वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 115, कुल 355 में से
संदर्भ में पढ़ें९४ वेणीसंहार नाटकं मंशं अ आणीदम् । ता पिवाहि णं । ( अरे रुधिरप्रिय, इदं खलु मया तव कारणात्प्रत्यग्रहृतस्य कस्यापि राजर्षेः प्रभूतवसास्नेहचिक्कणं कोष्णं नवरुधिरमग्रमासं चानीतम् । तत्पिवैतत् । ) राक्षसः—(सपरितोषम् ।) वशागन्धे, शुट्ठु शोहणं तुए किदम् । वलि- अह्यि पिवाशिए । ता उवणेहि । ( वसागन्धे, सुष्ठु शोभनं त्वया कृतम् । बलव दस्मि पिपासितः । तदुपनेय । ) राक्षसी—अले लुहिलप्पिआ, एदिशे वि णाम हदणलगअतुलङ्गमशोणि- अवशाशमुद्ददुशशञ्चले शमले पडिब्भमन्ते तुमं पिवाशिएशित्ति अच्चलि- अम् । ( अरे रुधिरप्रिय, ईदृशेऽपि नाम हतनरगजतुरङ्गमशोणितवसासमुद्रदुःसञ्चरे समरे परिभ्रमंस्त्वं पिपासितोऽसीत्याश्चर्यम् । ) राक्षसः—( सक्रोधम् ) अइ शुत्तियदे, णं पुत्तशोअशन्तत्तहिअअं शामिणीं प्रत्यग्रहृतस्य = अभिनवव्यापादितस्य, कस्यापि, राजर्षेः = ऋषिसदृशनृपस्य, प्रभूतवसास्नेहचिक्कणम् = प्रचुरमेदःस्नेहमसृणम् , 'चिक्कणं मसृणं , स्निग्धम्', इत्य- मरः । कोष्णम् = ईषदुष्णम्, नवरुधिरम्, अग्रमांसम् = उत्तममांसम्, च आनीतं तव कारणादित्यन्वयः । सुष्ठु = मनोहरम्, शोभनम् = साधु, त्वया कृतमित्यन्वयः । बलवत् = अतिश- यितम्, पिपासितः = पानेच्छायुक्तः, अस्मि इत्यन्वयः । बलवदिति क्रियाविशेषणम् । हतनरगजतुरङ्गमवसासमुद्रदुःसञ्चरे = मृतमनुष्यहस्त्यश्वानां शोणितवसे एव समुद्रः अत एव दुःसञ्चरः दुःखेन सञ्चरितुं योग्यः तस्मिन् , समरे = सङ्ग्रामे, परि- भ्रमन्, त्वं पिपासितः = पानेच्छायुक्तः, असीति, आश्चर्यम् = अद्भुतम् । एतादृशे सङ्ग्रामे सति न तव पिपासा युक्तेति भावः । राजर्षि के अङ्गों से निःसृत अत्यधिक वसा, के स्नेह से चिकना और गरम ताजा रक्त और स्वादिष्ट मांस लाई हूँ अतः इसे पी लो । राक्षस—( सन्तुष्ट होकर ) साधु, साधु वसागन्धे, तूने अच्छा किया, जो गरम गरम रक्त लाई । मैं अधिक तृषातं हो गया हूँ अतः इसे ला इधर दे । राक्षसी—अये रुधिरप्रिय, मृत शूरवीरों, हाथी, घोड़ों के रक्त, मांस तथा चर्बी के समुद्र में घूमना-फिरना कठिन हो रहा है । ऐसी समरभूमि के बीच विचरने हुए तृषातं हो— महान् आश्चर्य की बात है । राक्षस—( क्रोधपूर्वक ) अरी वसागन्धे, मैं पुत्र घटोत्कच के वध के कारण शोकाग्नि से