युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 134, कुल 278 में से
संदर्भ में पढ़ें८४ युक्तिकल्पतरौ— गुणोपपन्नेन सहावरुद्धो, मणित्वधार्य्यो विगुणेन जात्यम् । सुखं न कुर्य्यात् अपि कौस्तुभेन (१) ; विद्वान् विजातिं विभृयात् कदाचित् (२) ॥ २० ॥ चण्डाल एकोऽपि यथा विजातौन्, समेत्य भूरीन् अपहन्ति यत्नात् । तथा मणीन् भूरि गुणोपपन्नान् ; शक्नोति विद्रावयितुं विजातम् ॥ २१ ॥ —*— अथ वज्रादीनां मूल्यम् । बालार्काभिमुखं कृत्वा दर्पणे धारयेत् मणीन् । तत्र कान्तिविभागेन छायाभागं विनिर्दिशेत् ॥ २२ ॥ वज्रस्य यत् तण्डुलसंख्ययोक्तम्, मूल्यं समुन्मापित गौरवस्य । तत् पद्मरागस्य तृणान्वितस्य ; स्यान्माषकाख्या तुलितस्य मूल्यम् ॥ २३ ॥ यन्मूल्यं पद्मरागस्य सगुणस्य प्रकीर्त्तितम् । तावन्मूल्यं तथा शुद्धे कुरुविन्दे विधीयते (३) ॥ २४ ॥ सगुणे कुरुविन्दे च यावन्मूल्यं प्रकीर्त्तितम् । तावन्मूल्य-चतुर्थांशं हीनं स्याद्वै सुगन्धिके ॥ २५ ॥ ( १ ) न कौस्तुभे नापि सहावरुद्धम् इति (ग) पुस्तक पाठः । ( २ ) विद्वान् विजातिं न भृयादु घस्तं इति (क) पुस्तक पाठः । ( ३ ( तथाशुद्धैः कुरुविन्दैः इति (ख) पुस्तक पाठः ।