युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 140, कुल 278 में से
संदर्भ में पढ़ें१०० युक्तिकल्पतरौ- गुणयुक्तस्य वज्रस्य शूद्रजातेर्विधारणात् । अन्यच्चतुर्विधं वज्रं प्रवदन्ति पुरातनाः ॥ ७३ ॥ हिमकुन्देन्दुधवलं षट्कोणाष्टदलन्तथा । तीक्ष्णं वारिभवं वज्रं घनशब्देति कान्तिमत् ॥ ७४ ॥ अन्धकारे च दीप्येत तज्ज्ञेयं वज्रधारणम् । गुणाढ्यं तीक्ष्णधारं यत् सर्प-दर्प-निवारणम् ॥ ७५ ॥ तस्य धारणेतो येन विषरोगः प्रशाम्यति । सूर्यकोटि-प्रतीकाशं चन्द्रकोटि-सुशीतलम् ॥ ७६ ॥ अन्धकार-हरं वज्रं विज्ञेयं महदुत्तमम् । तस्य धारणतोयेन सर्वरोगः प्रशाम्यति ॥ ७७ ॥ तप्ते दुग्धे जले तैले घृते क्षिप्तोऽपि यः परि । शीततां नावहेत् (३) सद्यः संज्ञेयः सुरदुर्लभः ॥ ७८ ॥ एषामन्यतरं लब्ध्वा नृपः सुखमवाप्नुयात् । तत्तु त्रिभुने नास्ति यन्न धारयते नृपः ॥ ७६ ॥ अथ दोषाः । मलो विन्दुस्तथा रेखा त्रासः काकपदस्तथा । एते दोषाः समाख्याताः पञ्चवज्रेषु कोविदैः ॥ ८० ॥ मले मलिनता ख्याता विन्दौ सर्वार्थ-नाशनम् । रेखायां द्रंद्रिणो भीतिस्त्रासे त्रासः क्षयः पदे ॥ ८१ ॥ मले मलिनता ख्याता रेखायां द्रंद्रिणो भयम् । कोणे व्याधि-भयं प्रोक्तं मध्ये व्याधि-भयम्भवेत् ॥ ८२ ॥ दोषेषु विन्दुरावर्त्तः परिवर्त्ती यदाकृतिः । चतुर्द्धैवं समाख्याता विन्दवो वज्र-संश्रिताः ॥ ८३ ॥ ( ३ ) नावयेत् इति (ख) पुस्तक पाठः।