भारतकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 109, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 109

ध्वजयुक्तिः । ६८ गजादि-युक्ता सा प्रोक्ता जयन्ती सर्व्वमङ्गला । गजः सिंहो हयो द्विपो चतुर्णां पृथिवी-भुजाम् ॥ १ ॥ हंसादि-युक्ता विज्ञेया राज्ञा सैवाष्टमङ्गला । हंसः केकी शुकः चासो ब्रह्मादीनां यथाक्रमम् ॥ २ ॥ चामरादि-समायुक्ता सा ज्ञेया सर्व्ववुद्धिदा । चामरश्वास-पञ्चानि चित्रवस्त्रं तथा सितम् ॥ ३ ॥ चतुर्णां वेदनयन-पञ्चास्व (३) गणिताः क्रमात् । तदग्रे यदि विन्यस्तं पताका-द्वितयं भवेत् ॥ ४ ॥ द्वयं (४) हि सर्व्वतोभद्रा पताका चक्रवर्त्तिनः । तद्वर्णः पूर्व्ववज् ज्ञेयः प्रमाणं विधि-बोधितम् ॥ ५ ॥ कानकं राजतं ताम्रं नाना धातुमयं क्रमात् । कुम्भादिकं प्रशंसन्ति पताकाग्रे मही-भुजाम् ॥ ६ ॥ अत्रापि रत्न-विन्यासो विधेयो रजत-क्रमः । चतुर्भिर्मकराद्याद्यैर्मुक्ता चेत् सर्व्व-सिद्धिदा ॥ ७ ॥ तदाश्रेयस्करी नाम सा पताका विजायते । मकरोऽथ गजः सिंहः व्याघ्रो वाजी मृगः शुकः ॥ ८ ॥ शुचि (५) ष्वेति समुद्दिष्टमादित्यादि-दशाभुवाम् । इति प्रोक्तः पताकानां निर्णयः पृथिवी-भुजाम् ॥ ६ ॥ अन्येषामतिसंक्षेपात् पताका-लक्षणं शृणु । गभस्तिरथहस्तश्च तथा हस्तद्वयं क्रमात् ॥ १० ॥ यथोत्तरं द्विगुणितं पत्तौ दशगुणैः क्रमात् । एवं सहस्राधिपतेः पताका तौर्य्यहस्तिकी ॥ ११ ॥ ( ३ ) पञ्चन्व इति (ख) पुस्तक पाठः । ( ४ ) द्वदं (द्वमं) इति (ख) पुस्तक पाठः । ( ५ ) सूची इति (ग) पुस्तक पाठः