भारतकोश
संग्रह पर लौटें

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

उपर्युपरितो देयं (७) निष्पताके महीभुजाम् । अष्ट-षोडश-द्वात्रिंशच्चतुःषष्टिदलाम्बुजम् ॥ २० ॥ वृत्ताष्ट-दिग्दलेशाश्व (म्बु:) कुम्भः सम्पत्ति-कारकः । हंसश्चाषः शुकःकेकी पक्षिणश्च यथाक्रमम् ॥ २१ ॥ वज्रञ्च पद्मरागञ्च नीलं वैदूर्य्यमेव च । ब्रह्म-क्षत्रिय-विट्-शूद्र जातीनां स्याद् यथाक्रमम् ॥ २२ ॥ कनकं रजतं युग्मं द्विविधानां महीभुजाम् । निष्पताक-ध्वजाङ्गादि निर्माणे योगमिष्यते ॥ २३ ॥ पताका यदि हस्तैका सर्वाग्रे योग्यवर्णिनी । अयं ध्वजो विशालाख्यो विज्ञेयश्चक्रवर्त्तिनः ॥ २४ ॥ तत्रैव चामरे योग्‍ये विज्ञेयाः सर्वसम्पदः । इति राज्ञां समुद्दिष्टमन्येषां ध्वज उच्यते ॥ २५ ॥ नोर्द्धं विंशति-हस्तेभ्यो नचार्वाग्दशहस्ततः । हस्त-हस्तैकसंङ्ख्या ध्वजो दशविधोमतः । २६ ॥ सहस्राधिप (८) मारभ्य यावत् स्यादयुताधिपः ॥ २७ ॥ न सहस्राधिपान्न्यूनो ध्वज-धारण मर्हति । अपि कोटिपते र्ज्ञेयो ध्वजो विंशति-हस्तकः ॥ २८ ॥ अत्रापि वर्ण-वस्त्रादि-निर्णयः पूर्ववन्मतः । स्थिरता चित्रता चेति निष्पताक ध्वजे गुणौ ॥ २६ ॥ यदेतदुभयं चिह्न उभयोः संप्रकाशितम् । तत्प्रमाण-ध्वजे ज्ञेयमप्रधानेन निर्णयः ॥ ३० ॥ (७) धेयम् इति (क) पुस्तक पाठः । (८) सहस्रादिकम् इति (ख) पुस्तक पाठः ।

७२ युक्तिकल्पतरौ— निष्पताक ध्वजोद्देशः प्रोक्तोऽयं भोज-भूभुजा । एतद्दिष्टस्य मतिमान् चिरं सुखमवाप्नुयात् ॥ ३१ ॥ यो दम्भादथवाऽज्ञानादिलङ्घयति मानवः । स विसीदति नश्येत तस्य कीर्त्तिःकुलं बलम् (ε) ॥ ३२ ॥ इति ध्वजयुक्तिः । अथोपकरण-युक्तिः । छत्र ध्वज सिंहासन यानादिभ्यो यदन्यत्स्यात् । राज्याङ्गं तदुपकरणं तस्माल्लोके विशेषास्तु ॥ ३३ ॥ तस्य [उपकरणस्य] गणना । चामरञ्चाथ भृङ्गारः चसकञ्च प्रसाधनोम् । वितानञ्चाथ शय्या च व्यजनं दर्पणाम्बरम् । एतन्नवकमुद्दिष्टं राजोपकरणाख्यया ॥ ३४ ॥ तत्र चामरोद्देशः । हस्तद्वयोन्नतः शुभ्रः सुवर्णवलि-भूषितः । हीरैरालङ्कृतो राज्ञां भव्यमाना सुखप्रदः ॥ ३५ ॥ वालचामर दैर्ध्याद्वा(त्वात्) आयामत्वं प्रकाशितम् । भव्यो भद्रो जयः श्रोलः (१०) सुख-सिद्धिश्चलः स्थिरः । वितस्त्येकैक सम्बृद्ध्या दिनेशादि-दशाभुवाम् ॥ ३६ ॥ ( ε ) कुलं मूलम् इति (ग) पुस्तक पाठः । ( १० ) शौलः इति (ग) पुस्तक पाठः ।

चामरयुक्तिः । ७३ सौवर्णं राजतं युग्मं त्रैदशानां महीभुजाम् । योजयेदिति निश्चित्य वलि-कल्पन कर्म्मणि ॥ ३७ ॥ स्थलजं जाङ्गलो राजा आनूपो जलजं वहेत् । हीरञ्च पद्मरागञ्च वैदूर्य्यं नील मेव च ॥ ३८ ॥ मणिवलिषु योक्तव्यो ब्रह्मादीनां यथाक्रमम् । शुक्लो रक्तोऽथ पीतश्च नानावर्णी यथाक्रमम् ॥ ३९ ॥ ब्रह्म-क्षत्रिय-विट्-शूद्र-जातीनाञ्च महीभुजाम् । चामरं राज-केशस्य न सामान्यस्य भूपतेः ॥ ४० ॥ न भव्यमानं तो न्यूनं चामरं गुणमावहेत् । * अथ चामरपरीक्षा । स्थलजं जलजञ्चेति चामरं द्विविधं विदुः ॥ ४१ ॥ मेरौ हिमालये विन्ध्ये कैलासे मलये तथा । उदयेऽस्तगिरौ चैव गन्धमादन पर्व्वते ॥ ४२ ॥ एवमेतेषु शैलेषु याश्चमर्यो भवन्ति हि । तासां वालस्य जायेत चामरेत्यभिधा भुवि ॥ ४३ ॥ आपीताः कनकाद्रिजा हिमगिरेः शुभ्रायता विन्ध्यजाः, कैलासादसिताः सिता मलयजाः शुक्लास्तथा पिङ्गलाः । आरक्ता उदयोद्भवा अस्तजा आनील-शुक्लत्विषः ; कृष्णाः केचन गन्धमादन भवाः पाण्डुत्विष-श्चामराः ॥४४॥ अन्येषु प्रायशः कृष्णा श्चामराः सम्भवन्ति हि । ब्रह्म-क्षत्रिय-विट्-शूद्र-जातयस्ता-श्चतुर्विधाः ॥ ४५ ॥ चमर्य्यः पर्व्वतोद्भूता यथापूर्वं गुणावहाः । दीर्घ-वालाः सुलघवः स्निग्धाङ्गाश्चापि कोमलाः ॥ ४६ ॥ १०

७४ युक्तिकल्पतरौ— विरला स्तनु-पर्वाणः चमर्य्यो ब्रह्म-जातयः । विना संस्कारमप्यासां चामरम्बिमलम्भवेत् ॥ ४७ ॥ दीर्घ-वालाः सुगुरवः कर्करांशा भृशं घनाः । तीक्ष्णाग्रास्तनुपर्वाण क्षमर्य्यः क्षेत्रजातयः ॥ ४८ ॥ विना संस्कारमप्यासां चामरं विमलं भवेत् । दीर्घ-वालाः सुगुरवः कर्करांशा भृशं घनाः ॥ ४६ ॥ विज्ञेयाः स्थूलपर्वाण क्षमर्य्यो वैश्यजातयः । संस्कारे चाप्यसंस्कारे न स्वभावं त्यजेदिद(य)म् ॥ ५० ॥ खर्बवालाः सुलघवः कोमलाङ्गा भृशं घनाः । ‘विज्ञेयाः स्थूलपर्वाण क्षमर्य्यो वैश्यजातयः ॥ ५१ ॥ संस्कारेण भवे(परि)च्छन्नं भवेन्मलिनमन्यथा(दा) । खर्व-वालाः सुगुरवो विमलाः कर्कशास्तथा’ ॥ ५२ ॥ चमर्य्य-स्तनु-पर्वाणो विज्ञेयाः शूद्र-जातयः । संस्कारेणापि मलिनमासां चामरमिष्यते ॥ ५३ ॥ दीर्घता लघुता चैव स्वच्छता घनता तथा । गुणाश्चत्वार इत्येते चामराणां प्रकीर्त्तिताः ॥ ५४ ॥ खर्व्वता गुरुता चैव वैवर्ण्यं मलिनाङ्गता । दोषाश्चत्वार इत्येते चामराणां प्रकीर्त्तिताः ॥ ५५ ॥ दीर्घे दीर्घायुराप्नोति लघौ भीति-विनाशनम् । स्वच्छः (१) स्याद्धन-कीर्त्तिभ्यां घने स्युः स्थिर-सम्पदः ॥५६॥ खर्वे खर्वायुद्दिष्टं गुरुर्गुरु-भयप्रदः । विरले रोग-शोकाभ्यां मलिनं मृत्युमादिशेत् ॥ ५७ ॥ इति स्थलजम् ( चामरम् ) ॥ ( १ ) स्वच्छे-स्यात् इति (ख) पुस्तक पाठः ।

चामरयुक्तिः । ७५ अथ जलजम् । लवणेक्षु सुरा सर्पिस्तोयो दधिपयोन्धिषु । यथोत्तरं गुणवहाश्चमर्थ्यः सप्तसप्तसु ॥ ५८ ॥ पुच्छानि तासां कृत्तानि (२) जन्तुभिर्मकरादिभिः । कदाचिदुपलभ्येत तत्तीरे पुण्य-शालिभिः ॥ ५९ ॥ लवणाब्धि-समुद्भूतं पोतं गुरु-घनस्तथा । वह्नौक्षिप्तस्य(ख) बालश्चेत् किञ्चिचट-चटायते ॥ ६० ॥ इक्षु-सिन्धूद्भवं ताम्रं चामरं विमलं लघु । मत्तिका मशकाश्चैव तस्मिन् व्यजति चामरे ॥ ६१ ॥ सुराब्धि-जातं कलुषं कर्बुरं गुरु-कर्कशम् । तद्गन्धेनैव मायन्ति (३) अपि वृक्षा मतङ्गजाः ॥ ६२ ॥ सर्पिःसिन्धूद्भवं स्निग्धं श्वेता-पीतं घनं लघु । वायुरोगाः प्रशाम

७६ युक्तिकल्पतरौ— एषां पूर्ववदुन्नेयं जाति-दोष-गुणादिकम् ॥ ६८ ॥ स्थलजे जलजे चैव भाव्यमेतद्विशेषणम् । स्थलजं सुखदह्यं हि दाहे मिषमिषायते ॥ ६६ ॥ जलजं बह्निदुर्दह्यं महान्तं धूममुद्गीरेत् (४) । चामराणां समुद्दिष्टमित्येवं लक्षणद्वयम् । एवं विमृश्य यो धत्तेःस राजा सुखमश्नुते ॥ ७० ॥ जलजं चामरं राजा यो धत्ते जाङ्गलेश्वरः । तस्याचिरात् कुलं वीर्यं लक्ष्मोरायुश्च नश्यति ॥ ७१ ॥ अनूपाधीश्वरो राजा यो वहेत् स्थलजं तथा । तस्यैतानि विनश्यन्ति लक्ष्मोरायुर्यशोवलम् ॥ ७२ ॥ नालं वर्णद्वये तेषां विधेयं शिल्पिनां क्रमात् । संस्कारो वालुकायन्त्रे(यान्तु) मसूर-सलिलादिभिः (५) ॥७३॥ एषां कृत्रिमदण्डत्वं प्रतिभाति यदा क्वचित् । तदोष्ण-सलिल-क्वाथात् कृत्रिमत्वं विपद्यते ॥ ७४ ॥ इति श्रीभोजराजीय युक्तिकल्पतरौ उपकरणयुक्तौ चामरोद्देशः ॥ ————*———— अथ भृङ्गारोद्देशः । राज्ञोऽभिषेक-पात्रं यद् 'भृङ्गार' इति तन्मतम् । तदष्टधा तस्य मानमाकृतिश्चापि चाष्टधा ॥ ७५ ॥ सौवर्णं राजतं भौमं ताम्रं स्फाटिकमेव च * । चान्दनं लोहजं शार्ङ्गमेतदष्टविधं मतम् ॥ ७६ ॥ (४) मुद्गिरेत् इति (२) पुस्तक पाठः । (५) मस्तुसलिलादिभिः इति (२) पुस्तक पाठः ।

  • 'सौवर्णमित्यारभ्य-उन्निता' इत्यन्तं सार्द्धश्लोकी (ख) पुस्तके नास्ति ।

[भृङ्गारयुक्तिः । ७७]

भानुदिक् नव सप्ताष्ट-रुद्रलोक-सुरोन्मिताः । अष्टावष्टौ समाख्याता आयाम-परिणाहयोः ॥ ७७ ॥ द्वि-चतुर्वाण-वेदाब्धि(६) वाणसप्ताष्ट(ख) वृत्तता (७) । यथाक्रमं समुद्दिष्टं आदित्यादि-दशाभुवाम् ॥ ७८ ॥ पद्मरागस्तथा वज्रं वैदूर्य्यं मौक्तिकन्तथा । नीलं मरकतञ्चैव मुक्ताच सप्त कीर्त्तिताः ॥ ७९ ॥ भृङ्गारसप्तके न्यास्या(८)नभौमो मणिरर्हति । कानकं मृन्मयं वापि सर्व्वेषामुपयुज्यते ॥ ८० ॥ कानकन्तु क्षितीशानां मृन्मयं सार्व्वयोगिकम् । शङ्ख पद्मेन्दुकह्लारं प्रत्यस्रं विन्यसेत् क्रमात् ॥८१॥ चतुर्विधानां भूपानां चान्द्रः सर्व्वत्र शस्यते । श्वेतं रक्तं तथा पीतं कृष्णं चन्दनमुच्यते ॥ ८२ ॥ एतेषां सलिलैः सेकः चतुर्णां स्यान्महीभुजाम् । मल्लो पद्मञ्च नीलञ्च तथा कृष्णापराजिता । एषां पुष्पाणि केशेषु चतुर्जाति-महीभुजाम् ॥ ८३ ॥ होरकं पद्मरागञ्च वैदूर्य्यं नीलमेव च । चत्वारो मणयो ध्येयाः चतुर्णां सेचनाम्भसि ॥ ८४ ॥ इत्थं निश्चित्य यः कुर्य्यात् नृपतिः सेकमात्मनः । स चिरायुर्भवेद्भोगी इतोऽन्यस्त्वन्यथाचरन् ॥ ८५ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ भृङ्गारोद्देशः ॥


( ६ ) वालसप्ताष्ट इति (ग) पुस्तक पाठः । ( ७ ) सप्ताङ्गवृत्तता इति (ख) पुस्तक पाठः । ( ८ ) -न् भौमो इति (ख) पुस्तक पाठः ।

७८ युक्तिकल्पतरौ— अथ चषकोद्देशः । यत्पानपात्रं भूपानां तज्ज्ञेयं चषकं बुधैः । कानकं राजतं चैव स्फाटिकं काचमेव च ❊ ॥ ८६ ॥ वृत्तं ख(सु)राष्ट्र-दिक्कोणं चतुर्णां पृथिवीभुजाम् । इत्यन्यत् सम्मतं तेषां निर्णयः पाठ-सम्मतः ॥ ख-मुष्टि-सम्मितं रत्नैः चतुर्व्वर्णैः समन्वितम् ॥ ८७ ॥ मौक्तिकं (१) वाथ फालम्बा सर्व्वेषामेव युज्यते । काष्ठजं धातुजं शैलं जाङ्गलादि-महीभुजाम् ॥ ८८ ॥ ‘न (†) त्वन्यत्सम्मतं तेषां निर्णयः पाठ-सम्मतः । स्व मुष्टिसम्मितं रत्नं चतुर्व्वर्णैः समन्वितम्’ ॥ ८९ ॥ यदन्यत्तोय-पानादि-पात्रं पृथ्वोभुजाम्भवेत् । एवं तत्रापि नियम इति भोजस्य निश्चयः ॥ ९० ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ चषकोद्देशः । अथ प्रसाधनी । प्रसाधनी दिङ्नव-नाग-सप्त, सङ्ख्याभिरुक्ताङ्गुलीभिः क्रमेण । चतुर्विधानां पृथिवी-पतीनां ; सम्पत्ति-सौभाग्य-यशः समृद्धिदा ॥ ९१ ॥


(१) मार्त्तिकं इति इति (क) पुस्तक पाठः ।


❊ काचपात्रवृत्तन्तु भारत-रामायण-स्मृति-पुराण-कादम्वर्य्यादौ दृश्यते । † “न त्वन्यदित्यारभ्य-समन्वितम्” इत्यन्त एकः श्लोकः (क) (ग) पुस्तकेऽधिकः पठितः इति मन्ये ।

प्रसाधनोयुक्तिः । ७२ काष्ठजा धातुजा चैव शृङ्गजा च यथाक्रमम् । जाङ्गला नूप-सामान्य-देशजानां महीभुजाम् ॥ ६२ ॥ छत्रदण्ड-वदुन्नेयः काष्ठजाया विनिश्चयः । कनकं रजतं ताम्रं पित्तलं सीसकं तथा ॥ ६३ ॥ लोहं सर्व्व(T)ञ्च सर्व्वार्थ-(द्धे)मादित्यादि-दशाभुवाम् । राज्ञामेवोपयुज्येत कालकीर्त्ति-प्रसाधनो ॥ ६४ ॥ मृगाणां महिषाणाञ्च शृङ्गजाता प्रसाधनी । गज-दन्त-समुद्भूता राज्ञामेवोपयुज्यते ॥ ६५ ॥ अत्रापि रत्न-विन्यासो ज्ञेयश्चामर-दण्डवत् ॥ ६६ ॥ गुरुता लघुता चैव तथा घन-शलाकता । मनोहरत्व-मुदितं प्रसाधन्या-गुणग्रहः ॥ ६७ ॥ ... ... ... ... ... ... * —*— अथ वितान-लक्षणम् । वितानोऽष्टविधः प्रोक्तस्तेषां लक्षणमुच्यते । आयाम-परिणाहाभ्यां अष्टहस्तमितो हि सः(यः) ॥ ६८ ॥ वितानो मङ्गलो नाम मङ्गलाय महीभुजाम् । आयामो दशहस्तेन परिणाहेऽष्टहस्तकः ॥ ६६ ॥ वितानो विजयो नाम भर्तुः सर्व्वार्थ-साधकः । आयामे द्वादशभुजः प्रसरे दशहस्तकः ॥ विताने अपि ... ... यथाक्रमम् । ... ... ... ... ... (†) ॥ १०० ॥


  • अत्र सन्दर्भभागं किञ्चित् त्रुटितं पश्यामि । आदर्शेषु तन्नास्ति । † अवापि च तथैवादर्शेषु सन्दर्भांशोऽन्तरा नावलोक्यते ।

८० युक्तिकल्पतरौ— सामान्यामात्य-भूपाल-चक्रवर्त्तिषु योजयेत् । शुक्रवर्णा च सर्व्वेषां सर्व्वत्रैवोपयुज्यते ॥ १ ॥ विशोर्णता कोमलता उच्चता-समता तथा । स्वच्छता चेति कथितं शय्यानां गुणपञ्चकम् ॥ २ ॥ इत्थं विमृश्य स्वपिति शय्यायां यो महीपतिः । सचिरं सुखमाप्नोति दुःखन्तु विपरीतकम् (तः) ॥ ३ ॥ वितानतुल्यो व्यजनस्य वर्णः, प्रमाणमेवापर मत्र गद्यते । हीने भवेद्देश(षु) वितस्ति-सम्मितो ; (१) भवेच्चतुर्णां व्यजनं शुभाय (२) ॥ ४ ॥ पञ्चवस्त्र-शलाकोत्थं विविधानां भवेदिति * । दर्पणः स्वर्ण-रजत-त्रपु-लौह-समुद्भवः ॥ ५ ॥ वितस्ति-सम्मितो भव्यो रसाख्यः सुखवर्द्धनः । भव्यः सुखो जयः क्षेमश्चतुरङ्गुलि-वर्द्धनात् ॥ ६ ॥ चतुर्विधानां भूपानां चतुरङ्ग-प्रसाधनः । आयाम-परिणाहाभ्यां चतुरङ्गुलि-सम्मितः ॥ ७ ॥ सर्व्वेषामुपयुज्येत विजयो नाम-दर्पणः । पौरुषं पौरुषार्द्धञ्च तदर्द्धञ्च यथाक्रमम् ॥ ८ ॥ चक्रवर्त्त्यन्यभूदेव-सामान्यानां प्रदर्शिताः । ऊर्द्ध-विस्तृत-मानन्तु पौरुषं मानमुच्यते ॥ ६ ॥ ( १ ) वितस्तिसंख्य इति (क) पुस्तक पाठः । ( २ ) भव्योवसाद्यः शुभसुखवर्द्धनः इति (ग) पुस्तक पाठः ।

  • पञ्चवस्त्रेत्यारभ्य-सुखवर्द्धन इत्यन्तः सार्द्धश्लोकः (ग) पुस्तके नास्ति ।

वस्त्रादि-युक्तिः । ८१ अष्टलोह-समुद्भूतः सर्वेषामुपयुज्यते । य उक्तो दर्पणः सर्व्व स्त्रैविध्यं नोपयुज्यते (†) ॥ १० ॥ दैवात्काल-विशेषाद्वा दैव-मानुष-राक्षसाः । दैवेषु मनोज्ञत्वं सुखादिकमिहेष्यते ॥ ११ ॥ मानुषे सह(साह) सम्मानं सुखादिरुपलभ्यते । दैवे सर्व्वार्थ-संसिद्धिर्मानुषे सुखसम्पदः ॥ १२ ॥ राक्षसे विपदः सर्व्वा स्त्रयाणां हि गुणत्रयम् । देवाराधनतो दैवं विलासे मानुषं मतम् ॥ १३ ॥ संग्रामे राक्षसं पश्येत् इति भोजस्य सम्मतम् । वस्त्रं चतुर्विधं प्रोक्तं श्वेत-रक्तन्तथैव च ॥ १४ ॥ पीतकृष्णमिति ब्रह्म-क्षत्र-विट्-शूद्र जन्मनाम् । श्वेतम्बाप्यथवा चित्रं सर्वेषान्तु प्रशस्यते ॥ १५ ॥ ‘भोजस्तु’ जाङ्गलादीनां त्रिविध

युक्तिकल्पतरौ— ये जन्तवो दक्षिण-पूर्व्वसिन्धु,— कच्छेवने वा प्रसव(र)न्ति सूक्ष्माः । शुक्लातिशुक्लं प्रसवन्ति तन्तुं ; ते ब्राह्मणाः मुख्यतमाः प्रदिष्टाः ॥ २० ॥ ये जन्तवः पश्चिम-सिन्धुकच्छे, वनेऽथवाऽनूप मही-प्रदेशे । आपीत-शुक्लं प्रसबन्ति तन्तुं ; तेऽमी विशः मुख्यतमाः प्रदिष्टाः ॥ २१ ॥ ये जन्तवः सर्व्वसमुद्रकच्छे, वनेऽथ साधारण भू-प्रदेशे । नानाकृतिन्ते प्रसवन्ति तन्तुं ; गुरुं गरिष्ठाकृतयो हि शूद्राः ॥ २२ ॥ ब्रह्म-क्षत्रिय-विट्-शूद्र-संज्ञकानि यथाक्रमम् । वस्त्राणि तेभ्यो जायन्ते यथापूर्व्वं शिवानि च ॥ २३ ॥ एकजातिभवं वस्त्रमुत्तमं संप्रचक्षते । द्विजाति-सम्भवं मध्यं त्रैजातं मध्यमं विदुः ॥ २४ ॥ चतुर्जातं हि कौषेयं कदाचिदपि नाचरेत् । चत्वारि तेषां नश्यन्ति आयुः कीर्त्तिः कुलम्बलम् ॥ २५ ॥ नानावर्णाकृतिन्वेषां शिल्पिनः कथयन्ति हि । बहुकार्पास-सूत्रोक्तं(त्यं) कार्पासमिति गद्यते ॥ २६ ॥ रूपसौक्ष्म्यादि भेदेन तस्यानेकविधो भवेत् । तद्वस्त्रं सर्वयोग्यं हि सर्वेषामिति सम्मतम् ॥ २७ ॥ वृक्षत्वक्-सम्भवं वाच्यं तज्ज्ञेयं द्विविधं पुनः । जाङ्ग्लानूपसामान्यो-द्देशो यो हि त्रिधोदितः ॥ २८ ॥ तत्र मुख्यप्र-देशे तु ये मुख्या अपि पादपाः ।

वस्त्रादियुक्तिः । ८३ तस्य त्वक् सम्भवं वस्त्रं विविधानां महीभुजाम् ॥ २६ ॥ ते ब्रह्म-क्षत्रजात्यादि-भेदाज्ज्ञेयाश्चतुर्विधाः । छलनी चतुर्विधा तेषां तनुः स्थूलाः मृदुः खराः ॥ ३० ॥ चतुर्विधानां भूपानां क्रमशः संप्रकाशिताः । अत्रापि नानाकलिता ज्ञेया शिल्पि-विनिर्मिताः ॥ ३१ ॥ जन्तुलोमोद्भवं वस्त्रं लोमजं नाम कीर्त्यते । मृगादयस्तु ते ब्रह्म-क्षत्र-विट्-शूद्र संज्ञकाः ॥ ३२ ॥ सूक्ष्मरोमा सुखस्पर्शः कोमलाङ्गस्तु यद्भवेत् । ब्रह्म-जातिरयं जन्तुरस्य वस्त्रं गुणोत्तरम् ॥ ३३ ॥ स्थूलरोमा मृदुस्पर्शः क्षत्रियः सोऽपि निर्भयः । सूक्ष्मरोमा खरस्पर्शः शूद्र-सञ्जः(ङ्गः) सुखच्छिदः ॥ ३४ ॥ यथापूर्वं गुणयुता चिरसंस्थान-संस्थिताः । ब्राह्मणो मलयामेरो हिमाद्रावपि जायते ॥ ३५ ॥ क्षत्रियः पश्चिमे देशे वैश्यः पूर्वदिशिस्थितः । शूद्रः सर्वत्र जायेत प्रायसो वा युगक्रमात् ॥ ३६ ॥ एकजाति-भवं भद्रं द्वेजातं सुखसम्पदे । त्रिचतुर्जाति-सम्भूतं लोमजं न सुखावहम् ॥ ३७ ॥ इत्थं निश्चित्य यो वस्त्रं परिधातुर्महीपतेः । तस्यायुश्च कुलं वीर्यं वैपरोत्य मतोऽन्यथा ॥ ३८ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ-(इत्युपकरणयुक्तिः) वस्त्रोद्देशः ॥ —*—

८४ युक्तिकल्पतरौ— अथालङ्कार-युक्तिः । तद्धारण-दिनमुच्यते । रेवत्यश्विधनिष्ठासु हस्तादिष्वपि पञ्चसु । गुरुशुक्रबुधस्याह्नि वस्त्रालङ्कार-धारणम् ॥ ३९ ॥ अनिष्टेष्वपि निर्दिष्टं वस्त्रालङ्कार-धारणम् । उद्वाहे राजसम्माने ब्राह्मणानाञ्च सम्मते ॥ ४० ॥ शिरस्थं मुकुटं हारः कुण्डलं चाङ्गदन्तथा । कङ्कणं वालकञ्चैव मेखलाष्टाविति क्रमात् ॥ ४१ ॥ प्रधानभूषणान्येषु यथास्वं(१)याति निश्चयः ? । पद्मरागश्च वस्त्रञ्च विजयो गोविद(२)स्तथा ॥ ४२ ॥ मुक्ता-वैदूर्य्य नीलञ्च यथा मरकतं क्रमात् । आदित्यादि-दशाजानां सर्व्व-सम्पत्ति-दायकाः ॥ ४३ ॥ सुवर्णेनापि घटना सर्वेषामुपयुज्यते । प्रधान-भूषणेष्वेव मप्रधानेन निर्णयः ॥ ४४ ॥ प्रधान-भूषणं प्रायः(३)शिरसोह्यभिधीयते । तस्य प्रधानभूतत्वा दित्याह 'भृगु नन्दनः' * ॥ ४५ ॥ सुखदा मणयः (४) शुद्धा दुःखदा दोष-शालिनः । अतो मणीनां वक्ष्यामि लक्षणानि यथाक्रमम् ॥ ४६ ॥ [ इत्यलङ्कार-धृतिनियमः ॥ ] ( १ ) यथाश्वन् तानि इति (क)—(ग) पुस्तक पाठः । ( २ ) गोविदास्तथा इति (क) पुस्तक पाठः । ( ३ ) -प्राय इतःपरं श्लोकार्द्धं (ग) पुस्तके नास्ति । ( ४ ) मुनयः इति (ग) पुस्तक पाठः ।

  • भार्गवः शुक्राचार्य्यः शुक्रनीति-प्रणेतेति यावत् । तस्मिन्नपि शुक्रनीतौ विषयोऽयमस्ति ।

अलङ्कारधृतियुक्तिः । ८५ अथ वज्रलक्षणानि * । गरुड़पुराणे,— वच्मि परोक्षां रत्नानां वलो † नामाऽसुरोऽभवत् । इन्द्राद्या निर्जितास्तेन निर्जेतुं तैर्न शक्यते ॥ ४७ ॥ वरव्याजेन पशुतां याचितः ससुरैर्मखे (५) । वलो लोकापकाराय देवानां हितकाम्यया ॥ ४८ ॥ तस्य सत्व-विशुद्धस्य सुविशुद्धेन कर्मणा । कायस्यावयवाः सर्वे रत्न-वौजत्वमाप्नुयुः ॥ ४६ ॥ देवानामथयक्षाणां सिद्धानां पवनाशिनाम् । रत्न-वौजः स्वयं ग्राहः समहानभवत् तदा ॥ ५० ॥ ततः संपततां वेगाद्विमानेन विहायसा । यद्वै पपात रत्नानां वोजं क्वचन किञ्चन ॥ ५१ ॥ इत्यादि बाहुल्यन्तथा। —— अथ गणना । विष्णुधर्मोत्तरे,— वज्रं मरकतञ्चैव पद्मरागश्च मौक्तिकम् । इन्द्रनीलं महानीलं वैदूर्य्यं गन्धसंज्ञकम् () ॥ ५२ ॥ ( ५ ) ससुवै मुखे इति (क)-(ग) पुस्तक पाठः ।

  • तन्त्रसारेऽन्यथास्ति,— मुक्तामाणिक्य वैदूर्य-गोभेदान् वज्रविद्रुमौ । पुष्यरागं मरकतं नीलञ्चे ति यथाक्रमम् ॥
  • अग्निपुराण-शुक्रनीति-बृहत्संहिता-गरुड़पुराण-अगस्तिमंत-भावप्रकाशादिषुवज्रमुक्ता- दीनां वृत्तमस्ति । † वलीनामासुरः, तथाच मार्कण्डेयपुराणे—‘‘बलवान् बलसम्भृतः’’ इति ।

८६ युक्तिकल्पतरौ— चन्द्रकान्तं सूर्य्यकान्तं स्फाटिकं पुलकन्तथा । कर्केतं पुष्परागञ्च तथा ज्योतीरसं द्विज ! ॥ ५३ ॥ स्फाटिकं राजव(T)र्त्तञ्च तथाराजमयं शुभम् । सौगन्धिकं तथा गन्धं (ञ्च) शङ्खं ब्रह्ममयन्तथा ॥ ५४ ॥ गोमेदं रुधिराख्यञ्च तथा भल्लातकं द्विज । धूली मरकतञ्चैव तुत्थकं सीसमेव च ॥ ५५ ॥ पौलुं(तं) प्रवालकञ्चैव गिरिवज्रञ्चभास्करम् (६) । भुजङ्गममणिञ्चैव तथा वज्रं मणिः शुभः । तित्तिरञ्च (७) तथा पौत्तं(तं) भ्रामरञ्च तथोत्पलम् ॥ ५६ ॥ वज्रान्येतानि सर्वाणि धार्य्याण्येव महीभृता * । सुवर्ण-प्रतिबद्धानि जयारोग्य-समृद्धये ॥ ५७ ॥ — * — तत्रादौ पद्मराग-परीक्षा । सिंहले तु भवेद्रक्तं पद्मरागमनुत्तमम् । पीतं काल(ण)पुरोद्भूतं कुरुविन्दमिति स्मृतम् ॥ ५८ ॥ अशोकपल्लवच्छायममुं(नुं) सौगन्धिकं विदुः । तुम्बूरेच्छाययानीलं नीलगन्धि-प्रकीर्त्तितम् ॥ ५९ ॥ उत्तमं सिंहलोद्भूतं निकृष्टं तुम्बुरोद्भवम् । मध्यजं(म) मध्यमं ज्ञेयं माणिक्यं क्षेत्रभेदतः ॥ ६० ॥ ( ६ ) भार्गव, (भाङ्गुरम्) इति (ख) पुस्तक पाठः । ( ७ ) तित्तिभञ्चेति (ख) पुस्तक पाठः ।

  • “द्विपेन्द्रजीमूतवराहशङ्खमतस्या हि शुक्त्युद्भव-वेणुजानि मुक्ताफलानि”... इति मल्लिनाथः ॥

अलङ्कारधृतियुक्तिः । ८७ तथा च,— बन्धूक गुञ्जो सकलेन्द्रगोप, जवासनासृक्समवर्णशोभा । भ्राजिष्णवो दाड़िम-वौजवर्णा ; स्तथापरे किंशुकपुष्पभासाः ॥ ६१ ॥ सिन्दूरपद्मोत्पलकुङ्कुमानां, लाक्षारसस्यापि समानवर्णाः । सान्द्रे निरागे प्रभया स्वयैव ; भान्ति खलक्ष्मग्ना स्फुटमध्यशोभाः ॥ ६२ ॥ भानोः सुभासा मनू(८) बोधयोग, मासाद्यरश्मि-प्रकरेण दूरं ; पार्श्वानि सर्व्वानुप रञ्जयन्ति ; गुणोपपन्नाः स्फटिक प्रसूताः ॥ ६३ ॥ कुसुम्भनीलद्युति-रागमिश्राः, प्रत्यग्ररक्ताम्बर(स) तुल्यभासः । तथापरे रुत्तर-कण्टकारी ; पुष्पाचिषो हिङ्गुलकत्विषोऽन

८८ युक्तिकल्पतरौ— आनीलरक्तोत्पल-चारु भासः ; सौगन्धिकाख्या मणयो (६) भवन्ति ॥ ६६ ॥ यो मन्दराजः कुरुविन्दजेषु, स एव जातः स्फटिकोद्भवेषु । निरर्चिषोऽन्तर्बहुलो भवन्ति ; प्रभाव-वन्तो हि न तत् समानाः ॥ ६७ ॥ येतु वारण-गङ्गायां जायन्ते कुरुविन्दकाः । पद्मरागा घनं रागं बिभ्राणाः स्वस्फुटार्चिषः ॥ ६८ ॥ वर्णानुयायिनस्तेषां मभ्रं(द्र) देशास्तथापरे । जायन्ते यत्र ये केचित् मूल्यलेशमवाप्नुयुः (१०) ॥ ६६ ॥ तथैव स्फाटिकोत्यानां देशे तुम्बु रु संज्ञके । समरागाः प्रजायन्ते तेषान्तु कथितन्त्विदम् ॥ ७० ॥ तथा च,— माणिक्यस्य प्रवक्ष्यामि यथाजाति-चतुष्टयम् । ब्रह्म-क्षत्रिय-वैश्याश्च शूद्रश्चाथ यथाक्रमम् ॥ ७१ ॥ रक्तश्वेतो भवेद्विप्रस्ततिरक्तश्च क्षत्रियः । रक्तपीतो भवेद्वैश्यो रक्तनीलस्तथान्यजः ७२ ॥ पद्मरागो भवेद्विप्रः कुरुविन्दस्तु वाहुजः । सौगन्धिको भवेद्वैश्यः मांस-खण्डस्तथान्यजः ॥ ७३ ॥ शोणपद्म-समाकारः खदिराङ्गार-सप्रभः । पद्मरागो द्विजः प्रोक्तः छाया भेदेन सर्वदा ॥ ७४ ॥ गुञ्जा-सिन्दुर-बन्धूक-नागरङ्ग-समप्रभः । दाड़िमी-कुसुमाभासः कुरुविन्दस्तु वाहुजः ॥ ७५ ॥


(६) मलयो भवन्ति इति (ग) पुस्तक पाठः । (१०) समयाप्नुयुः इति (क)-(ग) पुस्तक पाठः ।

वज्रादियुक्तिः । ८१ हिङ्गलाशोक-पुष्पाभ मीषत्पीतन्तु लोहितम् । जपालाक्तारस-प्रायं वैश्यं सौगन्धिकं विदुः ॥ ७६ ॥ आरक्त-कान्तिहीनश्च चिक्रणश्च विशेषतः । मांसखण्डसमाभासोऽन्त्यजः पापनाशनः ॥ ७७ ॥ मांसखण्डस्तु नीलगन्धेः संज्ञा * । ---------------- ०० ---------------- अथ दोषाः [तेषाम्वज्रादीनाम् ] । माणिक्यस्य समाख्याता अष्टौ दोषा मुनीश्वरैः । विच्छायञ्च वि(द्वि)रूपञ्च सम्भेदः कर्करन्तथा ॥ ७८ ॥ अशोभनं कोकिलञ्च जलं धूम्राभिधञ्च वै । गुणाश्चत्वार आख्याताश्छायाः षोडशकीर्त्तिताः ॥ ७९ ॥ छायास्तु पूर्वोक्ता एव ग्राह्याः । छाया दितयसम्बन्धाद् द्विच्छायं बन्धुनाशनम् । द्विरूपं द्विपदन्तेन माणिक्येन पराभवः ॥ ८० ॥ सम्भेदो भिन्नमित्युक्तं शस्त्रघात-विधायकाः । कर्करं कर्करायुक्तं पशुबन्धु-विनाशकृत् ॥ ८१ ॥ दुग्धेनैव समालिप्तं लम्बनौ पुटमुच्यते । अशोभनं समुद्दिष्टं माणिक्यं बहुदुःखकृत् ॥ ८२ ॥ मधु-विन्दु-समच्छायं कोकिलं परिकीर्त्तितम् । आयुर्लक्ष्मीं यशो हन्ति सदोषं तनुधारयेत् (१४) ॥ ८३ ॥ रागहीनं जलं प्रोक्तं धनधान्यापवादकृत् । धूम्रं धूम्रसमाकारं वैद्युतं भयमावहेत् ॥ ८४ ॥


( १४ ) तनूराधयेत् (वाधयेत्)) इति (क)-(ग) पुस्तक पाठः ।

  • मांसखण्डरूपत्वात्तस्य नीलगन्धे मांसखण्ड इत्यभिधानम् । १२

८० युक्तिकल्पतरौ— तथा,— शोभाद्वितयवन्तो ये मणयः च्छित्ति-कारकाः (१५) । उभयत्र पदं येषां तेन च स्यात् पराभवः ॥ ८५ ॥ भिन्नेन युद्धे मृत्युः स्यात्कर्करं धन-नाशकृत् । दुग्धेनैव समालिप्तः पुटके यस्तु सम्भवेत् ॥ ८६ ॥ दुःखकृत्स समाख्यातो न नृपैः रक्षणीयकः । मधुविन्दु-समा शोभा कोकिलानां प्रकीर्त्तिताः ॥ ८७ ॥ तेषाञ्च बहुभेदाः स्युः न ते धार्य्याः कदाचन ॥ ८८ ॥ अथ गुणाः [तेषाञ्चवज्रादीनाम्] । गुरुत्वं स्निग्धतां चैव वैमल्य(न्य)मतिरक्तता । वर्णादिकं गुरुत्वञ्च स्निग्धता च तथाऽच्छता ॥ अर्चिष्मत्तामहत्ता च मणीनां गुणसंग्रहः ॥ ८६ ॥ अथ फलम् । ये कर्कराः छिद्रमयोपदिग्धाः, प्रभाविमुक्ताः परुषा विवर्णाः । न ते प्रशस्ता मणयो भवन्ति ; समासतो जातिगुणैः समस्तैः ॥ ९० ॥ दोषोपसृष्टं मणिमप्रबोधा, विभर्त्ति यः कश्चन कश्चिदेकम् । तं(तद्) बन्धुदुःखाय सबन्धुवित्त- नाशादयो दोष-गुणा भजन्ते ॥ ६१ ॥ सपत्न-मध्ये हि कृताधिवासम्, प्रमादवृत्तावपि वर्त्तमानम् ।


( १५ ) क्षतिकारकाः इति (क)-(ग) पुस्तक पाठः ।