BharatKosha
Back to the archive

वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

Vedantasara by Sadananda Yogindra

by सदानन्द योगीन्द्र

Source: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (origin)

DevanagariSanskritpublished145 pages
Page 94Permalink

( ९४ ) वेदान्तसार । तस्माद्यथा सोऽयं देवदत्त इति वाक्यं तदर्थो वा तत्कालैतत्कालविशिष्टदेवदत्तलक्षणस्य वाच्यार्थ स्यांशविरोधात् । विरुद्धतत्कालैतत्कालविशिष्ट- त्वांशंपरित्यज्याविरुद्धं देवदत्तांशमात्रं लक्षयति । तथातत्त्वमसीति वाक्यं तदर्थो वा परोक्षत्वा- परोक्षत्वादिविशिष्टचैतन्यैकत्वलक्षणस्य वाच्या- र्थस्यांशविरोधाद्विरुद्धपरोक्षत्वापरोक्षत्वा विशि- ष्टां दिशं परित्यज्याविरुद्धमखण्डचैतन्यमात्रं- लक्षयति ॥ ८४ ॥ (सं०टी०) तृतीयपक्ष एव चांगीकर्तव्य इत्युपसंहरति । तस्मादिति । यस्मात्तत्त्वमस्यादिवाक्ये जहल्लक्षणाऽजह- ल्लक्षणयोरसंभवः तस्माज्जहदजहल्लक्षणया विरुद्धांशं परित्य- ज्याविरुद्धाखंडचैतन्यमात्रं लक्षयतीति योजना । तत्र दृष्टांत- माह । यथेति । यथा सोयं देवदत्त इति वाक्ये प्रागुक्तजहल्ल- क्षणाजहल्लक्षणयोरसंभवेन तदर्थस्य तत्कालतद्देशविशिष्टस्य इदमर्थस्यैतत्कालैतद्देशविशिष्टदेवदत्तलक्षणवाक्यार्थस्यैकस्मि न्नंशे तत्काले तत्कालवैशिष्ट्यभागे विरोधदर्शनात्तत्परित्यागे- नाविरुद्धंदेवदत्तपिंडमात्रं लक्षयतीत्यर्थे न मानांतरविरोध इ- त्युक्तन्यायेनेत्यर्थः । उक्तमर्थं दाष्टांतिके योजयति । तथेति । तत्त्वमसीत्यादिवाक्यस्यापि परोक्षत्वापरोक्षत्वादिविशिष्टचैत न्यैकत्वलक्षणमुख्यार्थप्रतिपादकत्वासंभवाज्जहदजहल्लक्षणया

Page 95Permalink

संस्कृतटीका-भाषाटीकासमेत । (९५) विरुद्धपरोक्षत्वादिवैशिष्ट्यांशपरित्यागेनाविरुद्धाखण्डचैतन्य- मात्रप्रतिपादकत्वं तस्येत्यर्थः ॥ ८४ ॥ ( भा०टी० ) जैसे "सोऽयं देवदत्तः" इस वाक्यमें पूर्व कालमें देखाहुआ और वर्त्तमानकालमें देखाहुआ जो देवदत्त- रूप वाच्यार्थ उसका एक अंशमें विरोध होनेसे विरुद्ध अंश जो पूर्व काल है उसमें और वर्तमान काल में है उसका परित्याग करके देवदत्त रूप अंश लक्ष्यार्थ होताहै । तिसी प्रकार "तत्त्वमसि" इस वाक्यमें प्रत्यक्ष और अप्रत्यक्ष चैतन्य का ऐक्यरूप जो वाच्यार्थ है उसके एकांशमें विरोध होनेसे विरुद्ध अंश प्रत्यक्षत्व और अप्रत्यक्षत्व उसका परित्याग क रके अविरुद्ध अखण्ड चैतन्यांशमात्र लक्ष्यार्थहोताहै॥ ८४ ॥ अथाधुना अहं ब्रह्मास्मीत्यनुभववाक्यार्थो वर्ण्यते। एवमाचार्य्येणाध्यारोपापवादपुरःसरं तत्त्वम्पदा- र्थौ शोधयित्वा वाक्येनाखण्डार्थेऽवबोधितेऽधिका- रिणोऽहं नित्य-शुद्ध-बुद्ध-मुक्त-सत्य-स्वभाव- परमानन्दा-नन्ताद्वयं ब्रह्मास्मीत्यखण्डाकाराका- रिता चित्तवृत्तिरुदेति। सा तु चित्प्रतिबिम्बसहिता- सती प्रत्यगभिन्नमज्ञातं परं ब्रह्म विषयीकृत्य तद्ग- ताज्ञानमेव बाधतेतदा पटकारणतन्तुदाहे पटदाह- वदखिलकार्य्यकारणेऽज्ञाने बाधिते सति तत्का- र्य्यस्याखिलस्य बाधितत्वात् तदन्तर्भूताखण्डा- काराकारिता चित्तवृत्तिरपि बाधिता भवति॥८५॥

विषयेऽसंगे निष्कलचैतन्ये शशशृंगायमाना ऽविद्याहंकारादि-

Page 96Permalink

( ९६ ) वेदान्तसार । ( सं० टी० ) अखंडचैतन्यप्रतिपादकस्य तत्त्वमसीतिवा- क्यस्यार्थं सप्रपंचमभिधायेदानीं यजुर्वेदानुभववाक्यार्थो वर्ण्य- त इत्याह। अथाधुनेति ।गुरुमुखान्नवकृत्वःतत्त्वमस्यादिवा- क्यश्रवणाद्देहाद्यहंकारान्तजडपदार्थसकलदृश्यविलक्षणप्रत्य- गात्मनः शुद्धेन परमात्मना सहैकत्वबोधानंतरं कश्चिदधिका- री लब्धावसरं सर्वोपाधिविनिर्मुक्तं सच्चिदानंदैकरसमनुभवेन जि- ज्ञासुराचा र्योपदिष्टमहं ब्रह्मास्मीति वाक्यार्थमनुस्मरन् स्वात्मा- नंदैकरसमनुभवतीत्यर्थः। तत्प्रकारमेवाह। एवमित्यादिना । एवं संक्षेपेण । प्रमाणवक्ष्यमाणप्रकारेणाधिकारिणः चित्तवृत्तिरुदे- तीति संबंधः । कदेत्यपेक्षायामाह । आचार्येणेति। आचार्येणा- विषयेऽसंगे निष्कलचैतन्ये शशशृंगायमाना ऽविद्याहंकारादि- शरीरांतं मिथ्यापदार्थमध्यारोप्य तदपवादपुरःसरं तत्त्वंपदार्थौ शोधयित्वा तत्त्वमसीतिवाक्येन जहदजहल्लक्षणया विरुद्धांश- परित्यागेनाखंडार्थचैतन्ये ज्ञाते सतीत्यर्थः । किंविषयिणी- चित्तवृत्तिरुदेतीत्याशंकां निवारयति । अहमिति । अहं प्रत्य- गात्मा परं ब्रह्मास्मीत्यन्वयः । ब्रह्मानित्यत्वशंकां निराकरो- ति । नित्येति । शुद्धपदेनाऽविद्यादिदोषराहित्यं बुद्धपदेन स्व- प्रकाशस्वरूपत्वं मुक्तपदेन सर्वोपाधिराहित्यं सत्यपदेनाविना- शित्वभावत्वंपरमानंदपदेनवैषयिकमनुष्यानंदादिचतुर्मुखब्रह्मा- नंदपर्यन्तानांकर्मजन्यत्वेनसातिशयत्वेन क्षयिष्णुत्वेन च तुच्छ त्वात्तेभ्यो विलक्षणं निरतिशयानंदस्वरूपत्वं प्रतिपाद्यते अ-

Page 97Permalink

संस्कृतटीका-भाषाटीकासमेत । (९७) नंतपदेन घटादिवत्परिच्छेदरहित्येन देशतः कालतो वस्तुतश्चा- परिच्छिन्नत्वं बोध्यते । अद्वयमिति । नानात्वनिषेधेन एक- त्वं बोध्यत इत्यर्थः । ननु यथा दीपप्रभादित्यमंडलं न व्या- प्नोति न च प्रयोजनमस्ति तथा नित्यशुद्धस्वप्रकाशमात्मानं जडचित्तवृत्तिरेकं विषयीकृत्योदेति । किं प्रयोजनं चेत्याशं- क्याह । सात्विति । सा चित्तवृत्तिर्न शुद्धब्रह्मविषयिणी किंत्व- ज्ञानविशिष्टप्रत्यगभिन्नपरब्रह्मविषयिणी सा च चैतन्यप्रतिबिं- बसंवलिता सती चैतन्यगतमज्ञानं निवर्तयति तस्याः चैत- न्यावरका न निवृत्तिरेव प्रयोजनमित्यर्थः । नन्व- धिकारिणः तत्त्वमस्यादिवाक्यश्रवणोत्पन्नाऽखंडचैतन्यवृत्त्या तदाश्रिताज्ञाननिवारितेपि तत्कार्यस्य सकलचराचरात्मकप्र- पंचस्य प्रत्यक्षतया भासमानत्वात्कथमद्वैतसिद्धिरित्याशंक्य कारणाज्ञाननाशे तत्कार्यसकलप्रपंचनाशादद्वैतसिद्धिरित्येत- त्सदृष्टांतमाह । यथेति । नन्वज्ञाननाशे तत्कार्यप्रपंचस्य ना- शोस्तु तथाप्यखंडाकारचित्तवृत्तेरनिवृत्तेरद्वैतहानिरित्याशंक्या ह । तदंतर्भूतेति । अखंडाकारवृत्तेरपि अज्ञानतत्कार्यान्त- र्भूतत्वाच्चित्तवृत्त्यातान्निवृत्तेर्नाद्वैतहानिरित्यर्थः ॥ ८५ ॥ (भा०टी) अब 'अहं ब्रह्मास्मि' इस अनुभववाक्यका अर्थ लिखतेहैं।आचार्य्य पहले कहे हुए अध्यारोप और अप- वाद न्यायके द्वारा "तत्"और "त्वम्"इन दोनों पदोंके अर्थ का शोधन करके जिस समय " तत्त्वमसि " इस वाक्य द्वारा ५

खण्डवृत्तेर्बाधितत्वादर्पणाभावे मुखप्रतिबिम्बस्य

Page 98Permalink

( ९८ ) वेदान्तसार । अखण्ड चैतन्यका बोध होजायहै उस समय मैं नित्य, शुद्ध, बुद्ध, मुक्त, सत्यस्वरूप, परमानन्द, अद्वितीय, ब्रह्म हूँ इस प्रकार अखण्ड अन्तःकरण वृत्ति होती है वह अन्तःकरण वृत्ति चैतन्यप्रतिबिंबित होती है तब वह चित्तवृत्ति चैतन्य द्वारा प्रकाशित होकर प्रत्यगात्मा (जीव ब्रह्मका अभेद ज्ञान) और अभिन्न परब्रह्म विषयक अज्ञानका नाश करदेतीहै। जैसे वस्त्रके तन्तुका नाश होनेसे वस्त्र नष्ट हो जाताहै तिसी सम्पूर्ण संसारके कारण अज्ञानका नाश होनेसे तदन्तर्गत अखण्डा- कार अन्तःकरणकी वृत्तिभी नष्ट हो जातीहै ॥ ८५ ॥ तत्र वृत्तौ प्रतिबिम्बितं चैतन्यमपि यथा प्रदीप- प्रभा आदित्यप्रभावभासनसमर्था सती तयाभिभू- ताभवतितथास्वयंप्रकाशमानप्रत्यगभिन्नपरब्रह्मा- वभासनानर्हतया तेनाभिभूतं सत्स्वोपाधिभूता- खण्डवृत्तेर्बाधितत्वादर्पणाभावे मुखप्रतिबिम्बस्य मुखत्वमात्रवत्प्रत्यगभिन्नपरब्रह्ममात्रं भवति॥८६॥ ( सं०टी० ) ननु तथाप्यखंडाकारवृत्तिप्रतिबिंबितचैत- न्याभासस्य सत्त्वात्कथमद्वैतसिद्धिरित्याशंक्याह । तत्रेति । वृत्तिनिवृत्तौतत्प्रतिबिंबितचैतन्यस्य बिंबावभासनासमर्थत्वा- द्वृत्त्युपाधिबाधेन तत्प्रतिबिंबचैतन्यमपि चैतन्यमात्रतयावशि- ष्यते दर्पणोपाधिविगमे तत्प्रतिबिंबितमुखाभासस्य बिंबीभू- तमुखमात्रतावशेषवदित्यर्थः । अयंभावः । शोधिततत्त्वंपदा- र्थस्याधिकारिणः तद्विजृंभितगुरुशास्त्रादिभ्यः तत्त्वमसीत्युप-

Page 99Permalink

संस्कृतटीका-भाषाटीकासमेत । ( ९९ ) देशेन अहं नित्यशुद्धबुद्धमुक्तसत्यस्वभावपरमानंदानंताद्वयाखं- डं ब्रह्मास्मीति चित्तवृत्तिरुदयमासादयति तदानीमेवतस्यामभि- व्यक्ताखंडचैतन्यबलेन तत्परिपीडिताज्ञाननाशो भवति तदानीं तत्कार्यस्य सर्वस्य नाशादभिव्यंजकवृत्तिरपि स्वयमेव कन- करजोवद्दारुमथनजनिताग्निवदुदरस्थदुष्टजलशांत्यर्थं पीततप्त- जलवच्च नष्टा भवति तदानीं तद्गताभासोपि स्वोपाधिभूतवृत्ति नाशात्स्वप्रकाशात्मावभासमानासमर्थतया दर्पणविगमे त- दुपाधिकस्य स्वाधिष्ठानमुखमात्रत्ववदधिष्ठानमात्रो भवतीति वेदान्तसिद्धांत रहस्यमिति । अत्र तस्यानुभवः । "लोकाश्च भ्रांतिपरमेमयिमोहजन्याः स्वमेंद्रजालमरुनीरसमाविचित्राः॥ व्युत्थानकालइह न स्युरलं विशुद्धप्रत्यङ्मुखाब्धिपरमामृताचि- त्तवृत्तौ ॥ १ ॥ मत्तः परं न खलु विश्वमथापि भाति मध्ये च पूर्वमपरं नरशृंगतुल्यम् । मायोत्थशास्त्रगुरुवाक्यसमुत्थ- बोधभानुप्रभा विलसते क्व गतं न जाने ॥ २ ॥ निरतिशयसु- खाब्धौ स्वप्रकाशे परेस्मिन् कथमिदमविवेकादुत्थितं स्रक्फ- णीव ॥ क्व नु गतमधुना तद्देशिको वा श्रुतिर्वा परमविमलबोधे ऽभ्युत्थितेहं न जाने ॥ ३ ॥" तदेतत्सर्वं मनसि निधायोपसं- हरति । प्रत्यगभिन्नेति ॥ ८६ ॥ ( भा०टी० ) जैसे दीपक की प्रभा सूर्य्यकी प्रभाके प्र- काश होनेपर असमर्थ होकर अपने आप निष्प्रभ होजातीहै तिसी प्रकार अन्तःकरण वृत्तिमें प्रतिबिम्बित चैतन्य स्वप्रकाश स्वरूप ब्रह्म चैतन्यके प्रकाश करनेको समर्थ नहीं होताहै और

Page 100Permalink

( १०० ) वेदान्तसार । स्वप्रकाश ब्रह्म चैतन्यसे स्वयं अभिभूत होजाताहै। और जैसे दर्पणके न होनेपर मुखप्रतिबिम्ब मुखही रहता है तिसी प्र- कार उपाधिभूतअन्तःकरणवृत्तिके न होनेपर स्वप्रकाश परब्रह्म मात्रही रहताहै इस प्रकार ज्ञानियोंको “मैं ब्रह्म हूँ” इस प्र- कार अनुभव होताहै ॥ ८६ ॥ एवञ्च सति “मनसैवानुद्रष्टव्यं। यन्मनसा न मनुते” इत्यनयोः श्रुत्योरविरोधः । वृत्तिव्याप्यत्वाङ्गीका- रेण फलव्याप्यत्वप्रतिषेधप्रतिपादनात् । उक्तञ्च- “फलव्याप्यत्वमेवास्य शास्त्रकृद्भिर्निराकृतं । ब्रह्म- ण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता” ॥ इति । स्वयंप्रकाशमानत्वान्नाभासउपयुज्यतइति ॥ ८७ ॥ ( सं०टी० ) ननु “मनसैवानुद्रष्टव्यं मनसैवेदमवाप्तव्यं दृ- श्यते त्वग्रया बुद्ध्या सूक्ष्मयासूक्ष्मदर्शिभिः। बुद्ध्यवलोकनसा- ध्येस्मिन्वस्तुन्यस्तमिता यदि। बुद्धियोगमुपाश्रित्यमच्चित्तःसततं भव”इत्यादिश्रुतिस्मृतीनां “यतोवाचोनिवर्तन्ते । अप्राप्यमन- सासह । यन्मनसा न मनुते अन्यदेव तद्विदितादथोऽविदिताद- धीद्धि । अविज्ञातं विजानतां विज्ञातमविजानतां । अनाशि- नोप्रमेयस्य । यदिज्ञातं त्वया विप्रयन्नविज्ञातमात्मना । ता- भ्यामन्यत्परंविद्धि यद्गेद्यंतज्जडम्”इत्यादि श्रुतिस्मृतीनांपरस्प- रविरोधमाशंक्य परिहरति । एवमिति । एवमुक्तप्रकारेण अ- ज्ञातचैतन्यस्य वृत्तिव्याप्यत्वांगीकारेण फलव्याप्यत्वे प्रति- सिद्धे सतीत्यर्थः । तदेवाह वृत्तिव्याप्यत्वेति । अंतःकरणवृ-

Page 101Permalink

संस्कृतटीका-भाषाटीकासमेत । ( १०१ ) त्तिरावरणनिवृत्त्यर्थमज्ञानावच्छिन्नं चैतन्यं व्याप्नोतीत्येतद्वृ- त्तिव्याप्यत्वमंगीक्रियते आवरणभंगानंतरंस्वयं प्रकाशमानं चै- तन्यं फलचैतन्यमित्युच्यते तस्मिन्फलचैतन्ये निष्फल का- चिद्वृत्तिर्न व्याप्नोति आवरणभंगस्य प्रागेव ज्ञातत्वेन प्रयोज- नाभावादित्यर्थः । अस्मिन् ग्रन्थे ग्रंथांतरं संवादयति । तदु- क्तमिति । वृत्तिप्रतिबिंबितचैतन्याभासस्यापि फलचैतन्य- प्रकाशकत्वं नेत्यत्रापि संमतिमाह । स्वयमिति ॥ ८७ ॥ (भा०टी०) पूर्वोक्त अनुभव प्रकार सिद्ध होनेपर “ब्र- ह्म मन करके धारण किया जाता है । ब्रह्म मनसे धारण नहीं किया जाताहै । ” इन परस्पर विरुद्ध दोनों श्रुतियोंका विरोध भी दूर होगया । क्योंकि मनोवृत्तिद्वारा ब्रह्म विषयक अज्ञानका नाश होताहै किन्तु अन्तःकरणवृत्तिमें प्रतिबिं- म्बित चैतन्य परब्रह्मका प्रकाश नहीं करसक्ता । इस विषय में प्रमाण भी है शास्त्रकारोंने अन्तःकरणप्रतिबिम्बित चैतन्य- के द्वारा परब्रह्म चैतन्यके प्रकाशके निषेध पूर्वक अन्तःकरण- वृत्तिके द्वारा तद्विषयक अज्ञानका नाश होना स्वीकार कि- याहै क्योंकि परम ब्रह्म स्वप्रकाश स्वरूप है । इसी कारण उ- सका प्रकाश दूसरेका कराहुआ नहीं होसक्ता है ॥ ८७ ॥ जडपदार्थाकाराकारितचित्तवृत्तेर्विशेषोऽस्ति । त- थाहि अयं घट इति घटाकाराकारितचित्तवृत्तिर- ज्ञातं घटं विषयीकृत्य तद्गताज्ञातनिरसनपुरःसरं स्वगतचिदाभासेन जलमपि घटं भासयति । त-

Page 102Permalink

( १०२ ) वेदान्तसार । दुक्तम्-“बुद्धितत्स्थचिदाभासौ द्वावपि व्यापृतो घटं।तत्राज्ञानं धिया नश्येदाभासेन घटं स्फुरेत्” इति। यथा प्रदीपप्रभा मण्डलमन्धकारगतं घटा- दिकं विषयीकृत्य तद्गतान्धकारनिरसनपुरःसरं स्वप्रभया तदवभासयतीति ॥ ८८ ॥ (सं०टी०) इदानीं जडपदार्थविषयकचित्तवृत्तेर्ब्रह्माका- रवृत्त्यपेक्षया वैलक्षण्यं दर्शयितुमाह । जडपदार्थेति । अहं ब्रह्मास्मीत्यज्ञानावच्छिन्नब्रह्माकारा चित्तवृत्तिस्तदावर- कमज्ञानमात्रं निवर्तयति। ब्रह्म तु स्वप्रकाशात्मत्वात्स्वयमेव प्र- काशते न तु वृत्तिप्रतिबिंबितचिदाभासेन चैतन्यं प्रकाश्यते तत्र तस्यासामर्थ्यात् । अयं घट इति घटाकाराकारितचित्त वृत्तिस्तु घटावच्छिन्नचैतन्यावरकमज्ञानं निवर्त्य निवर्तमा- ना स्वप्रतिबिंबितचिदाभासेन जडं घटमपि प्रकाशयति।अतः ततो विशेषोस्तीत्यर्थः । एतदेव प्रपंचयितुं प्रतिजानीते । त- थाहीति । जडपदार्थविषयिणीं चित्तवृत्तिमभिनीय दर्शयति । अयमिति । वृत्तिसंबंधात्प्राग्घटस्याज्ञातत्वात् अज्ञातं घटं वि- षयीकृत्य प्रवृत्ताचित्तवृत्तिर्घटगताज्ञानं दूरीकुर्वाणा घटमपि भासयतीत्यर्थः । अस्मिन्नर्थे वृद्धसंमतिमाह । तदुक्तमिति । बुद्धिश्च तत्र बुद्धौ प्रतिबिंबितचिदाभासश्च बुद्धितत्स्थचिदा- भासौ द्वावेतौ बुद्धिचिदाभासौ घटं व्यापृतः । तत्र तयोर्मध्ये धिया वृत्त्या घटाज्ञानं नश्येच्चिदाभासेन तु घटः स्फुरेदित्यर्थः । अत्रानुरूपं दृष्टांतमाह । यथेति । यथांधकारावस्थितघटादिकं

विषयीकृत्य प्रवर्त्तमानं दीपप्रभामंडलं घटपटावरकांधकारनि-

Page 103Permalink

संस्कृतटीका-भाषाटीकासमेत । ( १०३ ) विषयीकृत्य प्रवर्त्तमानं दीपप्रभामंडलं घटपटावरकांधकारनि- रसनपुरःसरं स्वप्रभया तदपि भासयति तद्वदित्यर्थः ॥ ८८ ॥ ( भा०टी० ) अखण्डाकार अन्तःकरणकी वृत्ति सेघ- टादि जड पदार्थाकार अन्तःकरण की वृत्तिका कुछ विशेष है । घटका प्रत्यक्ष होनेके समय घटाकार चित्तवृत्ति अज्ञात घटको विषय करके उसकी अज्ञानका नाश करती हुई अन्तः करण वृत्तिके प्रतिबिम्बद्वारा अर्थात् स्वगत चिदाभासके द्वारा घटका प्रकाश करतीहै। इस विषयमें प्रमाण भी है-“अन्तः- करणवृत्ति और तद्गत प्रतिबिम्बित चैतन्य यह दोनोंही घ- टको प्राप्त होतेहैं परन्तु अन्तःकरणकी वृत्तिद्वारा घटके अज्ञानका विनाश होताहै और प्रतिबिम्बित चैतन्यद्वारा घट प्रकाशित होताहै। जैसे दीपककी प्रभा अन्धकारमें रक्खे हुए घटपटादिको प्राप्त होकर घटपटादिगत अन्धकारका विनाश करके उनका प्रकाश करतीहै । तिसी प्रकार अन्तःकरणकी वृत्तिद्वारा घटादिका अज्ञान नष्ट होताहै और अन्तःकरण प्रतिबिम्बित चैतन्यके द्वारा घटादिका प्रकाश होता है ८८ ॥ एवंभूतस्वस्वरूपचैतन्यसाक्षात्कारपर्य्यन्तं श्रवण मनननिदिध्यासनसमाध्यनुष्ठानस्याप्यपेक्षितत्वा- त्तेऽपि प्रदर्श्यन्ते । श्रवणं नाम षड्विधलिङ्गैरशेषवेदा न्तानामद्वितीयवस्तुनि तात्पर्यावधारणम् । लिङ्गा नि तु उपक्रमोपसंहाराभ्यासापूर्वताफलार्थवादो पपत्त्याख्यानि । तदुक्तम्-“उपक्रमोपसंहारावभ्या

Page 104Permalink

( १०४ ) वेदान्तसार । सोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्प र्यनिर्णये” ॥ ८९ ॥ (सं०टी०) इयता ग्रंथजालेन प्रतिपादितस्य प्रत्यगभि- न्नपरमानंदाखंडचैतन्यस्य साक्षात्कारलक्षणमखंडाकारांतःक- रणवृत्तिं प्रतिपिपादयिषुः तत्साधनभूतश्रवणादेरवश्यानुष्ठेयत्वं तेषां लक्षणानि च क्रमेण दर्शयति।एवंभूतेत्यादिना अद्वैतं वस्तु भासत इत्यंतेन ग्रंथेन । एवंभूतेति । एवंभूतस्योक्तश्रुतियु- क्त्यनुभवैर्निरस्तसमस्तोपाधिप्रत्यगभिन्नपरमानंदचिद्रूपस्य सा- क्षात्कारपर्यंतं श्रवादीन्यनुष्ठेयानीति प्रतिजानीते । तेपीति । श्रवणादयोपीत्यर्थः । तत्र श्रवणस्य लक्षणमाह । षड्विधेति । लीनमर्थं गमयतीति लिङ्गशब्दस्य व्युत्पत्तेः ब्रह्मात्मैकत्वनि- श्चायकैरुपक्रमोपसंहारादिषड्विधलिङ्गैः सर्वेषां वेदांतवाक्याना- मद्वितीये ब्रह्मणि तात्पर्यनिश्चयश्रवणमित्यर्थः । तानि च लिं- गानि क्रमेणोपदिशति । उपक्रमेति। तथा चोक्तम्“उपक्रमोप- संहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिंगं ता- त्पर्यनिर्णये ” इति ॥ ८९ ॥ (भा०टी०) इस प्रकार परमात्मा चैतन्यके साक्षात्कार होनेतक श्रवण, मनन, निदिध्यासन, समाधि, और अनुष्ठान यह आवश्यक होते हैं इस कारण अब श्रवणादिके लक्षण दिखलाते हैं। छः प्रकारके लिङ्गोंके द्वारा अद्वितीय ब्रह्ममें सम्पूर्ण वेदान्तके तात्पर्य्यका अवधारण करना श्रवण कहाता है। छः प्रकारके लिङ्ग ये हैं—उपक्रमोपसंहार, अभ्यास, अ-

प्रकरणप्रतिपाद्यस्यात्मज्ञानस्य तदनुष्ठानस्य वा

Page 105Permalink

संस्कृतटीका-भाषाटीकासमेत । ( १०५ ) पूर्वता, फल, अर्थवाद, और उपपत्ति । ग्रन्थान्तरमें भी लिखा- है—“पूर्वोक्त छः प्रकारके लिङ्ग तात्पर्यार्थके निश्चायक होते हैं” ॥ ८९ ॥ तत्र प्रकरणप्रतिपाद्यस्यार्थस्य तदाद्यंतयोरुपा- दानं उपक्रमोपसंहारौ । यथा छान्दोग्ये षष्ठे प्रपा ठके प्रकरणप्रतिपाद्यस्याद्वितीयवस्तुनः “एकमे- वाद्वितीयम्” इत्यादौ“ ऐतदात्म्यमिदं सर्वम्” इत्य न्तेचप्रतिपादनम् । प्रकरणप्रतिपाद्यस्य वस्तुनः तन्मध्ये पौनः पुन्येन प्रतिपादनमभ्यासः। यथा त- त्रैवाद्वितीयवस्तुनो मध्ये तत्त्वमसीति नवकृत्वः प्रतिपादनम् । प्रकरणप्रतिपाद्यस्य वस्तुनः प्रमा- णान्तरेणाविषयीकरणमपूर्वत्वम् । यथा तत्रैवाद्धि तीयवस्तुनो मानान्तराविषयीकरणम् । फलं तु प्रकरणप्रतिपाद्यस्यात्मज्ञानस्य तदनुष्ठानस्य वा तत्र तत्र श्रूयमाणं प्रयोजनम्। यथा तत्रैव “आचा- र्यवान् पुरुषो वेद, तस्य तावदेव चिरं यावन्न वि- मोक्षे, अथ सम्पत्स्ये” इत्यद्वितीयवस्तुज्ञानस्य तत्प्राप्तिप्रयोजनं श्रूयते । प्रकरणप्रतिपाद्यस्य तत्र तत्र प्रशंसनमर्थवादः । यथा तत्रैव उत तमादेश- मप्राक्षो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमित्यद्वितीयवस्तुप्रशंसनम् । प्रकरणप्रति- पाद्यार्थसाधने तत्र तत्र श्रूयमाणा युक्तिः उपपत्तिः।

Page 106Permalink

( १०६ ) वेदान्तसार । यथा तत्रैव “यथा सौम्यैकेन मृत्पिण्डेन सर्वं मृ- न्मयं विज्ञातं स्यात् वाचारम्भणं विकारोनामधे- यं मृत्तिकेत्येव सत्यम्” इत्यादावद्वितीयवस्तुसा- धने विकारस्य वाचारम्भणमात्रत्वे युक्तिः श्रूयते ॥ ९० ॥ ( सं० टी० ) उपक्रमोपसंहारौ तावद्दर्शयति । तत्रप्रक- रणप्रतिपाद्यस्येति । तदुदाहृत्य दर्शयति । तथेति । एकमे- वाद्वितीयमित्युपक्रम्य ऐतदात्म्यमिदं सर्वमिति प्रतिपादनमु- पक्रमोपसंहारावित्यर्थः । अभ्यासस्य लक्षणमाह । पौनःपुन्ये नेति । अत्रापि श्रुतिमुदाहरति । यथेति अपूर्वत्वस्य लक्ष- णमाह । प्रमाणान्तरेति । “तं त्वौपनिषदं पृच्छामि” इत्यादिश्रुति- भिरुपनिषन्मात्रवेद्यत्वप्रतिपादनाद्ब्रह्मणोऽपूर्वत्वमित्यर्थः अथवा स्वप्रकाशत्वेन स्वव्यवहारे स्वातिरिक्तप्रमाणानपेक्षत्वात् ब्र- ह्मणोपूर्वत्वमित्यर्थः । क्रमप्राप्तस्य फलस्य लक्षणमाह फलं त्विति । अत्रानुरूपमुदाहरणमाह । आचार्यवानित्यादिश्रवणा- दिसाधनानांब्रह्मात्मैकत्वविज्ञानं प्रयोजनं ब्रह्मज्ञानस्य तु त- त्प्राप्तिः फलम् “ब्रह्मविद् ब्रह्मैव भवति।तरति शोकमात्मवित्” इत्यादिश्रुतेरित्यर्थः । पंचमलिंगस्याप्यर्थवादस्य लक्षणमा- ह । प्रशंसनमिति । प्रकरणप्रतिपाद्याद्वितीयब्रह्मस्वरूपस्ताव द्वाक्यमर्थवाद इत्यर्थः । अत्रापि श्रुतिमाह । उततमादेशमप्रा- क्ष्यइत्यादि “येनाश्रुतं श्रुतं भवति” येन सकलप्रपंचाधिष्ठानब्रह्म- स्वरूपश्रवणेनाश्रुतं प्रपंचजातमपि श्रुतं भवति येन ब्रह्मज्ञाने-

Page 107Permalink

संस्कृतटीका-भाषाटीकासमेत । ( १०७ ) नाज्ञातं सर्वं जगत् ज्ञातं भवति येन ब्रह्मसाक्षात्कारेणासा- क्षात्कृतं साक्षात्कृतं भवति ब्रह्मणः सर्वतः संप्लुतोदकस्थानीय- त्वादित्यर्थः । अवशिष्टाया उपपत्तेर्लक्षणमाह । प्रकरणेति । तामुदाहरति । यथेति । मृद्विकारेषु घटादिषु विकारनाम- धेययोर्वाचारंभणमात्रत्वेन तथामृन्मयत्वमेवावशिष्यते ना- न्यत्तथा चिद्विवर्तस्य प्रपञ्चस्य गिरिनदीसमुद्रात्मकविकारना- मधेययोर्वाचारंभणमात्रत्वाच्चिन्मात्रमेवावशिष्यते रज्जुविव- र्तस्य सर्पस्य रज्जुमात्रावशेषवदित्यर्थः ॥ ९० ॥ (भा०टी०) जिस प्रकरणमें जो वस्तु प्रतिपादन करने- के योग्य हा उस प्रकरणमें आदिसे लेकर अन्त पर्य्यन्त उसी वस्तुका प्रतिपादन करना उपक्रमोपसंहार कहाताहै। जैसाकि छान्दोग्य के षष्ठ अध्याय की आदिमें (एकमेवाद्वितीयं ब्रह्म) “अद्वितीय ब्रह्मही एकहै”और अन्तमें भी “यह आत्माही ज- गन्मय है”इस प्रकार प्रकरणका प्रतिपाद्य वस्तु अद्वितीय ब्रह्मका ही प्रतिपादन कियाहै। इसी प्रकार जिस प्रकरणमें जो वस्तु प्रतिपादन करनेके योग्यहै उसी वस्तुका वारम्वार प्रति- पादन करना अभ्यास कहाता है। छान्दोग्यके षष्ठाध्यायमें ही जिस प्रकार “तत्त्वमसि” इस वाक्यद्वारा अद्वितीय ब्रह्मका नौ ९ वार प्रतिपादन कियाहै । जिस प्रकरणमें जो वस्तु प्रति- पादन करने योग्य हो उस वस्तुके प्रमाणसे अतिरिक्त प्रमाण- के विषयको छोडकर उसी वस्तुके प्रतिपादन करनेको अ- पूर्वता कहते हैं। उसी षष्ठाध्यायमें ही केवल उपनिषदोंके प्र-

प्रकरण उसी वस्तुके प्रतिपादन की युक्तिका नाम उपपत्ति है।

Page 108Permalink

( १०८ ) वेदान्तसार । माणसे ही जिसप्रकार अद्वितीय ब्रह्मका प्रतिपादन कियाहै उसविषयमें अन्य प्रमाण का नामभी नहीं लियाहै। जिस प्र- करणमें जो वस्तु प्रतिपादन करने योग्य हो उस प्रकरणमें उसी वस्तुका अथवा उस वस्तुके अनुष्ठानका श्रवण करना फल कहाता है जैसा कि उसी षष्ठाध्यायमें लिखाहै "आ- चार्य्यवान् पुरुष ब्रह्मके जाननेमें समर्थ होताहै वही ज्ञानी पुरुष विमुक्त पर्यन्त प्रतीक्षा करताहै और विमुक्ति होनेपर परब्रह्ममें लीन होजाताहै" इस प्रकार अद्वितीय ब्रह्म- ज्ञानका ब्रह्मप्राप्ति होनेमें प्रयोजन है। ऐसा श्रुतिमें कहाहै। जिस प्रकरणमें जो वस्तु प्रतिपादक करने योग्य हो उस वस्तु- की प्रशंसाका नाम अर्थवाद है। जैसा कि उसी षष्ठ अध्याय में कहाहै। गुरु शिष्यको कहते हैं हे शिष्य! तूने हमसे जिसका प्रश्न कियाहै उसको सुन। नहीं सुने हुये पदार्थका श्रवण क- रना, भूले हुये पदार्थका स्मरण करना; नहीं जाने हुये पदार्थका जानना। इस प्रकार उस अद्वितीय ब्रह्म वस्तुकी प्रशंसा कही- है। जिस प्रकरणमें जो वस्तु प्रतिपादन करने योग्य हो उस प्रकरण उसी वस्तुके प्रतिपादन की युक्तिका नाम उपपत्ति है। जैसा कि उसी षष्ठाध्यायमें कहाहै कि "हे सौम्य! जिस प्रकार एक मृत्तिकाके पिण्डका ज्ञान होनेपर संपूर्ण मृत्तिकाके पात्रा- दिकोंका ज्ञान हो जाताहै मृत्तिकाकी कम्बुग्रीवादि विकृति और नाम कहना मात्र है यथार्थ मृत्तिकाही है। इसी प्र-

Page 109Permalink

संस्कृतटीका-भाषाटीकासमेत । (१०९) कार अद्वितीय वस्तु ब्रह्मके प्रतिपादन करनेमें विकारकी कथनमात्र युक्ति देखनेमें आतीहै वास्तविक नहीं ॥ ९० ॥ मननं तु श्रुतस्याद्वितीयवस्तुनो वेदान्तार्थानुगुण- युक्तिभिरनवरतमनुचिन्तनम् । विजातीयदेहादि- प्रत्ययरहिताद्वितीयवस्तुसजातीयप्रत्ययप्रवाहः निदिध्यासनम्। समाधिश्च द्विविधः। सविकल्पको निर्विकल्पकश्चेति तत्र सविकल्पको नाम ज्ञातृज्ञा- नादिविकल्पलयानपेक्षया द्वितीयवस्तुनि तदाका- राकारितायाश्चित्तवृत्तेरवस्थानम् । तदा मृन्मय- गजादिभानेऽपि मृद्भानवत् द्वैतभानेऽप्यद्वैतं वस्तु भासते । तदुक्तमभियुक्तैः- “दृशिस्वरूपं गमनोपमं परं सकृद्विभातं त्वजमेकमव्ययम् । तदेव चाहं सततं विमुक्तम्। दृशिस्तु शुद्धोऽहमवि- क्रियात्मको न मेऽसिबद्धो न च मे विमोक्षः” इत्यादि ॥ ९१ ॥ (सं०टी०) श्रवणनिरूपणानंतरं तदुत्तरांगस्य मननस्य लक्षणमाह। मननं त्विति। षड्विधलिंगतात्पर्यपूर्वकं श्रुत- स्याद्वितीयब्रह्मणो वेदांताऽविरोधिनीभिर्युक्तिभिर्नैरंतर्येणानुचिं- तनं मननमित्यर्थः। निदिध्यासनस्य लक्षणमाह । विजाती- येति । विजातीयदेहादिवुद्धयन्तजडपदार्थविषयकप्रत्ययनि- राकरणेन सजातीयाद्वितीयवस्तुविषयकप्रत्ययप्रवाहीकरणं निदिध्यासनमित्यर्थः । व्युत्थाननिरोधसंस्कारयोरभिभवप्रा-

Page 110Permalink

( ११० ) वेदान्तसार । दुर्भावे सति चित्तस्यैकाग्रतापरिणामः समाधिः । स च द्विवि- ध इत्याह । सविकल्पको निर्विकल्पकश्चेति । तस्य लक्षणमाह । तत्रेति। तत्र तयोः सविकल्पनिर्विकल्पकयोर्मध्ये, सविकल्पको पि द्विविधः। अहं ब्रह्मास्मीति शब्दानुविद्धतयाऽद्वितीये वस्तु- नि चित्तवृत्तेरवस्थानमित्येकः । द्वितीयस्तु ज्ञातृज्ञानज्ञेयत्रिपु- टीविलयानपेक्षयाऽहंब्रह्मास्मीति दृश्यानुविद्धतयाऽद्विती- यवस्तुन्यविच्छेदेन चित्तवृत्तेरवस्थानमित्यर्थः । ननु “भक्षितेपि लशुने न शांतो व्याधिः ”इति न्यायेनोक्तसविकल्पक- समाध्योः सकलभेदनिराकरणाय प्रवर्तमानयोरपि ज्ञात्रादिभे- दविषयत्वेन नाद्वैतवस्तुमात्रभानं तत्रेत्याशंक्येतरमाह । त- देति । तदा सविकल्पकसमाध्यनुभवकाले ज्ञात्रादिभेदप्र- तीतावप्यद्वैतं वस्तु भासत एव सुवर्णमयकुंडलादिभाने सुवर्ण- भानवन्मृन्मयघटादिभाने मृद्भानवच्च घटादिभानस्य वाचारं- भणमात्रत्वात् ज्ञात्रादिभानस्यापि वाचारंभणमात्रत्वादद्वैतमे- व वस्तु भासत इत्यर्थः। यद्वा “सर्वं खल्विदं ब्रह्म ऐतदात्म्यमिदं स र्वम्”इत्यादिश्रुतिबलात्सर्वमहमिति गिरिनदीसमुद्रात्मकं सर्वं जगत्स्वाभिन्नसच्चिदानंदब्रह्मत्वेनानुभूय तस्य दग्धपटन्यायेन प्र- पंचभानेप्यद्वैतं सच्चिदानंदलक्षणं वस्तु भासत एव इत्यर्थः । त दुक्तं भगवता “वासुदेवः सर्वमिति स महात्मा सुदुर्लभः” इति मूलकारोप्यस्मिन्नर्थे ग्रंथांतरसंमतिं दर्शयति। तदुक्तमिति । ॐ- मिति यत्परं ब्रह्म तदेवाहमित्यन्वयः। किं तदित्याह।दृशिस्वरू- पमिति । दृशिः दृष्टिः तस्याः रूपं द्रष्टृत्वं तद्यस्य परमात्म-

Page 111Permalink

संस्कृतटीका-भाषाटीकासमेत । ( १११ ) स्वरूपस्य तद्दृशिस्वरूपं साक्षिरूपमित्यर्थः । तदुक्तं भगवता 'उपद्रष्टानुमंता च भर्ता भोक्ता महेश्वरः ॥ परमात्मेति चाप्यु- क्तो देहेस्मिन्पुरुषः परः” इति।पुनः किंरूपं तत् गगनोपमं गग- नं उपमा दृष्टांतो यस्य तद्गगनोपमं गगनवन्निर्लेपस्वरूपमित्यर्थः तथा च भगवद्वचनं “तथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते” इति। यद्वा गगनोपमं गगनवदमूर्तस्वरूपमित्यर्थः“आकाशशरीरं ब्रह्म”इतिश्रुतेः।पुनः किंभूतं सकृदेकदैव विभातं सर्वदैकस्वरूपेण भासमानं चंद्रादिप्र- काशवन्नवृद्धिक्षयशीलमित्यर्थः।पुनःकिंरूपं अजं जन्मरहितं,ए कं निरस्तसर्वोपाधिभेदं,अक्षरं विनाशधर्मराहित्येन कूटस्थस्व- रूपमित्यर्थः।तथा च भगवानाह । “क्षरः सर्वाणि भूतानि कूट- स्थोऽक्षर उच्यते”इति । अलेपकं असंगत्वादविद्यादिदोषरहि- तमित्यर्थः “असंगो ह्ययं पुरुषः”इतिश्रुतेः॥सर्वगतं सर्वत्र ब्रह्मा- दिस्थावरांतेषु गतं व्याप्तं अद्वयं सजातीयविजातीयस्वगत- भेदराहित्येन द्वितीयरहितं सततं विमुक्तमिति सर्वदाकार्यका- रणात्मकसर्वोपाधिविनिर्मुक्तत्वेन सततमेकरूपमित्यर्थः।तथाच भागवते “बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः” इति। तथा च एतादृशं निरतिशयानंदं यत्परं ब्रह्म तदेवाह।अह मिति। भावयतो निषेधप्रतियोगित्वेन तत्तदुपाधिभानात्तत्तत्प्रयुक्तभे- दज्ञानेप्यद्वैतं भासत एवेत्यर्थः ॥ ९१ ॥ (भा०टी०) अब मननका लक्षण कहतेहैं।वेदान्तके अनु- कूल युक्तिद्वारा चिरकालसे श्रवण किये हुए अद्वितीय ब्रह्म

Page 112Permalink

( ११२ ) वेदान्तसार । वस्तुकी चिन्तना का नाम मननहै। तत्त्वज्ञानके विरोधी दे- हादि जड पदार्थ ज्ञानको त्याग कर अद्वितीय ब्रह्म वस्तुके अनुकूल ज्ञानके प्रवाह ( आधिक्य ) को निदिध्यासन कह- तेहैं। समाधि दो प्रकार का है। एक सविकल्पक,दूसरा निर्वि- कल्पक । ज्ञाता ज्ञान और जानने योग्य वस्तु इन तीन पदार्थोंको पृथक् पृथक् ज्ञान होनेपरभी अद्वितीय ब्रह्म वस्तुमें अखंडाकार चित्तकी वृत्ति होना सविकल्पक समाधि कहाताहै । जैसे मृत्तिकाके हस्तीसे हस्तीका ज्ञान होनेपर भी मृत्तिकाही है ऐसा ज्ञान होताहै तिस प्रकार द्वैतज्ञान होने परभी अद्वैत ज्ञान होताहै । इस विषयमें प्रमाण भी कहाहै-“ सर्वसाक्षी, सर्वव्यापी, सर्वोत्कृष्ट, स्वप्रकाशस्वरूप, जन्ममृत्युरहित, निर्लिप्त, और सर्वदा मुक्तस्वभाव जो अद्वितीय ब्रह्म है सो मैं हूं ” ॥ ९१ ॥ निर्विकल्पकस्तु ज्ञातृज्ञानादिभेदलयापेक्षया द्वि- तीयवस्तुनि तदाकाराकारिताया बुद्धिवृत्तेरतित- रामेकीभावेनावस्थानम् । तदा तु जलाकाराका- रितलवणानवभासेन जलमात्रावभासवत् द्वितीय- वस्त्वाकाराकारितचित्तवृत्त्यनवभासेनाद्वितीयव- स्तुमात्रमेवावभासते। ततश्चास्य सुषुप्तेश्चाभेदश- ङ्का न भवति । उभयत्र वृत्त्यभाने समानेऽपि त- त्सद्भावासद्भावमात्रेणानयोर्भेदोपपत्तेः ॥ ९२ ॥ ( सं०टी० ) समाधिस्वरूपमाह । निर्विकल्पकस्त्व-

Page 113Permalink

संस्कृतटीका-भाषाटीकासमेत । ( ११३ ) ति । अयं च द्विविधः चिरकालाभ्यस्तपटुतरसविकल्पकस- माध्यनुभवजनितसंस्कारसहकृतायाः चित्तवृत्तेर्ज्ञात्रादित्रिपु- टीलयपूर्वकमद्वैतवस्तुन्येकभावनात्मकः । प्रथमः एतन्निर्विक- ल्पकसमाध्यभ्यासपाटवेन लुप्तसंस्कारतया ज्ञात्रादित्रिपुटी- लयपूर्वकमखंडाकारितायाः चित्तवृत्तेर्विनापिस्वस्फूर्तिकेवलाचि दात्मना च स्थानात्मकॊ द्वितीयः। तत्र द्वितीयपक्षमभिप्रेत्याह । ज्ञातृज्ञानादीति । नन्वेवं समाधिसुषुप्त्योर्विक्षेपाभावेन वृत्त्य- भानादभेदमाशंक्य परिहरति । तत्र युक्तिमाह । उभयत्रेति । समाधिसुषुप्त्योरित्यर्थः । तत्सद्भावेति समाधावज्ञायमानवृत्ति- सद्भावात् सुषुप्तौ वृत्त्यभावाच्च तयोर्भेदोपपत्तेरित्यर्थः ॥ ९२ ॥ (भा०टी०) ज्ञाता ज्ञान और जानने योग्य वस्तु तीन पदार्थोंका भेद ज्ञानका अभाव होनेपर अद्वितीय ब्रह्मव- स्तुमें अखण्डाकार चित्तकी वृत्ति होना निर्विकल्पक समा- धि कहाताहै । इस समाधिके समय जिस प्रकार जलमें मिले हुए लवणके लवणत्व ज्ञानका अभाव होनेपर केवल जलका ज्ञान होताहै तिसी प्रकार अद्वितीय ब्रह्माकार चित्तवृत्तिके ज्ञानकी सत्ताका अभाव होनेपर भी ब्रह्म वस्तुमात्र ज्ञान रहताहै अर्थात् अखण्ड ब्रह्ममें चि- त्तवृत्तिके लीन होनेपर और भिन्नरूप कुछ ज्ञान नहीं होताहै अखण्ड ब्रह्ममय ज्ञानही होताहै इसी कारण सु- षुप्ति अवस्थासे निर्विकल्पक समाधिका भेद कोई भेद नहीं है इस प्रकार आशंकाभी नहीं होतीहै क्योंकि सुषुप्ति