भारतकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 131, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 131

वज्रादियुक्तिः । ८१ न पद्मरागस्य महागुणस्य ; भर्त्तारमापत् समुपैति काचित् ॥ ६२ ॥ दोषोपसर्ग-प्रभवाश्च ये ते, नोपद्रवास्तं समभिद्रवन्ति । गुणैः समृद्धैः सकलैरुपेतम् ; यः पद्मरागं प्रयतो विभर्त्ति ॥ ६३ ॥ वालार्क-करसंस्पर्शाद् यः शिखां लोहिताम्बमेत् (१६) । रञ्जयेदाश्रमञ्चापि स महा गुण उच्यते ॥ ६४ ॥ दुग्धे शतगुणे क्षिप्ता रञ्जयेद् स समन्ततः । वमेच्छिखां लोहिताम्बा पद्मरागः स उत्तमः ॥ ६५ ॥ अन्धकारे महाघोरे यो न्यस्तः सन् महामणिः । प्रकाशयति सूर्याभः स श्रेष्ठः पद्मरागकः ॥ ६६ ॥ पद्मकोषे तु यन्न्यस्तं विकाशयति तत्क्षणात् । पद्मरागवरो ह्येषः देवानामपि दुर्लभः ॥ ६७ ॥ सर्वारिष्ट-प्रशमनाः सर्व्वसम्पत्ति-दायकाः । चत्वारस्तु मयोद्दिष्टा गुणिनश्च यथोत्तरम् ॥ ६८ ॥ यो मणिर्द्दृश्यते दूराद् ज्वलदग्निसमच्छविः । वंश-कान्तिः स विज्ञेयः सर्व्वसम्पत्ति-दायकः ॥ ६६ ॥ पञ्चसप्त-नव विंशतिः राग-सकलः खलु (स्वर्णं) वस्त्रे । वर्ज्जयेद्धमति वा करजालं उत्तरोत्तर-महागुणिनस्ते ॥ १०० ॥ नीलौरसं दुग्धरसं जलञ्च, ये रञ्जयन्ति द्विशतं प्रमाणम् । ते ते यथा पूर्व्वमति प्रशस्ताः ; सौभाग्यसम्पत्ति-विधान-दायकाः ॥ १ ॥ ( १६ ) लोहिताम्बसेत् (च्छुसेत्) इति (क) पुस्तक पाठः ।