युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 130, कुल 278 में से
संदर्भ में पढ़ें८० युक्तिकल्पतरौ— तथा,— शोभाद्वितयवन्तो ये मणयः च्छित्ति-कारकाः (१५) । उभयत्र पदं येषां तेन च स्यात् पराभवः ॥ ८५ ॥ भिन्नेन युद्धे मृत्युः स्यात्कर्करं धन-नाशकृत् । दुग्धेनैव समालिप्तः पुटके यस्तु सम्भवेत् ॥ ८६ ॥ दुःखकृत्स समाख्यातो न नृपैः रक्षणीयकः । मधुविन्दु-समा शोभा कोकिलानां प्रकीर्त्तिताः ॥ ८७ ॥ तेषाञ्च बहुभेदाः स्युः न ते धार्य्याः कदाचन ॥ ८८ ॥ अथ गुणाः [तेषाञ्चवज्रादीनाम्] । गुरुत्वं स्निग्धतां चैव वैमल्य(न्य)मतिरक्तता । वर्णादिकं गुरुत्वञ्च स्निग्धता च तथाऽच्छता ॥ अर्चिष्मत्तामहत्ता च मणीनां गुणसंग्रहः ॥ ८६ ॥ अथ फलम् । ये कर्कराः छिद्रमयोपदिग्धाः, प्रभाविमुक्ताः परुषा विवर्णाः । न ते प्रशस्ता मणयो भवन्ति ; समासतो जातिगुणैः समस्तैः ॥ ९० ॥ दोषोपसृष्टं मणिमप्रबोधा, विभर्त्ति यः कश्चन कश्चिदेकम् । तं(तद्) बन्धुदुःखाय सबन्धुवित्त- नाशादयो दोष-गुणा भजन्ते ॥ ६१ ॥ सपत्न-मध्ये हि कृताधिवासम्, प्रमादवृत्तावपि वर्त्तमानम् ।
( १५ ) क्षतिकारकाः इति (क)-(ग) पुस्तक पाठः ।