भारतकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 107, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 107

छत्रयुक्तिः । ६७ आयाम-परिणाहाभ्यां नवमुष्टि-मितं हि तत् । इदं हि सर्व्वतोभद्रं सर्व्वेषामुपयुज्यते ॥ ४८३ ॥ एकैक मुष्टिवृद्ध्यातु यावद्विंशतिमुष्टिकम् । मेषादि-लग्नजातानां नृणां छत्रमिदं क्रमात् ॥ ४८४॥ अथ सदण्डम् । आयाम-परिणाहेन हस्तद्वयमिदं हि यत् । स चतुर्हस्त-दण्डाढ्यो दण्ड-छत्रोति गद्यते ॥ ४८५ ॥ सर्व्वेषां सुखसम्पत्त्यै सर्व्वतैवोपयुज्यते (१५) । एकैक वृद्धया मुष्टिस्तु छत्रे दण्डे वितस्तयः (१६) ॥ ४८६ ॥ ब्रह्म-क्षत्रिय-विट्-शूद्र जातीनां क्रमतो विदुः ॥ ४८७ ॥ क्रम नियमस्तु तथैव । शलाका वस्त्र-दण्डादि-वर्णः पूर्व्ववदिष्यते ॥ ४८८ ॥ भोजोऽपि— लघुता दीर्घता चैव दण्ड-सूत्रो-गुणग्रहः । इत्थं विचार्य्य यः कुर्य्यात् मानवश्छत्रमात्मनः ॥ ४८६ ॥ स लक्ष्मीं विजयं कीर्त्तिं प्रतापश्चाभिविन्दति ॥ ४६० । यो मोहादथवा दम्भात् कुरुते छत्रमन्यथा । स विषीदति भोजस्य वाक्यमेतत् असंशयम् (१७) ॥४६१॥ इति भोजराजीये युक्तिकल्पतरौ छत्रयुक्तिः । ( १५ ) उपजायते इति (ख) पुस्तक पाठः । ( १६ ) वितस्तयः इति (ग) पुस्तक पाठः । ( १७ ) असंशयः इति (ख) पुस्तक पाठः ।