशिवमद्वैतं चतुर्थ मन्यन्ते स आत्मा सविज्ञेयः ,, इत्यादि श्रुतेः ॥ ३३ ॥

Page 32Permalink

( ३२ ) वेदान्तसार । ( सं०टी० ) उपाधिद्वयावच्छिन्नौ प्राज्ञेश्वरौ सप्रपंचं नि- रूप्येदानीं अनवच्छिन्नं तुर्यं चैतन्यं लक्षयति । वनेति । यथा स्थूलवनोपाध्यवच्छिन्नाकाशापेक्षया सूक्ष्मवृक्षोपाध्यवच्छि- न्नाकाशापेक्षया च महाकाशस्य तदुभयाधारतयानवच्छिन्न- त्वान्महाकाशत्वं तथा कार्यकारणोपाधितदवच्छिन्नचैतन्यद्व- यापेक्षया तदाधारभूतयदनवच्छिन्नं सर्वव्यापिचैतन्यं विशुद्धं तत्तूरीयमुच्यत इत्यर्थः।अस्य चैतन्यस्य तुरीयत्वंवक्ष्यमाणवि- श्वाद्यपेक्षयेति द्रष्टव्यं।अस्मिन्नर्थे श्रुतिं संवादयति।शान्तं शिव- मिति।आदिपदात् “त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्चयद्भवेत् तेभ्योविलक्षणः साक्षीचिन्मात्रोहंसदाशिवः ” इत्यादिश्रुत्यं- तरग्रहः ॥ ३३ ॥ ( भा०टी० ) जैसे वन और वनमें स्थित आकाश, वृक्ष और वृक्षमें स्थित आकाश, जलाशय जलाशयप्रतिबिम्बित- आकाश और जलप्रतिबिम्बित आकाशका आश्रय जो अपरि च्छिन्न आकाश उसको महाकाश कहते हैं।तिसीप्रकारसमष्टि और व्यष्टिभूत अज्ञान औरअज्ञानोपहित चैतन्यादिका आधार जो अपरिच्छिन्न चैतन्य उसको तुरीय ब्रह्मचैतन्य कहते हैं । इसमें श्रुतिका भी प्रमाण है—“मङ्गलमय अद्वितीय चैतन्यको चतुर्थ ( तुरीय ) कहते हैं और उसीको आत्मा और वि- ज्ञेय भी कहते हैं” ॥ ३३ ॥ इदमेव तुरीयं शुद्धचैतन्यमज्ञानादितदुपहितचैत-

Page 33Permalink

संस्कृतटीका-भाषाटीकासमेत । ( ३३ न्याभ्यां तप्तायःपिण्डवदविविक्तं सन्महावाक्यस्य वाच्यं विविक्तं सल्लक्ष्यमित्युच्यते ॥ ३४ ॥ ( सं०टी० ) एतदेव विशुद्धचैतन्यं पूर्वोक्तं चैतन्यद्वयेन सहैकत्वविवक्षायां महावाक्यस्य वाच्यत्वं लभतेऽभेदविवक्षा- यां च लक्ष्यत्वं च लभत इत्याह । इदमिति । त्रयाणां चै- तन्यानां चैतन्येन रूपेणैकत्वेपि अवच्छिन्नानवच्छिन्नत्वेन रूपेण वाच्यलक्ष्यत्वे संभवत इति भावः ॥ ३४ ॥ ( भा०टी० ) जैसे अग्निसे तपाये हुए लोहेके सहित अ- भिन्नरूप होनेसे “ लोहा जलाता है ” । इसप्रकार वाक्यका प्रयोग होता है किन्तु यही अग्निही अभिन्नरूप उक्त वाक्य- का वाच्य और लोहेसे भिन्नरूप इस वाक्यका लक्ष्य होताहै तिसी प्रकार यह तुरीय ब्रह्मचैतन्य समष्टिव्यष्टिअज्ञान और अज्ञानोपहित चैतन्यके सहित अभिन्नरूप होनेसे ( तत्त्वमसि ) इस महावाक्यका वाच्य और भिन्नरूप उसका लक्ष्य होता है अस्याज्ञानस्यावरणविक्षेपनामकं शक्तिद्वयमस्ति। आवरणशक्तिस्तावत्-अल्पोऽपि मेघोऽनेकयो- जनायतमादित्यमण्डलमलोकयितृनयनपथपि- धायकतया यथाच्छादयतीव तथाऽज्ञानं परिच्छि- न्नमप्यात्मानमपरिच्छिन्नसंसारिणमवलोकयितृबु- द्धिपिधायकतयाच्छादयतीव तादृशसामर्थ्यम्। त- दुक्तम्--“घनच्छन्नदृष्टिर्घनच्छन्नमर्कं यथानिष्प्रभं

Page 34Permalink

( ३४ ) वेदान्तसार । मन्यते चातिमूढः । तथा बद्धवद्भाति यो मूढदृष्टेः सनित्योपलब्धिस्वरूपोऽहमात्मा ॥ ३५ ॥ ( सं० टी० ) अथेदानीं स्वप्रकाशचिद्रूपस्यात्मनः कथं कुं ठितप्रकाशत्वं कथं चासंगोदासीनस्यात्मन आकाशादिप्रपंचज नकत्वमित्येतन्महाविरोधपरिहारायाज्ञानस्यशक्तिद्वयं निरूप्य ते। अस्येति। ते एव नामतो निर्दिशति। आवरणविक्षेपनामकमि ति। आवरणशक्तिस्तावत् सच्चिदानंदस्वरूपमावृणोतीत्यावरण- शक्तिः ब्रह्मादिस्थावरांतं जगज्जलबुद्बुद्वन्नामरूपात्मकं विक्षि- पति सृजतीति विक्षेपशक्तिरिति शक्तिद्वयमज्ञानस्येत्यर्थः। न- न्वपरिच्छिन्नस्यस्वप्रकाशचिद्रूपाखंडपरिपूर्णस्वरूपस्यात्मनप रिच्छिन्नेनानित्येनजडतमोरूपेणाव्यापकेनाज्ञानशक्तिविशेषेण कथमावरणमित्याशंक्य वस्तुतोऽज्ञानस्यात्माच्छादकत्वाभा- वेपि प्रमातृबुद्धिमात्रावच्छादकत्वेनाज्ञानस्यात्माच्छादकत्व- मुपचारादुच्यत इत्याह । आवरणशक्तिरिति । यथाऽत्य- ल्पोपि मेघोऽनेकयोजनविस्तीर्णमादित्यमंडलमवलोकयितृपु- रुषदृष्टिमात्राच्छादकत्वेनादित्यमाच्छादयतीत्युपचारादुच्यते तथा अतितुच्छपरिच्छिन्नमप्यज्ञानं अपरिच्छिन्नमात्मानं दृघनं प्रमातृबुद्धिमात्राच्छादकत्वेनात्मानमाच्छादयतीत्युपचारादु- च्यते इत्यर्थः। अस्मिन्नर्थे वृद्धसंमतिमाह। तदुक्तमिति ॥ ३५ ॥ ( भा० टी० ) पूर्वोक्त अज्ञानकी दो शक्ति हैं जैसे आ- वरण शक्ति और विक्षेपशक्ति । पहले आवरणशक्ति दिख- लाते हैं । जैसे मनुष्योंके नयनोंका आवरण करनेवाला

Page 35Permalink

संस्कृतटीका-भाषाटीकासमेत । ( ३५) ल्पस्थानमें रहनेवाला मेघमण्डल सहस्रों योजन विस्तीर्ण सू- र्य्यका आच्छादक कहाजाताहै तिसीप्रकार अविवेकी म- नुष्यके ज्ञानका आवरण करनेवाला तथा सर्वव्यापी परब्रह्म- का आच्छादक रूप प्रसिद्ध अज्ञानकी शक्तिको आवरणशक्ति कहतेहैं । हस्तामलकमें लिखाभी है-“जैसे अज्ञानी पुरुषके नेत्र मेघसे आच्छादित होजातेहैं तब कहैंहैं कि सूर्य्यम- ण्डलको मेघमण्डलने आच्छादित करदिया । तिसी प्रकार मूढ दृष्टि पुरुष जिसको बद्ध कहते हैं मैं वही नित्यज्ञान स्वरूप आत्मा हूँ” ॥ ३५ ॥ अनयावृतस्यात्मनः कर्तृत्वभोक्तृत्वसुखित्वदुःखि- त्वादिसंसारसम्भावनापिभवति यथा स्वज्ञानेनावृ- तायां रज्ज्वां सर्पत्वसम्भावना ॥ ३६ ॥ (सं०टी०) अनयैवावरणशक्त्यावच्छिन्नस्यात्मनःकर्तृ- त्वभोक्तृत्वसुखदुःखमोहात्मकत्वतुच्छसंसारसंभावनापि सं- भाव्यत इत्याह । अनयेति । इयमेवावरणशक्तिरात्मनो भेदबु- द्धिजनकत्वेन संसारहेतुरिति भावः । अत्रानुरूपं दृष्टांतमाह । यथा स्वाज्ञानेनेति ॥ ३६ ॥ (भा०टी०) जैसे भ्रमवशसे रज्जुमें रज्जुका ज्ञान नहीं होय है सर्पज्ञान उत्पन्न होजाय है तिसी प्रकार अज्ञानकी आवरण शक्तिद्वारा आच्छादित आत्माके स्वरूपका ज्ञान नहीं होय है और मैं कर्त्ता हूं भोक्ता हूं सुखी हूं दुःखी हूं इत्यादि मोहजालसे व्याप्त संसारका बोध होता है ॥ ३६ ॥

विषयकमज्ञानमपि स्वावच्छिन्ने आत्मनि विक्षेपशक्तिप्रभावे-

Page 36Permalink

( ३६ ) वेदान्तसार । विक्षेपशक्तिस्तु यथा रज्ज्वज्ञानं स्वावृतरज्जौ स्व- शक्त्या सर्पादिकमुद्भावयति, एवमज्ञानमपि स्वावृ तात्मनि स्वशक्त्या आकाशादिप्रपञ्चमुद्भावयति तादृशं सामर्थ्यम्। तदुक्तम्--“विक्षेपशक्तिर्लिङ्गादि- ब्रह्माण्डान्तं जगत्सृजेत् ” इति ॥ ३७ ॥ (सं०टी०) यदुक्तमसङ्गोदासीनस्यात्मनः कथं जगत्का- रणत्वमिति तन्निराकर्तुं विक्षेपशक्तिस्वरूपमाह। विक्षेपशक्ति- स्त्विति । यथा रज्जुविषयकमज्ञानं सर्पमुत्पादयति तथात्म- विषयकमज्ञानमपि स्वावच्छिन्ने आत्मनि विक्षेपशक्तिप्रभावे- णाकाशादिकं प्रपंचमुद्भावयतीत्यर्थः। अस्मिन्नर्थे ग्रंथांतरसंमतिं दर्शयति। तदुक्तमिति । ननु किमात्मा चराचरात्मकप्रपंचस्य निमित्तकारणं उपादानकारणं वा। नाद्यः । दंडादिवत्स्वकार्य- व्यापित्वं न स्यादात्मनः “तत्सृष्ट्वा तदेवानुप्राविशत्” इतिश्रुत्या- कार्यव्यापित्वश्रवणात् । न द्वितीयः । अचेतनस्य जडस्य प्रपंचस्य चैतन्योपादानकत्वासंभवात् ॥ ३७ ॥ (भा०टी०) अब विक्षेपशक्तिको दिखाते हैं। जैसे रज्जु- विषयक अज्ञान अपनी शक्तिद्वारा रज्जुसे सर्पका स्वरूप प्र- दर्शन करैहै तिसी प्रकार यह शक्ति अज्ञानावृत आत्मामें आ- काशादि पञ्चभूतका भ्रम प्रदर्शन करै है। इसीको विक्षेपशक्ति कहते हैं। ग्रन्थान्तरमें भी ऐसा लिखा है कि-“अज्ञानकी वि- क्षेपशक्ति ब्रह्मसे लेकर स्तम्बपर्य्यन्त जगत्को उत्पन्न करै है” शक्तिद्वयवदज्ञानोपहितं चैतन्यं स्वप्रधानतया

Page 37Permalink

संस्कृतटीका-भाषाटीकासमेत । ( ३७ ) निमित्तं स्वोपाधिप्रधानतया उपादानञ्च भवति यथा लूता तन्तुकार्य्यम्प्रति स्वप्रधानतया निमि- त्तं स्वशरीरप्रधानतयोपादानं च भवति ॥ ३८ ॥ ( सं०टी० ) उपादानत्वेन च कार्यकारणयोरभेदेन प्रपंच- स्यापि चैतन्यरूपत्वप्रसंगादनित्यत्वं न स्यादित्याशंक्य जड- प्रपंचं प्रत्यात्मनः चैतन्यप्राधान्येन निमित्तत्वं स्वाज्ञानप्राधा- न्येनोपादानत्वं च संभवतीत्याह । शक्तिद्वयवदिति । यथा- यस्कांतसन्निधाने जडमयं लोहं चेष्टते तथा चैतन्यसन्निधाने जडमज्ञानं चेष्टते इत्यज्ञानविकारं प्रति चैतन्यस्य निमित्तत्वं जडाकाशादिकार्यं प्रति मायायाः साक्षादुपादानत्वेन माया- विन ईश्वरस्यापि परंपरयोपचारादुपादानत्वं न विरुध्यत इत्य- र्थः। तदुक्तं चैतन्यस्य निमित्तकारणत्वे कार्यानुप्रवेशो न स्यादि- ति। तन्न । कारणस्य कार्यानुप्रवेशनियमस्योपादानकारणविष- यत्वेननिमित्तकारणविषयत्वाभावात् ‘तत्सृष्ट्वा’ इत्यादिश्रुतेरप्यु पादानकारणपरत्वात्।यदप्युक्तं आत्मन उपादानकारणत्वे प्रपं चस्यानित्यत्वं न स्यादिति तदपि न । तस्य परिणामविषयत्वेन विवर्त्तविषयत्वाभावात्प्रपंचस्य ब्रह्मविवर्तत्वाद्विवर्तत्वं च स्व- स्वरूपापरित्यागेन स्वरूपांतरप्रदर्शकत्वं। यथा रज्ज्ववच्छिन्नचै तन्यनिष्ठाज्ञानस्यरज्जुस्वरूपापरित्यागेन सर्पादिस্বরূপांतरप्रद- र्शकत्वं तथेश्वरचैतन्यनिष्ठाज्ञानशक्तेरपि चैतन्यस्वस्वरूपापरि त्यागेन आकाशादिस्वरूपांतराकारेण प्रदर्शकत्वं। एतावताका- शादिप्रपंचस्य नित्यत्वं न संभवति।अज्ञानस्यमिथ्यारूपत्वेन त-

Page 38Permalink

( ३८ ) वेदान्तसार । जन्याकाशादिप्रपंचस्यापि मिथ्यात्वं। न चैवमज्ञानस्य मिथ्या- त्वे तत्प्रयुक्तबंधमोक्षयोरपिमिथ्यात्वप्रसंग इति वाच्यं। इष्टापत्तेः तदुक्तं भगवता “बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः। गुणस्य मायामूलत्वान्न मे मोक्षो न बंधनम्” इति। अलमतिविस्त रेण। एकस्यैवात्मनो निमित्तोपादानकारणत्वे दृष्टांतमाह। यथा लूतातंत्विति। यथा लूतातंतुः स्वोत्पद्यमानतंतुलक्षणं कार्यं प्रति स्वचैतन्यप्रधानतयानिमित्तं चैतन्यसंनिधानव्यतिरेकेण जडस्य देहस्य मृतशरीरवत्तंतुजनकत्वासंभवात्स्वशरीरप्राधान्येनोपा- दानं च भवति। अशरीरस्य साक्षात्तंतुजनकत्वासंभवात्स्वशरी- रप्राधान्येनोपादानं च भवति । शरीरस्य साक्षात्तंतूपादानत्वेन तदवच्छिन्नचैतन्यस्याप्युपादानत्वेनोपचारात् ॥ ३८ ॥ ( भा०टी ) जैसे ऊर्णनाभकीट ( मकड़ी ) स्वकृत प्र- धानरूपसेजालका निमित्त कारण और शरीरप्रधानरूपस तिसी तन्तुका उपादान कारण होता है । तिसी प्रकारसे आवरण और विक्षेपशक्तिविशिष्ट अज्ञानद्वारा समावृत चैतन्य स्वयं प्रधानरूपसे प्रपञ्चविश्वका निमित्त कारण और उपाधिरूप अज्ञानरूपसे उपादान कारण होता है ॥ ३८ ॥ तमः प्रधानविक्षेपशक्तिमदज्ञानोपहितचैतन्यादा- काश आकाशाद्वायुर्वायोरग्निरग्नेरापःअद्भ्यःपृथि- वी चोत्पद्यते। “तस्माद्वाएतस्मादात्मन आकाशः सम्भूतः,, इत्यादिश्रुतेः ॥ ३९ ॥ (सं०टी०) एवमीश्वरस्यापि स्वचैतन्यप्रधानतया निमि-

Page 39Permalink

संस्कृतटीका-भाषाटीकासमेत । ( ३९ ) क्तत्वं स्वोपाधिप्रधानतयोपादानत्वं च भवतीत्यर्थः। इदानीं विक्षे- पशक्तिकृत्यमाह। तम इति। आकाशादेर्जडत्वात्तमोगुणप्रधा- नविक्षेपशक्तियुक्ताज्ञानावच्छिन्नचैतन्यस्यै वाकाशादिप्रपंचज- नकत्वमिति भावः। अस्मिन्नर्थे श्रुतिं प्रमाणयति। "तस्माद्वा एत- स्मादात्मनआकाशः संभूतः" इति। एतेनापिसांख्यनैयायिकपक्षौ निरस्तौ। शक्तेरज्ञानस्य शक्तिमत्परतंत्रत्वात्स्वतन्त्रस्य तस्य केवलस्य जडस्याज्ञानस्य जगत्कारणत्वानुपपत्तेः। "ईक्षतेर्ना- शब्दम्। रचनानुपपत्तेश्चनानुमानम्" इत्यादिन्यायनिरस्तत्वाच्च। परमाणोरप्युक्तदोषग्रासत्रासानपायात् । अभिन्ननिमित्तो- पादानप्रतिपादकश्रुतिस्मृतिन्यायविरोधाच्च । "यतो वा इमानि भूतानि जायंते येन जातानि जीवंति यत्प्रयत्याधिसंविशंति। सदेव सौम्येदमग्र आसीत्। एतस्माज्जायते प्राणो मनः सर्वेंद्रियाणि च । अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते। बीजं मां सर्वभूतानाम्" इत्यादिश्रुतिस्मृतिभिरीश्वरस्यैवजगत्कारणत्वप्रतिपादनात् ३९ ( भा०टी० ) तमोगुणप्रधानविक्षेपशक्तिविशिष्टअज्ञानसे आच्छादित चैतन्यसे आकाश उत्पन्न हुआ है आकाशसे वायु वायुसे अग्नि अग्निसे जल जलसे पृथिवी उत्पन्न हुई है इसी प्रकार क्रमसे प्रपञ्चविश्व उत्पन्न हुआहै श्रुतिमें भी ऐसाही लिखा है ॥ ३९ ॥ तेषु जाड्याधिकदर्शनात्तमःप्राधान्यं तत्कारण- स्य तदानीं सत्वरजस्तमांसि कारणगुणप्रक्रमेण तेष्वाकाशादिषूत्पद्यन्ते । इमान्येव सूक्ष्मभूतानि

Page 40Permalink

( ४० ) वेदान्तसार । तन्मात्राण्यपंचीकृतानि चोच्यन्ते । एतेभ्यः सूक्ष्मशरीराणि स्थूलभूतानि चोत्पद्यन्ते ॥४०॥ (सं०टी०) नन्वाकाशादिप्रपंचोत्पादकचैतन्यावच्छेदका- ज्ञाने कुतः तमःप्राधान्यमित्याशंक्याह । तेष्विति । कारण- गुणा हि कार्यगुणानारभंत इति न्यायादिति भावः।ननु त्रिगुणा- त्मकत्वादज्ञानस्य कथं तमोगुणमात्रप्राधान्येनाकाशादिजनक- त्वमित्याशंक्याह।तदानीमिति।तदानीमुत्पत्तिवेलायां सत्वादयः त्रयोपि गुणाः तारतम्येन कारणप्रक्रमन्यायेन तेष्वाकाशादिषु पंचभूतेषूत्तरोत्तराधिक्येन जायंते इत्यर्थः । इमान्येव सूक्ष्म- शरीरादिकारणभूतान्यपंचीकृतानि सूक्ष्मरूपतन्मात्राणीत्युच्यं त इत्याह।एतान्येवेति। “पंचप्राणमनोबुद्धिदशेन्द्रियसन्वितम् अपंचीकृतभूतोत्थंसूक्ष्मांगं भोगसाधनम्”इति वचनादप्यपंची- कृतभूतेभ्यो पंचीकृतसूक्ष्मशरीराणि पंचीकृतस्थूलभूतानि चो- त्पद्यंत इत्याह । एतेभ्य इति ॥ ४० ॥ ( भा०टी० ) उन उत्पन्न आकाशादिमें जड़ताका आ- धिक्य होनेसे उनका कारण तमोगुण प्रधान मालूम होता है उन आकाशादिकी उत्पत्तिके अनन्तर उनके कारण गुणोंके तारतम्यके अनुसार सत्त्वगुण रजोगुण और तमोगुण इनकी उत्पत्ति होती है। एवं पूर्वोक्त अवस्थाको प्राप्त हुए आका- शादिक सूक्ष्मभूत, महाभूत, पश्चतन्मात्रा और अपञ्चीकृत कहे जाते हैं इन्हीं सूक्ष्मभूतसे सूक्ष्मशरीर और स्थूलशरीर- उत्पन्न होते हैं ॥ ४० ॥

Page 41Permalink

संस्कृतटीका-भाषाटीकासमेत । ( ४१ ) सूक्ष्मशरीराणि सप्तदशावयवानि लिंग- शरीराणि। अवयवास्तु ज्ञानेन्द्रियपंचकं- बुद्धिमन्सी कर्मेन्द्रियपंचकं वायुपंचकं- चेति। ज्ञानेन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणाख्या- नि। एतान्याकाशादीनांसात्विकांशेभ्यो व्यस्तेभ्यः पृथक्क्रमेणोत्पद्यन्ते। बुद्धिर्नाम निश्चयात्मिकान्तः करणवृत्तिः। मनो नाम संकल्पविकल्पात्मिकान्तः करणवृत्तिः ॥ ४१ ॥ ( सं० टी० ) सूक्ष्मशरीरस्वरूपभूतानवयवानाह। अवय वास्त्विति । ज्ञानेंद्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वघ्राणाख्यानि। सात्विकांशादाकाशाच्छ्रोत्रमुत्पद्यते। सात्विकांशाद्वायोःत्वगिं द्रियम्। सात्विकांशात्तेजसः चक्षुः। सात्विकांशाज्जलाज्जिह्वा। सा त्विकांशायाः पृथिव्याः सकाशात् घ्राणेंद्रियं चेति। क्रमेणोत्प- द्यंत इत्याह। एतानीति । बुद्धेर्लक्षणमाह। बुद्धिरिति। ब्रह्मैवाह- मिति निश्चयात्मिकैवान्तःकरणवृत्तिरेव बुद्धिरित्यर्थः । मनसो लक्षणमाह । मनोनामेति । अहं चिद्रूपो देहो वेति संशया- त्मिकान्तःकरणवृत्तिरेव मन इत्यर्थः ॥ ४१ ॥ ( भा० टी० ) सूक्ष्मशरीर दिखलाते हैं । सप्तदश १७ अवयवयुक्त लिङ्गशरीरको सूक्ष्मशरीर कहते हैं। पञ्च ज्ञाने- न्द्रिय पञ्च कर्म्मेन्द्रिय पञ्चवायु मन और बुद्धि यह सप्तदश- १७ अवयव कहलाते हैं नेत्र कर्ण नासिका जिह्वा और त्वचा यह पांच अवयवही पञ्चज्ञानेन्द्रिय कहाते हैं यह ज्ञा-