भारतकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 93, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 93

७२ वेणीसंहार नाटकं भानुमती—अज्जउत्त, मे सङ्का बाहेइ। ता अणुमण्णदु मं अज्जउत्तो। (आर्यपुत्र, मां शङ्का बाधते। तदनुमन्यतां मामार्यपुत्रः।) राजा—(सगर्वम्।) देवि, अलमनया शङ्कया। पश्य— किं नो व्याप्तदिशां प्रकम्पितभुवामक्षौहिणीनां फलं किं द्रोणेन किमङ्गराजविशिखैरेवं यदि क्लाम्यसि। भीरु भ्रातृशतस्य मे भुजवनच्छायासुखोपस्थिता 'अलं खल्वे'रिति क्त्वाऽभावे तुमुन्प्रत्ययः। अन्वयः—नः व्याप्तदिशाम् (अत एव) प्रकम्पितभुवाम् अक्षौहिणीनाम्, किम्, फलम्, द्रोणेन, किम्, अङ्गराजविशिखैः किम्, (हे) भीरु, एवम्, यदि, क्लाम्यसि, मे भ्रातृशतस्य भुजवनच्छायासुखोपस्थिता, त्वम्, दुर्योधनकेसरीन्द्र गृहिणी (वर्तसे) तव, शङ्कास्पदम् किम्।। १७।। शङ्काया अभावे हेतुमाह—किन्नो व्याप्तदिशामिति। नः = अस्माकम् व्याप्तदिशाम् = व्याप्ता दिक् याभिः तासाम्, सर्वत्र विस्तृताना- मित्यर्थः, अत एव प्रकम्पितभुवाम् = कम्पितभूमीनाम्, अक्षौहिणीनाम् = दशानीकि- नीनाम्, तदुक्तममरे— एकमेकरथा त्र्यश्वा पत्तिः पञ्चपदातिका। पत्यङ्गैरित्रगुणैः सर्वैः क्रमादाख्या यथोत्तरम्। सेनामुखं गुल्मगणो वाहिनी पृतना चमूः। अनीकिनी दशानीकिन्यक्षौहिणीति॥ अयमर्थः—एकगजैकरथत्र्यश्वानां समूहः पञ्च पदातयश्च यत्र सा पत्तिः। तिसृभिः पत्तिभिः सेनामुखं, त्रिभिः सेनामुखैः गुल्मः, त्रिभिर्गुल्मैर्गणः, त्रयो गणाः वाहिनी, तिस्रो वाहिन्यः पृतना, तिस्रः पृतनाः चमूः, तिस्रश्चम्वोऽनीकिनी दशानीकिन्य- क्षौहिणी इति सेनाविशेषस्य संज्ञा। किं फलम् = कोऽर्थः न किमपीत्यर्थः। इदं, यदि क्लाम्यसीत्यनेनान्वेति, एवमग्रेऽपि। द्रोणेन = आचार्येण, किम् अङ्गराजवि- शिखैः = कर्णबाणैः, किम्, हे भीरु = भययुक्ते, एवं त्वं यदि क्लाम्यसि = परितपसि, एतादृशवीरसेनासत्त्वे त्वया तापो न कार्य इति भावः। मे = मम भ्रातृशतस्य = भानुमती—आर्यपुत्र, मैं गम्भीर सन्देह सागर में डूब रही हूँ अतः मुझे आशा प्रदान कर ही दें। राजा—(अहङ्कार के साथ) देवि, इस सन्देह पर, ध्यान न दीजिए देखिये— यदि आप इस प्रकार की शङ्का से विचलित हो रही हैं तो हम लोगों की अक्षोहिणी सेना की जो समस्त दिशाओं तक प्रसिद्ध है तथा जिसके बल से भूमि कम्पित हो जाती है, क्या आवश्यकता! अथवा द्रोणाचार्य की क्या उपयोगिता तथा कर्ण के बाणों से क्या?