भारतकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 128, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 128

८८ युक्तिकल्पतरौ— आनीलरक्तोत्पल-चारु भासः ; सौगन्धिकाख्या मणयो (६) भवन्ति ॥ ६६ ॥ यो मन्दराजः कुरुविन्दजेषु, स एव जातः स्फटिकोद्भवेषु । निरर्चिषोऽन्तर्बहुलो भवन्ति ; प्रभाव-वन्तो हि न तत् समानाः ॥ ६७ ॥ येतु वारण-गङ्गायां जायन्ते कुरुविन्दकाः । पद्मरागा घनं रागं बिभ्राणाः स्वस्फुटार्चिषः ॥ ६८ ॥ वर्णानुयायिनस्तेषां मभ्रं(द्र) देशास्तथापरे । जायन्ते यत्र ये केचित् मूल्यलेशमवाप्नुयुः (१०) ॥ ६६ ॥ तथैव स्फाटिकोत्यानां देशे तुम्बु रु संज्ञके । समरागाः प्रजायन्ते तेषान्तु कथितन्त्विदम् ॥ ७० ॥ तथा च,— माणिक्यस्य प्रवक्ष्यामि यथाजाति-चतुष्टयम् । ब्रह्म-क्षत्रिय-वैश्याश्च शूद्रश्चाथ यथाक्रमम् ॥ ७१ ॥ रक्तश्वेतो भवेद्विप्रस्ततिरक्तश्च क्षत्रियः । रक्तपीतो भवेद्वैश्यो रक्तनीलस्तथान्यजः ७२ ॥ पद्मरागो भवेद्विप्रः कुरुविन्दस्तु वाहुजः । सौगन्धिको भवेद्वैश्यः मांस-खण्डस्तथान्यजः ॥ ७३ ॥ शोणपद्म-समाकारः खदिराङ्गार-सप्रभः । पद्मरागो द्विजः प्रोक्तः छाया भेदेन सर्वदा ॥ ७४ ॥ गुञ्जा-सिन्दुर-बन्धूक-नागरङ्ग-समप्रभः । दाड़िमी-कुसुमाभासः कुरुविन्दस्तु वाहुजः ॥ ७५ ॥


(६) मलयो भवन्ति इति (ग) पुस्तक पाठः । (१०) समयाप्नुयुः इति (क)-(ग) पुस्तक पाठः ।