युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 133, कुल 278 में से
संदर्भ में पढ़ेंवज्रादियुक्तिः । ८३ तथाच,—स्नेहप्रदेहो मृदुतालघुत्वं, विजाति-लिङ्गं खलु सार्व्वजन्यम् । यः श्यामिकां पुष्यति पद्মরাगो ; यो वा तुषाणां इव चूर्ण-मध्यः ॥ १२ ॥ स्नेह-प्रदिग्धो नच यो विभाति, यो वा प्रमृज्यं(ह्यं) प्रजहाति दोषम् । आक्रान्त मूर्द्धा च तथाङ्गुलौभ्याम् ; यः कालिकां पार्श्वगता (ं) विभर्त्ति ॥ १३ ॥ संप्राप्यतां (२१) चोपपथं खवृत्तम्, विभर्त्ति यः सर्व्वगुणामतीव । तुल्य प्रमाणस्य च तुल्य जाति ; र्यो वा गुरुत्वेन भवेन्न तुल्यः ॥ १४ ॥ प्राप्यापि नानाकरदेशजातम्, ज्ञात्वा बुधो जाति गुणेन लब्धेत् ॥ १५ ॥ अप्रणश्यति सन्देहे शिलायां परिघर्षयेत् । घृष्टो योत्यन्तशोभावान् गरिमानं न मुञ्चति ॥ १६ ॥ स ज्ञेयः शुद्धजातिस्तु ज्ञेयाश्चान्ये विजातयः । स्व-जातक-संमुखेन विलिखेद्वा परस्परम् ॥ १७ ॥ वज्रं वा कुरुविन्दं वा विमुच्यान्योन्य केनचित् । न शक्यं लेखनं कर्त्तुं पद्मरागेन्द्र-नीलयोः ॥ १८ ॥ जातस्य सर्व्वेऽपि मणेर्न जातु, विजातयः कान्ति-समान-वर्णाः । तथापि नाना करणार्थमेवम् ; भेद-प्रकारः परमः प्रदिष्टः ॥ १६ ॥ (२१) प्राप्यचाक्षोपि इति (क)-(ग) पुस्तक पाठः