भारतकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 129, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 129

वज्रादियुक्तिः । ८१ हिङ्गलाशोक-पुष्पाभ मीषत्पीतन्तु लोहितम् । जपालाक्तारस-प्रायं वैश्यं सौगन्धिकं विदुः ॥ ७६ ॥ आरक्त-कान्तिहीनश्च चिक्रणश्च विशेषतः । मांसखण्डसमाभासोऽन्त्यजः पापनाशनः ॥ ७७ ॥ मांसखण्डस्तु नीलगन्धेः संज्ञा * । ---------------- ०० ---------------- अथ दोषाः [तेषाम्वज्रादीनाम् ] । माणिक्यस्य समाख्याता अष्टौ दोषा मुनीश्वरैः । विच्छायञ्च वि(द्वि)रूपञ्च सम्भेदः कर्करन्तथा ॥ ७८ ॥ अशोभनं कोकिलञ्च जलं धूम्राभिधञ्च वै । गुणाश्चत्वार आख्याताश्छायाः षोडशकीर्त्तिताः ॥ ७९ ॥ छायास्तु पूर्वोक्ता एव ग्राह्याः । छाया दितयसम्बन्धाद् द्विच्छायं बन्धुनाशनम् । द्विरूपं द्विपदन्तेन माणिक्येन पराभवः ॥ ८० ॥ सम्भेदो भिन्नमित्युक्तं शस्त्रघात-विधायकाः । कर्करं कर्करायुक्तं पशुबन्धु-विनाशकृत् ॥ ८१ ॥ दुग्धेनैव समालिप्तं लम्बनौ पुटमुच्यते । अशोभनं समुद्दिष्टं माणिक्यं बहुदुःखकृत् ॥ ८२ ॥ मधु-विन्दु-समच्छायं कोकिलं परिकीर्त्तितम् । आयुर्लक्ष्मीं यशो हन्ति सदोषं तनुधारयेत् (१४) ॥ ८३ ॥ रागहीनं जलं प्रोक्तं धनधान्यापवादकृत् । धूम्रं धूम्रसमाकारं वैद्युतं भयमावहेत् ॥ ८४ ॥


( १४ ) तनूराधयेत् (वाधयेत्)) इति (क)-(ग) पुस्तक पाठः ।

  • मांसखण्डरूपत्वात्तस्य नीलगन्धे मांसखण्ड इत्यभिधानम् । १२