युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 139, कुल 278 में से
संदर्भ में पढ़ेंवज्रादि-युक्तिः । ९९ वृद्धिस्तं प्रतिदिनमेति यावदायुः ; श्रीसम्पद्युत धन-धान्य-गो-पशूनाम् ॥ ६२ ॥ व्यालवह्नि-विषव्याघ्र तस्कराद्यभयानि च । दूरादेव निवर्त्तन्ते कर्म्माण्यथर्व्वणानि च ॥ ६३ ॥ यत्तु सर्वगुणैर्युक्तं वज्रं तरति वारिणि । रत्नवर्गे समस्तेऽपि तस्य धारणमिष्यते ॥ ६४ ॥ यद्यपि विशीर्ण-कोटिः सविन्दु-रेखान्वितो विवर्णो । तदपि च धनधान्य-सुतान् करोति सेन्द्रायुधो वज्रः ॥ ६५ ॥ सौदामिनी-विस्फूरिताभिरामम्, राजा यथोक्तं कुलिशं दधानः । पराक्रमाक्रान्त-पर-प्रतापः ; समस्तसामन्त-भुवं भुनक्ति ॥ ६६ ॥ (इति गारुडे) । समस्तां पृथिवीं पाति पार्थिवस्य विधारणात् । तृप्तिर्लक्ष्मीर्यशः कीर्त्तिरायुर्वज्रस्य धारणात् ॥ ६७ ॥ उत्साहः प्रियतुष्टित्वं विप्रणाशनमेव च । तथा सम्पत्तयः सर्वा वैयेते परिधारिते (२) ॥ ६८ ॥ प्रतापः शौर्य्यमुत्साहः तैजसस्य विधारणात् । यज्ञाज्ज्ञानं तपोभिश्च यदाप्नोति तदाप्नुयात् ॥ ६९ ॥ गुणयुक्तस्य वज्रस्य विप्रजातेर्विधारणात् । जपः पराक्रमस्तस्य शत्रुनाशश्च जायते ॥ ७० ॥ गुणवत्-क्षत्रजातीनां वज्रं वसति यद्गृहे । कलाकुशलताद्रव्यं प्रज्ञा क्षेमं यशो महत् ॥ ७१ ॥ गुणिनः परिरत्नस्य वैश्यजातेर्विधारणात् । परोपकारिता क्षेमं धन-धान्य-समृद्धयः ॥ ७२ ॥ (२) परिधारणात् इति (ख) पुस्तक पाठः ।