वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 105, कुल 355 में से
संदर्भ में पढ़ें८४ ; वेणीसंहारं नाटकं किम्त्याहितम् । अपि कुशलं समराङ्गणेष्वप्रतिरथस्य जयद्रथस्य । माता — जाद, कुदा कुसलम् । ( जात, कुतः कुशलम् । ) राजा—कथमिव । माता—( साशङ्कम् । ) अज्ज क्खु पुत्तवहामरिसिदेण गण्डीविणा अगत्थम्मिदे दिवहणाहे तस्स वहो पडिण्णादो । ( अद्य खलु पुत्रवधामर्षितेन गाण्डीविनाऽनस्तमिते दिवसनाथे तस्य वधः प्रतिज्ञातः । ) राजा—( सस्मितम् । ) इदं तदस्रकारणमम्बाया दुःशलायाश्च । पुत्रशो- कादुत्तप्तस्य किरीटिनः प्रलपितैरेवमवस्था । अहो मुग्धत्वमबलानां नाम । अम्ब, कृतं विषादेन । वत्से दुःशले, अलमश्रुपातेन । कुतश्चायं तस्य धन- ञ्जयस्य प्रभावो दुर्योधनबाहुपरिघरक्षितस्य महारथजयद्रथस्य विपत्ति- भीतिः । समराङ्गणेषु = सङ्ग्रामभूमिषु, अप्रतिरथस्य = अविद्यमानप्रतिपक्षस्यन्दनस्य, जयद्रथस्य = सिन्धुराजस्य, कुशलम्, अपि=किम्, अपिशब्दः प्रश्ने । जातेति—पुत्रस्य पुत्रसदृशस्य च सम्बोधनार्थं जात इति प्रयुज्यते । पुत्रवधामर्षितेन = सुतवधक्रुद्धेन, गाण्डीविना = अर्जुनेन, अनस्तमिते = अस्तम- प्राप्ते, दिवसनाथे = सूर्ये, तस्य=जयद्रथस्य, वधः, प्रतिज्ञातः । सस्मितम् = ईषद्धासेन सहितम्, अम्बायाः = जयद्रथमातुः, दुःशलायाः = स्वस्वसुः, च. अस्रकारणम् = अश्रुहेतुः, 'रोदनं चास्रमश्रु च' इत्यमरः । इदं तत् । पुत्र, शोकात्, उत्तप्तस्य=दुःखितस्य, किरीटिनः=अर्जुनस्य, प्रलपितैः=प्रलापैः, भावे क्तप्रत्ययः । एवम्, अवस्था । अबलानाम् = स्त्रीणाम्, मुग्धत्वम् = मोहः, 'अहो इति विस्मये । अश्रुपातेन = रोदनेन, अलम् = व्यर्थम्, 'वासरूपन्यायेन' क्त्वाऽभावपक्षे असंयोगे सत्यपि ल्युट् प्रत्ययः । दुर्योधनबाहुपरिघरक्षितस्य = दुर्योधनस्य बाहु- विघ्न तो नहीं, रणस्थली के बीच अद्वितीय वीर जयद्रथ का कुशल तो है न ! माता—वत्स, कुशल कहाँ ? राजा—किस प्रकार ? माता—आज पुत्रवध से क्रुद्ध होकर गाण्डीवधारी अर्जुनने सूर्यास्त से पहले उसके वध की प्रतिज्ञा की है । राजा—( मुस्कान के साथ मन ही मन ) यही माता और दुःशला के अश्रुपात का कारण है । पुत्र-शोक से विह्वल अर्जुन के प्रलापों से यह अवस्था है । स्त्रियां कैसी भोली- भाली होती हैं ! ( प्रकट ) माता, शोक करने की कोई आवश्यकता नहीं । चिरंजीविनि दुःशले ! पर्याप्त अश्रुपात हो चुका । इस अर्जुन में कहाँ सामर्थ्य है कि वह दुर्योधन की