BharatKosha
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

by महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री)

DevanagariHindipublished278 pages

Page 111 of 278

Read in context
Page 111

उपर्युपरितो देयं (७) निष्पताके महीभुजाम् । अष्ट-षोडश-द्वात्रिंशच्चतुःषष्टिदलाम्बुजम् ॥ २० ॥ वृत्ताष्ट-दिग्दलेशाश्व (म्बु:) कुम्भः सम्पत्ति-कारकः । हंसश्चाषः शुकःकेकी पक्षिणश्च यथाक्रमम् ॥ २१ ॥ वज्रञ्च पद्मरागञ्च नीलं वैदूर्य्यमेव च । ब्रह्म-क्षत्रिय-विट्-शूद्र जातीनां स्याद् यथाक्रमम् ॥ २२ ॥ कनकं रजतं युग्मं द्विविधानां महीभुजाम् । निष्पताक-ध्वजाङ्गादि निर्माणे योगमिष्यते ॥ २३ ॥ पताका यदि हस्तैका सर्वाग्रे योग्यवर्णिनी । अयं ध्वजो विशालाख्यो विज्ञेयश्चक्रवर्त्तिनः ॥ २४ ॥ तत्रैव चामरे योग्‍ये विज्ञेयाः सर्वसम्पदः । इति राज्ञां समुद्दिष्टमन्येषां ध्वज उच्यते ॥ २५ ॥ नोर्द्धं विंशति-हस्तेभ्यो नचार्वाग्दशहस्ततः । हस्त-हस्तैकसंङ्ख्या ध्वजो दशविधोमतः । २६ ॥ सहस्राधिप (८) मारभ्य यावत् स्यादयुताधिपः ॥ २७ ॥ न सहस्राधिपान्न्यूनो ध्वज-धारण मर्हति । अपि कोटिपते र्ज्ञेयो ध्वजो विंशति-हस्तकः ॥ २८ ॥ अत्रापि वर्ण-वस्त्रादि-निर्णयः पूर्ववन्मतः । स्थिरता चित्रता चेति निष्पताक ध्वजे गुणौ ॥ २६ ॥ यदेतदुभयं चिह्न उभयोः संप्रकाशितम् । तत्प्रमाण-ध्वजे ज्ञेयमप्रधानेन निर्णयः ॥ ३० ॥ (७) धेयम् इति (क) पुस्तक पाठः । (८) सहस्रादिकम् इति (ख) पुस्तक पाठः ।