युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 132, कुल 278 में से
संदर्भ में पढ़ें९२ युक्तिकल्पतरौ— गुञ्जाफल-प्रमाणन्तु दशसप्तद्विगुञ्जकान् । पद्मरागस्तु नयति यथापूर्वं महागुणः ॥ २ ॥ क्रोष्टुकोण फलाकारान् द्वादशाष्टादिगुञ्जकान् । . पद्मरागस्तु नयति यथापूर्वं महागुणः * ॥ ३ ॥ बदरीफल तुल्यो यः सुर दिग्-वसु-मासकः । धात्रीफलञ्च त्रिंशच्च विंशति-द्वाष्ट-मासकः ॥ ४ ॥ तथाक्षफल तुल्यो यः वह्निपञ्चैक मासकः । ताम्बुलफलमानो यश्चतुस्त्रि-दिक-तोलकः ॥ ५ ॥ विल्वी(ल्बो)फलसमाकार-वसु-षट्दश-तोलकः । अतःपरं प्रमाणेन मानेन च न लक्ष्य(भ्य)ते ॥ ६ ॥ यदि लब्धे(भ्ये)त पुण्येन तदा सिद्धिमवाप्नुयात् । केचिच्चारुतराः सन्ति जात्यानां प्रतिरूपकाः ॥ ७ ॥ विजातयः प्रयत्नेन विद्वांस्तान् मूल(स)माहरेत् (१८) ॥८॥ कोङ्कनकाः (१९) सिंहलदेशोत्थ-मुक्तमालीयाः । श्रीपर्णीकाश्च सदृशा विजातयः पद्मरागाणाम् ॥ ६ ॥ तुषोपसञ्जाङ्गल(२०)माभिधानम्, मणिः स्वभावादपि तुम्बुरुत्थः। कार्णात्तथा सिंहल-देशजातम् ; मुक्ताभिधानं नभसः स्वभावात् ॥ १० ॥ श्रीपर्णीकं दीप्ति-निराकृतित्वा, द्विजाति-लिङ्गाश्रयभेद एषः ॥ ११ ॥ (१८) -स्तां नूनसमाहरेत् इति (क) पुस्तक पाठः । (१९) काङ्कनका इति (क) पुस्तक पाठः । (२०) तुषोपमर्द्धाङ्गल- इति (क)-(ग) पुस्तक पाठः ।