युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 136, कुल 278 में से
संदर्भ में पढ़ें८६ युक्तिकल्पतरौ— ब्रह्म-क्षत्रिय-वैश्यान्त्याश्चतुर्द्धा ये प्रकीर्त्तिताः ॥ ३८ ॥ चतुर्विधैर्नृपतिभिर्धार्याः सम्पत्ति-हेतवे । अतोऽन्यथाधृतः कुर्य्याद्रोगशोक-भयक्षयम् ॥ ३९ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ पद्मराग-परीक्षा ॥ अथ हीरकपरीक्षा * । गारुड़े,— हेम-मातङ्ग-सौराष्ट्राः पौण्ड्र-कालिङ्ग-कौशलाः । वेण्वा(ल्वा) तटाः स सौवीरा वज्रस्याष्टौ विहारकाः ॥ ४०॥ आताम्रा हिमशैलजाः शशिनिभा वेण्वातटीया मताः, सौवीरे तु सिताश्च मेघसदृशास्ताम्राश्च सौराष्ट्रजाः । कालिङ्गाः कनकावदातरुचिराः पीत-प्रभाः कौशले ; श्यामाः पुण्ड्रभवा मतङ्गविषये नात्यन्त-पोतप्रभाः ॥ ४१ ॥ कृतयुगे कलियुगे कौशले वज्र-सम्भवः हिमालये मतङ्गाद्रौ त्रेतायां कुलिशोद्भवः ॥ ४२ ॥ पौण्ड्रे च सुराष्ट्रे च द्वापरे परि-सम्भवः । वैरागरे च सौवीरे कलौ हीरक-सम्भवः ॥ ४३ ॥ पृथिव्यपो-वियत्तेजो मरुच्चैवेति पञ्चभिः । पञ्चभूतात्मकं वज्रं तैजसं प्रायसो भवेत् ॥ ४४ ॥ महापुराणं खदनं सुशोभं पार्थिवं विदुः । स्निग्धं मृदु-घनं स्वच्छमाप्यमाहुः परं बुधाः ॥ ४५ ॥
- वज्रं (हीरक)-वृत्तन्तु गरुड़पुराण-वामनपुराण-भागवत-मत्स्यपुराण-राजनिर्घण्ट- भावप्रकाशादिषु द्रष्टव्यम् ।