भारतकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 126, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 126

८६ युक्तिकल्पतरौ— चन्द्रकान्तं सूर्य्यकान्तं स्फाटिकं पुलकन्तथा । कर्केतं पुष्परागञ्च तथा ज्योतीरसं द्विज ! ॥ ५३ ॥ स्फाटिकं राजव(T)र्त्तञ्च तथाराजमयं शुभम् । सौगन्धिकं तथा गन्धं (ञ्च) शङ्खं ब्रह्ममयन्तथा ॥ ५४ ॥ गोमेदं रुधिराख्यञ्च तथा भल्लातकं द्विज । धूली मरकतञ्चैव तुत्थकं सीसमेव च ॥ ५५ ॥ पौलुं(तं) प्रवालकञ्चैव गिरिवज्रञ्चभास्करम् (६) । भुजङ्गममणिञ्चैव तथा वज्रं मणिः शुभः । तित्तिरञ्च (७) तथा पौत्तं(तं) भ्रामरञ्च तथोत्पलम् ॥ ५६ ॥ वज्रान्येतानि सर्वाणि धार्य्याण्येव महीभृता * । सुवर्ण-प्रतिबद्धानि जयारोग्य-समृद्धये ॥ ५७ ॥ — * — तत्रादौ पद्मराग-परीक्षा । सिंहले तु भवेद्रक्तं पद्मरागमनुत्तमम् । पीतं काल(ण)पुरोद्भूतं कुरुविन्दमिति स्मृतम् ॥ ५८ ॥ अशोकपल्लवच्छायममुं(नुं) सौगन्धिकं विदुः । तुम्बूरेच्छाययानीलं नीलगन्धि-प्रकीर्त्तितम् ॥ ५९ ॥ उत्तमं सिंहलोद्भूतं निकृष्टं तुम्बुरोद्भवम् । मध्यजं(म) मध्यमं ज्ञेयं माणिक्यं क्षेत्रभेदतः ॥ ६० ॥ ( ६ ) भार्गव, (भाङ्गुरम्) इति (ख) पुस्तक पाठः । ( ७ ) तित्तिभञ्चेति (ख) पुस्तक पाठः ।

  • “द्विपेन्द्रजीमूतवराहशङ्खमतस्या हि शुक्त्युद्भव-वेणुजानि मुक्ताफलानि”... इति मल्लिनाथः ॥