भारतकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 135, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 135

पद्मरागयुक्तिः । १५ यावन्मूल्यं समाख्यातं वैश्यवर्णे च सूरिभिः । तावन्मूल्यं चतुर्थांशं हीयते शूद्रजन्मनि ॥ २६ ॥ पद्मरागः पलं यस्तु धत्ते लाक्षारस-प्रभः । कार्षापण-सहस्राणि त्रिंशन्मूल्यं लभेत सः ॥ २७ ॥ इन्द्रगोपक संकाशः कर्षत्रय-धृतो-मणिः । द्वाविंशतिं सहस्राणां तस्य मूल्यं विनिर्दिशेत् ॥ २८ ॥ एकोनोनूयते यस्तु जवाकुसुम-सन्निभः । कार्षापण-सहस्राणि तस्य मूल्यं चतुर्दश ॥ २६ ॥ बालादित्य द्युति-निभं कर्षं यस्तु प्रतुल्यते । कार्षापण-शतानान्तु मूल्यं सद्भिः प्रकीर्त्तितम् ॥ ३० ॥ यस्तु दाड़िम-पुष्पाभः कर्षार्द्धेन तु सन्मितः । कार्षापण शतानान्तु विंशतिं मूल्यमादिशेत् ॥ ३१ ॥ चत्वारो माषका यस्तु रक्तोत्पल-दल-प्रभः । मूल्यं तस्य विधातव्यं सूरिभिः शत-पञ्चकम् ॥ ३२ ॥ द्विमाषको यस्तु गुणैः सर्वैरेव समन्वितः । तस्य मूल्यं विधातव्यं द्विशतं तत्त्ववेदिभिः ॥ ३३ ॥ माषकैक-मितो यस्तु पद्मरागो गुणान्वितः । शतैक-सम्मितं वाच्यं मूल्यं रत्न-विचक्षणैः ॥ ३४ ॥ अतोऽन्यून-प्रमाणास्तु(न्तु) पद्मरागा गुणोत्तराः । स्वर्ण-द्विगुण मूल्येन मूल्यं तेषां प्रकल्पयेत् ॥ ३५ ॥ कार्षापणः समाख्यातः पुराणद्वय-सम्मितः । अन्ये कुसुम्भ-पानीय-मञ्जिष्ठोदक-सन्निभाः ॥ ३६ ॥ काषाया इति विख्याताः स्फटिक-प्रभवाश्च ते । तेषां दोषान् गुणान् वापि पद्मराग-वदादिशेत् ॥ ३७ ॥ मूल्यमल्पन्तु विज्ञेयं कारणेऽल्पफलन्तथा ।