याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 643, कुल 782 में से
संदर्भ में पढ़ेंप्रायश्चित्ताध्यायः ५८७ स्मृत्यन्तरे विशेष उक्तः—'रजस्वला तु भुञ्जाना श्वानश्वचाण्डालैन्स्पृशेद्यदि । गोमूत्र- यावकाहारा षडरात्रेण विशुध्यति ॥ अशक्तौ काञ्चनं दद्याद्विप्रेभ्यो वापि भोजनम् ॥' इति ॥ यदा तूच्छिष्टयोः परस्परस्पर्शनं भवति तदा—'उच्छिष्टो- च्छिष्टया स्पृष्टा कदाचित्स्त्री रजस्वला । कृच्छ्रेण शुध्यते पूर्वा शूद्रा दानेरु- पोषिता ॥' इत्यत्रिनोक्तं द्रष्टव्यम् ॥ यदा तूच्छिष्टान्द्विजान्रजस्वला स्पृशति, तदा 'द्विजान्र्कथंचिदुच्छिष्टान्रजःस्था यदि संस्पृशेत् । अधोच्छिष्टे त्वहोरात्र- मूर्ध्वोच्छिष्टे त्र्यहं क्षिपेत् ॥' इति मार्कण्डेयोक्तं द्रष्टव्यम् ॥ एवमवकीर्णिप्राय- श्चित्तप्रसङ्गात्कानिचिदुपपातकप्रायश्चित्तान्यपि व्याख्याय प्रकृतमनुसरामः । तत्रावकीर्णिनन्तरं 'सुतानां चैव विक्रयः' (प्रा० २६६) इत्युक्तं, तत्र मनुयो- गीश्वरोक्तानि १त्रैमासिकादीनि कामाकामजातिशक्त्याद्यपेक्षया पूर्ववद् व्यवस्थो- पनीयानि ॥ यत्तु शङ्खवचनम्—'देवगृहप्रतिश्रयोद्यानारामसभाप्रपातडागपुण्य- सेतुसुतविक्रयं कृत्वा तप्त... चरेत्' इति, यच्च पराशरेणोक्तम्—'विक्रीय कन्यकां गां च कृच्छ्रं सान्तपनं चरेत्' इति,—तदुभयमप्यापद्यकामतॊ द्रष्टव्यम् ॥ कामतस्तु—'नाराणां विक्रयं कृत्वा चरेच्चान्द्रायणव्रतम् । द्विगुणं पुरुषस्यैव व्रतमाहुर्मनीषिणः ॥' इति चतुर्विंशतिमतोक्तं द्रष्टव्यम् ॥ यत्तु पैठीनशिनोक्तम्— 'आरामतडागोदपानपुष्करिणीसुकृतसुतादि-क्षये त्रिषवणस्नाय्यधःशायी चतुर्थ- कालाहारः संवत्सरेण पूतो भवति' इति,—तदेकपुत्रविषयम् । तदनन्तरं 'धान्य- कुप्यपशुस्तेयम्' (प्रा० २३७) इत्युक्तं,—तत्प्रायश्चित्तानि च स्तेयप्रकरणे प्रपञ्चितानि ॥ २८७ ॥ भाषा—(अपनी पत्नी के भी) रजस्वला होने पर संभोग करे तो तीन दिन उपवास करके और घृत खाकर शुद्ध होवे ॥ २८७ ॥ अनन्तरं 'अयाज्यानां च याजनम्' (प्रा० २३७) इत्युक्तं, तत्र प्रायश्चित्तमाह— त्रीन्कृच्छ्रानाचरेद् व्रात्ययाजकोऽभिचरन्नपि । वेदप्लावी यवाश्यब्दं त्यक्त्वा च शरणागतम् ॥ २८८ ॥ यस्तु सावित्रीपतितानां याजनं करोति स प्राजापत्यप्रभृतींस्त्रीन्कृच्छ्राना- चरेत्, एतेषां च गुरुघुभूतानां कृच्छ्राणां निमित्तगुरुघुभावेन कल्पनीयम् ॥ तथा अभिचरन्नपीदमेव प्रायश्चित्तं कुर्यात् । एतच्चाभिघाताततायिव्यतिरेकेण 'षट्स्वभिचरन् पतति' इति वसिष्ठस्मरणात् ॥ 'अपि'शब्दो हीनयाजकान्त्येष्टि- याजकयोः संग्रहार्थः । अत एवोक्तं मनुना (११।१९७)—'व्रात्यानां याजनं १. दीणि कामखाति ।