भारतकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 110, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 110

७० युक्तिकल्पतरौ— पताका सार्द्ध-दैर्घ्येण दण्डमानं प्रकीर्त्तितम् । वर्णादिकन्तु यत्किञ्चित् तत् सर्व्वं पूर्व्ववन्मतम् ॥ १२ ॥ दैर्घता लघुता चेति सपताक-ध्वजे गुणाः । अङ्कुशादिकमन्यच्च ध्वजाग्रे युक्तितोन्यसेत् ॥ १३ ॥ संक्षेपेनेति निर्दिष्टं पताका-विधि-लक्षणम् । एवं विमृश्य(ष्य) मतिमान् यः पताकां समाचरेत् ॥ १४ ॥ स प्राप्नोति श्रियं कीर्त्तिं कुलवीर्य्य-बलोन्नतिम् । पताकां पृथिवी-पालो योऽज्ञानादन्यथा चरेत् । स विषीदति संग्रामे मन्ददन्त (६) इव द्विपाः ॥ १५ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ सपताक-ध्वजयुक्तिः ॥ अथ निष्पताक-ध्वजः । पूर्व्ववद्दण्ड-नियमस्तव दैर्घ्ये विशेषणम् । दण्डपत्राणि पद्मञ्च कुम्भश्च विहगोमणिः ॥ १६ ॥ निष्पताको ध्वजो राज्ञां षड्भिरेतैः सुसज्जितैः । जयः कपालो विजयः चेत्रस्तत्र शिव-क्रमात् ॥ १७ ॥ राज्ञः पुरुषमानेन दण्डमानं प्रकीर्त्तितम् । ऊर्द्धाधः क्रमयोगेन तद्दण्डादिकमुच्यते ॥ १८ ॥ केकी चासो मत्स्यरङ्गः(ङ्गः) द्विविधानां महीभुजाम् । ध्वजाग्रेषु विधेयानि पत्राणि श्रियमिच्छताम् । पद्मं कुम्भश्च विहगो माला चैव यथाक्रमम् ॥ १६ ॥ (६) मन्द दण्डः इति (क)-(ग) पुस्तक पाठः