वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 92, कुल 355 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ७१ स्मितमधुरमुदारं देवि मामालपोच्चैः प्रभवति मम पाण्योरञ्जलिस्त्वं स्पृशास्मान् ॥ १६ ॥ भानुमती — अज्जउत्त, अब्भणुण्णादाए दुह अत्थि न कस्सि विणिअमे अहिलासो । ( आर्यपुत्र, अभ्यनुज्ञातायास्त्वयास्ति मे कस्मिन्नपि नियमेऽभिलाषः । ) राजा — श्रुतविस्तर एवास्मि भवत्याः स्वप्नवृत्तान्तं प्रति । तदलमेवं प्रकृतिसुकुमारमात्मानं खेदयितुम् । स च अपाङ्गः नेत्रप्रान्तः तं संसर्पति गच्छतीति धवलदीर्घापाङ्गसंसर्पि, चक्षु=नेत्रम्, विकिर = विक्षिप । सम्भ्रमेण = उद्वेगेन, किम् ? न किमपीत्यर्थः, उद्वेगो न कार्य इति भावः । स्मितमधुरं = स्मितेन ईषद्धासेन मधुरम् सुन्दरम् उदारम् = दक्षिणम् यथा स्यात्तथा हे देवि, माम् उच्चैः = तारस्वरेण, आलप = आलापं कुरु । हे देवि, मम पाण्योः = हस्तयोः, अञ्जलिः, प्रभवति = प्रकर्षेण वर्तते, अञ्जलिबद्धोऽस्मीति भावः । अत एव त्वम्, अस्मान्, स्पृश = छूउ 'प्रभवति मम पाण्योरञ्जलिः सेवितुं त्वामि'ति पाठः सुगमः । अत्र पक्षे प्रभवतीत्यस्य समर्थोऽस्तीत्यर्थः । अत्र 'यद्वा कारकमेकं स्यादनेकासु क्रियासु चेदि'ति लक्षणाद् एकस्यैव त्वमिति कारकस्यानेक- क्रियासु सम्बन्धात्कारकदीपकालङ्कारः । मालिनीच्छन्दः । न न म य य युतेयं मालिनी भोगिलोकैरिति लक्षणात् ॥ १६ ॥ त्वया, अभ्यनुज्ञातायाः=आज्ञापितायाः, मे=मम्, कस्मिन्नपि, नियमे, अभिलाषः= इच्छा अस्तीत्यन्वयः । भवत्याः, स्वप्नवृत्तान्तम्, प्रति, श्रुतविस्तरः=श्रुतः, विस्तरः येन सः, एव, अस्मीत्यन्वयः । तत् = तस्मात् प्रकृतिसुकुमारम् = स्वभावतः कोमलम् आत्मानम् = अन्तःकरणम्, एवं, खेदयितुम्-परितापयितुम्, अलम् = व्यर्थम् वासरूपन्यायेन आँख में कज्जल नहीं लगाया था इसलिए नेत्र धवल थे ] व्याकुल होने से क्या लाभ ? मुझसे मन्दहास्यपूर्वक उच्च स्वर से चित्ताकर्षक तथा मधुर भाषण कीजिये । यह मेरे साञ्जलि हस्त आपकी सेवा के लिए उद्यत हैं अर्थात् हाथ जोड़कर यह दास आपकी सेवा के लिए तय्यार है । यदि इसने अपराध किया है तो आप क्रोध भरी आँखों से देखें और डाँट- फटकार कर दण्ड दें अथवा ये हाथ अञ्जलि बाँधकर अपने अपराधों के लिए क्षमा प्रार्थी हैं । भानुमती — महाराज, मुझे आज्ञा प्रदान करें, किसी एक नियम (व्रत) के सम्पादन करने में मेरी बलवती इच्छा है । राजा — मैं श्रीमती के स्वप्नीय वृत्तान्तों को पूर्णतया सुन चुका हूँ अतः सहज सुकोमल चित्त को कष्ट देने की कोई आवश्यकता नहीं है ।