युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 138, कुल 278 में से
संदर्भ में पढ़ेंDigitized By Siddhanta eGangotri Gyaan Kosha ६८ युक्तिकल्पतरौ— अत्यर्थं लघुवर्णतश्च गुणवत् पार्श्वेषु सम्यक्स्थितम्, रेखाविन्दुकलङ्क-काकपदक-त्रासादिभिर्वर्जितम् । लोकेऽस्मिन् परमाणुमात्रमपि यद् वज्रं क्वचिद् दृश्यते ; तस्मिन्देवसमाश्रयो ह्यवितथं तीक्ष्णाग्रधारं यदि ॥ ५५ ॥ षट्कोटि-शुद्धममलं स्फुटतीक्ष्णधारम्, वर्णान्वितं लघुसुपार्श्वमपेत-दोषम् । इन्द्रायुधांशु-विसृति छुरितान्तरीक्षम् ; एवंविधं भुवि भवेत् सुलभं न वज्रम् ॥ ५६ ॥ प्रसुते काण्डसम्भिन्नं शक्रायुध-समां शिखाम् । अत्यन्त लघुतीक्ष्णाग्रं तद्वज्रं वज्र-धारणम् ॥ ५७ ॥ विष्णुधर्मोत्तरे, — ( अग्निपुराणे च ) । अम्भस्तरति यद्वज्रं अभेद्यं विमलञ्च यत् । सत्कोणं शक्रचापाभं लघुचार्कनिभं शुभम् ॥ तथा संशुद्ध षट्कोणं लघु भार्गव-नन्दन ! ॥ ५८ ॥ प्रभा च शक्रचापाभा यस्यार्काभिमुखो भवेत् । तद्वज्रं धारयेद्राजा सर्वान् जयति शात्रवान् ॥ ५९ ॥ तथा च,— यस्तु वारि-भवो नाम दुर्वापत्र-जलच्छविः । सुवर्णमात्रं तुलया (१) तद्वज्रं कोटि-भाजनम् ॥ ६० ॥ ऊर्द्धं निवारयेद्वज्रमधः सर्पान्निवारयेत् । रात्रौ निवारयेद्भूतान् हीरकस्यैव धारणात् ॥ ६१ ॥ तीक्ष्णाग्रं विमलमपेत सर्वदोषम्, धत्ते यः प्रयततनुः सदैव वज्रम् । ( १ ) गणयेत् इति (क) पुस्तक पाठः । CC-0. Gurukul Kangri Collection, Haridwar.