युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 137, कुल 278 में से
संदर्भ में पढ़ेंवज्रादियुक्तिः । ९७ विमलं शुचितीक्ष्णाग्रं वैयतं वज्रमुच्यते ॥ सुतीक्ष्णं दीप्तिमत् स्वच्छं तेजसं वज्रमुच्यते ॥ ४६ ॥ लघुतीक्ष्णः खरस्पर्शो वायव्यः परिकथ्यते । ब्रह्म-क्षत्रिय-विट्-शूद्रा भेदास्ते तु चतुर्विधाः ॥ ४७ ॥ श्वेता रक्ता तथा नीला कृष्णा छाया चतुर्विधाः । ब्रह्म-क्षत्रिय-विट्-शूद्र-जातेर्वज्रस्य विक्रमात् ॥ ४८ ॥ गारुड़े,— विप्रस्य शङ्ख-कुमुदस्फटिकावदातः, स्यात्क्षत्रियस्य शशवज्रविलोचनाभः । वैश्यस्य कान्त-कदली-दलसन्निकाशः ; शूद्रस्य धौत-करवाल-समानदीप्तिः ॥ ४६ ॥ हरित-सित-पीत-पिङ्ग-श्यामा-ताम्राः स्वभावतोरुचिराः । हरिवरुण-शक्र हुतवह-पितृपति मरुतां स्वका वर्णाः ॥ ५० ॥ द्वौ वज्रवणौँ पृथिवीपतीनाम्, सद्भिः प्रतिष्ठौ नतु सार्वजन्यौ । यः स्याज्जवाविद्रुम-भङ्गशोणो ; यो वा हरिद्रा-रससन्निकाशः ॥ ५१ ॥ ईशत्वात् सर्ववर्णानां गुणवत् सार्ववर्णिकम् । कामतो धारयेद् राजा नत्वन्योन्यं कथञ्चन ॥ ५२ ॥ अथ गुणाः—[ गारुड़े ] । कोट्यः पाश्र्वानि धाराश्च षडष्टौ द्वादशेति च । उत्तुङ्ग सम तीक्ष्णाग्रा वज्रस्याकरजा गुणाः ॥ ५३ ॥ षट्कोणकं लघुत्वञ्च समाष्टादश(ल)ता तथा । तीक्ष्णाग्रता निर्मलत्व मेते पञ्चगुणा मताः ॥ ५४ ॥ १३