युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पद्मरागयुक्तिः । १५ यावन्मूल्यं समाख्यातं वैश्यवर्णे च सूरिभिः । तावन्मूल्यं चतुर्थांशं हीयते शूद्रजन्मनि ॥ २६ ॥ पद्मरागः पलं यस्तु धत्ते लाक्षारस-प्रभः । कार्षापण-सहस्राणि त्रिंशन्मूल्यं लभेत सः ॥ २७ ॥ इन्द्रगोपक संकाशः कर्षत्रय-धृतो-मणिः । द्वाविंशतिं सहस्राणां तस्य मूल्यं विनिर्दिशेत् ॥ २८ ॥ एकोनोनूयते यस्तु जवाकुसुम-सन्निभः । कार्षापण-सहस्राणि तस्य मूल्यं चतुर्दश ॥ २६ ॥ बालादित्य द्युति-निभं कर्षं यस्तु प्रतुल्यते । कार्षापण-शतानान्तु मूल्यं सद्भिः प्रकीर्त्तितम् ॥ ३० ॥ यस्तु दाड़िम-पुष्पाभः कर्षार्द्धेन तु सन्मितः । कार्षापण शतानान्तु विंशतिं मूल्यमादिशेत् ॥ ३१ ॥ चत्वारो माषका यस्तु रक्तोत्पल-दल-प्रभः । मूल्यं तस्य विधातव्यं सूरिभिः शत-पञ्चकम् ॥ ३२ ॥ द्विमाषको यस्तु गुणैः सर्वैरेव समन्वितः । तस्य मूल्यं विधातव्यं द्विशतं तत्त्ववेदिभिः ॥ ३३ ॥ माषकैक-मितो यस्तु पद्मरागो गुणान्वितः । शतैक-सम्मितं वाच्यं मूल्यं रत्न-विचक्षणैः ॥ ३४ ॥ अतोऽन्यून-प्रमाणास्तु(न्तु) पद्मरागा गुणोत्तराः । स्वर्ण-द्विगुण मूल्येन मूल्यं तेषां प्रकल्पयेत् ॥ ३५ ॥ कार्षापणः समाख्यातः पुराणद्वय-सम्मितः । अन्ये कुसुम्भ-पानीय-मञ्जिष्ठोदक-सन्निभाः ॥ ३६ ॥ काषाया इति विख्याताः स्फटिक-प्रभवाश्च ते । तेषां दोषान् गुणान् वापि पद्मराग-वदादिशेत् ॥ ३७ ॥ मूल्यमल्पन्तु विज्ञेयं कारणेऽल्पफलन्तथा ।
८६ युक्तिकल्पतरौ— ब्रह्म-क्षत्रिय-वैश्यान्त्याश्चतुर्द्धा ये प्रकीर्त्तिताः ॥ ३८ ॥ चतुर्विधैर्नृपतिभिर्धार्याः सम्पत्ति-हेतवे । अतोऽन्यथाधृतः कुर्य्याद्रोगशोक-भयक्षयम् ॥ ३९ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ पद्मराग-परीक्षा ॥ अथ हीरकपरीक्षा * । गारुड़े,— हेम-मातङ्ग-सौराष्ट्राः पौण्ड्र-कालिङ्ग-कौशलाः । वेण्वा(ल्वा) तटाः स सौवीरा वज्रस्याष्टौ विहारकाः ॥ ४०॥ आताम्रा हिमशैलजाः शशिनिभा वेण्वातटीया मताः, सौवीरे तु सिताश्च मेघसदृशास्ताम्राश्च सौराष्ट्रजाः । कालिङ्गाः कनकावदातरुचिराः पीत-प्रभाः कौशले ; श्यामाः पुण्ड्रभवा मतङ्गविषये नात्यन्त-पोतप्रभाः ॥ ४१ ॥ कृतयुगे कलियुगे कौशले वज्र-सम्भवः हिमालये मतङ्गाद्रौ त्रेतायां कुलिशोद्भवः ॥ ४२ ॥ पौण्ड्रे च सुराष्ट्रे च द्वापरे परि-सम्भवः । वैरागरे च सौवीरे कलौ हीरक-सम्भवः ॥ ४३ ॥ पृथिव्यपो-वियत्तेजो मरुच्चैवेति पञ्चभिः । पञ्चभूतात्मकं वज्रं तैजसं प्रायसो भवेत् ॥ ४४ ॥ महापुराणं खदनं सुशोभं पार्थिवं विदुः । स्निग्धं मृदु-घनं स्वच्छमाप्यमाहुः परं बुधाः ॥ ४५ ॥
- वज्रं (हीरक)-वृत्तन्तु गरुड़पुराण-वामनपुराण-भागवत-मत्स्यपुराण-राजनिर्घण्ट- भावप्रकाशादिषु द्रष्टव्यम् ।
वज्रादियुक्तिः । ९७ विमलं शुचितीक्ष्णाग्रं वैयतं वज्रमुच्यते ॥ सुतीक्ष्णं दीप्तिमत् स्वच्छं तेजसं वज्रमुच्यते ॥ ४६ ॥ लघुतीक्ष्णः खरस्पर्शो वायव्यः परिकथ्यते । ब्रह्म-क्षत्रिय-विट्-शूद्रा भेदास्ते तु चतुर्विधाः ॥ ४७ ॥ श्वेता रक्ता तथा नीला कृष्णा छाया चतुर्विधाः । ब्रह्म-क्षत्रिय-विट्-शूद्र-जातेर्वज्रस्य विक्रमात् ॥ ४८ ॥ गारुड़े,— विप्रस्य शङ्ख-कुमुदस्फटिकावदातः, स्यात्क्षत्रियस्य शशवज्रविलोचनाभः । वैश्यस्य कान्त-कदली-दलसन्निकाशः ; शूद्रस्य धौत-करवाल-समानदीप्तिः ॥ ४६ ॥ हरित-सित-पीत-पिङ्ग-श्यामा-ताम्राः स्वभावतोरुचिराः । हरिवरुण-शक्र हुतवह-पितृपति मरुतां स्वका वर्णाः ॥ ५० ॥ द्वौ वज्रवणौँ पृथिवीपतीनाम्, सद्भिः प्रतिष्ठौ नतु सार्वजन्यौ । यः स्याज्जवाविद्रुम-भङ्गशोणो ; यो वा हरिद्रा-रससन्निकाशः ॥ ५१ ॥ ईशत्वात् सर्ववर्णानां गुणवत् सार्ववर्णिकम् । कामतो धारयेद् राजा नत्वन्योन्यं कथञ्चन ॥ ५२ ॥ अथ गुणाः—[ गारुड़े ] । कोट्यः पाश्र्वानि धाराश्च षडष्टौ द्वादशेति च । उत्तुङ्ग सम तीक्ष्णाग्रा वज्रस्याकरजा गुणाः ॥ ५३ ॥ षट्कोणकं लघुत्वञ्च समाष्टादश(ल)ता तथा । तीक्ष्णाग्रता निर्मलत्व मेते पञ्चगुणा मताः ॥ ५४ ॥ १३
Digitized By Siddhanta eGangotri Gyaan Kosha ६८ युक्तिकल्पतरौ— अत्यर्थं लघुवर्णतश्च गुणवत् पार्श्वेषु सम्यक्स्थितम्, रेखाविन्दुकलङ्क-काकपदक-त्रासादिभिर्वर्जितम् । लोकेऽस्मिन् परमाणुमात्रमपि यद् वज्रं क्वचिद् दृश्यते ; तस्मिन्देवसमाश्रयो ह्यवितथं तीक्ष्णाग्रधारं यदि ॥ ५५ ॥ षट्कोटि-शुद्धममलं स्फुटतीक्ष्णधारम्, वर्णान्वितं लघुसुपार्श्वमपेत-दोषम् । इन्द्रायुधांशु-विसृति छुरितान्तरीक्षम् ; एवंविधं भुवि भवेत् सुलभं न वज्रम् ॥ ५६ ॥ प्रसुते काण्डसम्भिन्नं शक्रायुध-समां शिखाम् । अत्यन्त लघुतीक्ष्णाग्रं तद्वज्रं वज्र-धारणम् ॥ ५७ ॥ विष्णुधर्मोत्तरे, — ( अग्निपुराणे च ) । अम्भस्तरति यद्वज्रं अभेद्यं विमलञ्च यत् । सत्कोणं शक्रचापाभं लघुचार्कनिभं शुभम् ॥ तथा संशुद्ध षट्कोणं लघु भार्गव-नन्दन ! ॥ ५८ ॥ प्रभा च शक्रचापाभा यस्यार्काभिमुखो भवेत् । तद्वज्रं धारयेद्राजा सर्वान् जयति शात्रवान् ॥ ५९ ॥ तथा च,— यस्तु वारि-भवो नाम दुर्वापत्र-जलच्छविः । सुवर्णमात्रं तुलया (१) तद्वज्रं कोटि-भाजनम् ॥ ६० ॥ ऊर्द्धं निवारयेद्वज्रमधः सर्पान्निवारयेत् । रात्रौ निवारयेद्भूतान् हीरकस्यैव धारणात् ॥ ६१ ॥ तीक्ष्णाग्रं विमलमपेत सर्वदोषम्, धत्ते यः प्रयततनुः सदैव वज्रम् । ( १ ) गणयेत् इति (क) पुस्तक पाठः । CC-0. Gurukul Kangri Collection, Haridwar.
वज्रादि-युक्तिः । ९९ वृद्धिस्तं प्रतिदिनमेति यावदायुः ; श्रीसम्पद्युत धन-धान्य-गो-पशूनाम् ॥ ६२ ॥ व्यालवह्नि-विषव्याघ्र तस्कराद्यभयानि च । दूरादेव निवर्त्तन्ते कर्म्माण्यथर्व्वणानि च ॥ ६३ ॥ यत्तु सर्वगुणैर्युक्तं वज्रं तरति वारिणि । रत्नवर्गे समस्तेऽपि तस्य धारणमिष्यते ॥ ६४ ॥ यद्यपि विशीर्ण-कोटिः सविन्दु-रेखान्वितो विवर्णो । तदपि च धनधान्य-सुतान् करोति सेन्द्रायुधो वज्रः ॥ ६५ ॥ सौदामिनी-विस्फूरिताभिरामम्, राजा यथोक्तं कुलिशं दधानः । पराक्रमाक्रान्त-पर-प्रतापः ; समस्तसामन्त-भुवं भुनक्ति ॥ ६६ ॥ (इति गारुडे) । समस्तां पृथिवीं पाति पार्थिवस्य विधारणात् । तृप्तिर्लक्ष्मीर्यशः कीर्त्तिरायुर्वज्रस्य धारणात् ॥ ६७ ॥ उत्साहः प्रियतुष्टित्वं विप्रणाशनमेव च । तथा सम्पत्तयः सर्वा वैयेते परिधारिते (२) ॥ ६८ ॥ प्रतापः शौर्य्यमुत्साहः तैजसस्य विधारणात् । यज्ञाज्ज्ञानं तपोभिश्च यदाप्नोति तदाप्नुयात् ॥ ६९ ॥ गुणयुक्तस्य वज्रस्य विप्रजातेर्विधारणात् । जपः पराक्रमस्तस्य शत्रुनाशश्च जायते ॥ ७० ॥ गुणवत्-क्षत्रजातीनां वज्रं वसति यद्गृहे । कलाकुशलताद्रव्यं प्रज्ञा क्षेमं यशो महत् ॥ ७१ ॥ गुणिनः परिरत्नस्य वैश्यजातेर्विधारणात् । परोपकारिता क्षेमं धन-धान्य-समृद्धयः ॥ ७२ ॥ (२) परिधारणात् इति (ख) पुस्तक पाठः ।
१०० युक्तिकल्पतरौ- गुणयुक्तस्य वज्रस्य शूद्रजातेर्विधारणात् । अन्यच्चतुर्विधं वज्रं प्रवदन्ति पुरातनाः ॥ ७३ ॥ हिमकुन्देन्दुधवलं षट्कोणाष्टदलन्तथा । तीक्ष्णं वारिभवं वज्रं घनशब्देति कान्तिमत् ॥ ७४ ॥ अन्धकारे च दीप्येत तज्ज्ञेयं वज्रधारणम् । गुणाढ्यं तीक्ष्णधारं यत् सर्प-दर्प-निवारणम् ॥ ७५ ॥ तस्य धारणेतो येन विषरोगः प्रशाम्यति । सूर्यकोटि-प्रतीकाशं चन्द्रकोटि-सुशीतलम् ॥ ७६ ॥ अन्धकार-हरं वज्रं विज्ञेयं महदुत्तमम् । तस्य धारणतोयेन सर्वरोगः प्रशाम्यति ॥ ७७ ॥ तप्ते दुग्धे जले तैले घृते क्षिप्तोऽपि यः परि । शीततां नावहेत् (३) सद्यः संज्ञेयः सुरदुर्लभः ॥ ७८ ॥ एषामन्यतरं लब्ध्वा नृपः सुखमवाप्नुयात् । तत्तु त्रिभुने नास्ति यन्न धारयते नृपः ॥ ७६ ॥ अथ दोषाः । मलो विन्दुस्तथा रेखा त्रासः काकपदस्तथा । एते दोषाः समाख्याताः पञ्चवज्रेषु कोविदैः ॥ ८० ॥ मले मलिनता ख्याता विन्दौ सर्वार्थ-नाशनम् । रेखायां द्रंद्रिणो भीतिस्त्रासे त्रासः क्षयः पदे ॥ ८१ ॥ मले मलिनता ख्याता रेखायां द्रंद्रिणो भयम् । कोणे व्याधि-भयं प्रोक्तं मध्ये व्याधि-भयम्भवेत् ॥ ८२ ॥ दोषेषु विन्दुरावर्त्तः परिवर्त्ती यदाकृतिः । चतुर्द्धैवं समाख्याता विन्दवो वज्र-संश्रिताः ॥ ८३ ॥ ( ३ ) नावयेत् इति (ख) पुस्तक पाठः।
वज्रादियुक्तिः । १०१ वज्रोऽथ वर्त्तुलो विन्दुरावर्त्तो मध्य-वर्त्तुलः । वज्रः परिवर्त्तु ... ... रक्त एव यवाकृतिः ॥ ८४ ॥ विन्दुरायर्धनं हन्यात् दावर्त्तो वज्रमादिशेत् । परिवर्त्ते भवेद् व्याधिर्यवे तत् फलमुच्यते ॥ ८५ ॥ श्वेतो रक्तस्तथा पीत-श्वेतश्चेति यथा मतः । रक्तवर्णे यवे ख्यातं गजाश्वस्य विनाशनम् ॥ ८६ ॥ यवे पीते कुलस्यान्तं धनमायुः सिते भवेत् । एवं दोष-गुणाः प्रोक्ताः परिविन्दोरशेषतः ॥ ८७ ॥ सव्यवक्राः शुभा रेखा रामवक्रा भयङ्करो । छेद भ्रान्तिकरो छेदा रेखाशस्त्र-भयप्रदा ॥ ८८ ॥ पञ्चद्वय प्रदृश्याया छेदा सा परिकीर्त्तिता । रेखा बन्धु-विनाशाय जायते वज्रसंश्रया ॥ ८६ ॥ सव्या चैवोपसव्या च छिन्ना रेखोर्द्धगामिनौ ॥ सव्या चात्मभिदा ज्ञेया अपसव्या धनच्छिदा ॥ ९० ॥ ऊर्द्धा चासंप्रहारायच्छिन्ना छेदाय वन्धुभिः । अङ्कः काकपदाकारो दृश्यते यः पदोत्थितः ॥ ६१ ॥ स मृत्युमादिशत्याहुः(युः) धनं वा सकलं हरेत् । भग्नाग्रं भङ्गधारञ्च दलहोनञ्च वर्त्तुलम् ॥ ६२ ॥ कान्तिहोनञ्च यद्वज्रं दोषाय न गुणाय तत् । भिन्न भ्रान्ति-करन्त्रासः सत्रासं जनयेद् ध्रुवम् । अपि सर्वगुणैर्युक्तं न तादृग् धारयेद्बुधः ॥ ६३ ॥ अथ अन्यान्यपि । एकमपि यस्यसैन्यं (६) शृङ्गं विदलितमवलोक्यते विशीर्णांम्बा । गुणवदपि तन्न धार्य्यं वज्रं श्रेयोऽर्थिभिर्भवेने ॥ ६४ ॥ (६) अत्र सैन्यं इत्यधिक पाठः (ख)-(ग) पुस्तकेऽस्ति ।
१०२ युक्तिकल्पतरौ—
स्फुटिताग्नि विशीर्ण शृङ्गदेशम् मलवर्णैः पृषतैरुपेतमध्यम् । न हि वज्रभृतोऽपि वज्रमाशु श्रियमन्याय्य-नाशं विधत्ते ॥ ९५ ॥ यस्यैकदेशे क्षतजावभासो यद्वा भवेल्लोहितवर्ण-चित्रम् । नतन्न कुर्य्यात् ध्रियमाणमाशु स्वच्छन्दमृत्योरपि जीवितान्तम् ॥ ९६॥ प्रथमं गुणसम्पदाद्युपेतं प्रतिबद्धं यमुपैति यत् स दोषम् । सुलभाभरणेन तस्य राज्ञो गुण-हीनोऽपि मणिर्न भूषणाय ॥ ९७ ॥ यस्य क्षते भवेच्छोथो दाहो वा ज्वर एव च । तथा चिमचिमायेत तद्वज्रं दुष्टमुच्यते ॥ ९८ ॥ कर्कशं गुरु यद् वज्रं न तद्धारयते नृपः । त्रिकोणं कलहो यस्माच्चतुष्कोणं भयावहम् ॥ ९९ ॥ पञ्चकोणे भवेन्मृत्युः षट्कोणं शुद्धमादिशेत् । द्विदले कलहो नित्यं त्रिदले सुखनाशनम् ॥ १०० ॥ चतुष्कोणे सुखावाप्तिःशोकश्च पञ्चमे दले । षड्दले राजतो भीतिर्मृत्युः सप्तदले तथा ॥ अष्टदलं भवेच्छुद्धं वज्रमित्याह ‘पावकः’ ॥ १ ॥ विच्छायं विपदं करोति मलिनं धत्ते शुचं कर्कशम्, दुःखं स्नेह-विलिसमन्तकरणं श्याम(व)च्छविः क्लेशकृत् । रेखाकाक-पदाङ्क-विन्दु सहितं स्यान्मृत्यवे देहिनाम् ; वज्रं वज्रविचक्षणैस्तु विभृयात्तस्माद्विचाय्य स्वयम् ॥ २ ॥ गुर्विणीभिर्न धर्त्तव्यो युवतीभिरयं मणिः । जठरे वज्र-सम्पर्काद् गर्भस्तासां हि शुष्यति ॥ ३ ॥ अयसा पद्मरागेण तथा गोमेदकेन च । वैदूर्य्यस्फटिकाभ्याञ्च काचैर्वा(ष्रा)पि पृथग्विधैः ॥ ४ ॥ प्रतिरूपाणि कुर्व्वन्ति वज्रस्य कुशला नराः । परोक्षा तेषु कर्त्तव्या विद्वद्भिः सुपरीक्षकैः ॥ ५ ॥
हीरकादिभूत्युक्तिः । १०३ क्षारोल्लेखन शाणैस्तु (१०) कार्यं तेषां परीच्छणम् । क्षाराम्लैर्लेपयेद्वज्रं रौद्रे चैव परीक्षयेत् ॥ ६ ॥ क्वचिन्न याति वैवर्ण्यं स्वरूपञ्चाभिदीप्यते । क्षीयते शाणसंसर्गात् (११) चूर्णतां याति चूर्णितम् ॥ ७ ॥ तथा च,— पृथिव्यां यानि रत्नानि ये चान्ये लोहधातवः । सर्वाणि विलिखेद्बज्रं तच्च तैर्न विलिख्यते ॥ ८ ॥ गुरुता सर्वरत्नानां गौरवाधान-कारणम् । वज्रेऽतान् वैपरीत्येन सूरयः परिचक्षते ॥ ९ ॥ न तेषां प्रतिबन्धानां भा भवत्यूर्द्धगामिनी । तिर्यक् क्षतत्वात् केषाञ्चित् कथञ्चिदपि दृश्यते ॥ १० ॥ तिर्यग्गालिख्यमानानां सा पार्श्वेष्वपि (१२) हन्यते ॥ ११॥ —*— अथ मूल्यम् । अष्टाभिः सर्षपैः गौरैस्तण्डलं परिकल्पयेत् । तण्डुलेन तु वज्राणां धारणे मूल्यमुच्यते ॥ १२ ॥ यदि वज्रमपेत सर्व-दोषं, विभृयात्तण्डुलविंशतिं गुरुत्वे । मणि-शास्त्रविदो वदन्ति तस्य द्विगुणं रूपक-लक्षशमग्र्यमूल्यम् ॥ १३ ॥ त्रिभागहीनार्द्ध-तदर्द्धशेषं त्रयोदशं त्रिंशदतोऽर्द्धभागाः । अशीति भागोऽथ शतांशभागाः सहस्रभागोऽल्पसमानयोगः ॥ १४॥ (१०) शालाभिः इति (क) पुस्तक पाठः । (११) क्षयते शाणसंघर्षात् इति (ख) पुस्तक पाठः । (१२) सा पार्श्वेषु विहन्यते इति (ख) पुस्तक पाठः ।
inलक्ष्यालक्ष्येण(line 4):लक्ष्य. The लhas two humps and a vertical line. In line 3, the letter has two humps and a vertical line with anेmatra:ले! The text literally has a typographical error लेकावसानस्यforत्वेकावसानस्य! Wait, let's look closely, could it be त्वे? No, the compositor probably read त्वेasलेin the manuscript! In many manuscripts,त्वेandलेlook almost identical! So the typesetter printedलेकावसानस्य! Wait, can it be transcribed as त्वेकावसानस्यorलेकावसानस्य? Let's look at लेकावसानस्य- yes, it looks just likeलेकावसानस्य`.
* Verse 16:
अनेनापि हि (१३) दोषेण लक्ष्यालक्ष्येण दूषितम् ।
स्वमूल्याद्दशमं भागं वज्रं लभति मानवः ॥ १६ ॥
* Verse 17:
प्रकटानेकद्दोषस्य स्वल्पस्य महतोऽपि वा ।
Wait, look at `प्रकटानेकद्दोषस्य`:
Wait, is it `प्रकटानेकद्दोषस्य` or
प्रवालयुक्तिः । १०५ अरुणं शशरक्ताख्यं कोमलं स्निग्धमेव च । प्रवालं विप्रजातिः स्यात् सुखवेध्यं मनोरमम् ॥ २२ ॥ जवाबन्धूकसिन्दूरं दाड़िमी-कुसुम-प्रभम् । कठिनं दुर्वेध्यमस्निग्धं क्षत्रजातिं तदुच्यते ॥ २३ ॥ पलाशकुसुमाभासं तथापाटल-सन्निभम् । वैश्यजातिर्भवेत् स्निग्धं वर्णाढ्यं मन्दकान्तिमत् ॥ २४ ॥ रक्तोत्पलदलाकारं कठिनं न चिरद्युतिः । विद्रुमं शूद्रजातिः स्याद् वायु-वेद्यं तथैव च ॥ २५ ॥ रक्तता स्निग्धता दार्य्यं चिरद्युति-सुवर्णता । प्रवालानां गुणाः प्रोक्ताः धनधान्य-कराः पराः ॥ २६ ॥ हिमाद्रौ यत्तु संजातं तद्रक्तमतिनिष्ठुरम् । तत्र लिप्तो भवेन्निम्ब-कल्कोऽति मधुरः स्थिरः(तः) ॥ २७ ॥ तस्य धारण-मात्रेण विषवेगः प्रशाम्यति । विवर्णता तु खरता प्रवाले दूषणद्वयम् ॥ २८ ॥ रेखा काकपदो विन्दुर्यथा वज्रेषु दोषकृत्(हृत्) । तथा प्रवाले सर्व्वत्र वर्ज्जनीयं विचक्षणैः ॥ २९ ॥ रेखा हन्याद् यशोलक्ष्मीमावर्त्तः कुलनाशनः । पट्टलो रोगकृत् ख्यातो विन्दुर्घन-विनाशकृत् ॥ ३० ॥ त्रासः सञ्जनयेत्त्रासं नैलिका मृत्यु-कारिणी । मूल्यं शुद्ध-प्रवालस्य रौप्यद्विगुणमुच्यते ॥ ३१ ॥ धारणेऽस्यापि नियमो जाति-भेदेन पूर्ववत् ॥ ३२ ॥ तथाहि,— विरूप-जातिं विषमं विवर्णम्, खर-प्रवालं प्रवदन्ति ये ये । १४
१०६ युक्तिकल्पतरौ— ते मृत्युमेवात्मनि वै वहन्ति सत्यं वदत्येष यतो मुनीन्द्रः * ॥३३॥ इति श्रीभोजराजीये युक्तिकल्पतरौ प्रवाल परीक्षा ॥ —*— अथ गोमेद परीक्षा । हिमालये वा सिन्धौ वा गोमेद-मणिसम्भवः । स्वच्छकान्तिर्गुरुः स्निग्धो वर्णाढ्यो दीप्तिमानपि ॥ ३४ ॥ वलक्षः पिञ्जरो धन्यः 'गोमेद' इति कीर्त्तितः । चतुर्द्धा जाति-भेदस्तु गोमेदेऽपि प्रकाश्यते ॥ ३५ ॥ ब्राह्मणः शुक्लवर्णः स्यात् क्षत्रियो रक्त उच्यते । आपीतो वैश्यजातिस्तु शूद्रस्वानील उच्यते ॥ ३६ ॥ छाया चतुर्विधा श्वेता रक्ता पीताऽसिता तथा ॥ ३७ ॥ गुरुः प्रभाढ्यः सितवर्णरूपः स्निग्धो मृदुर्वाति महापुराणः । स्वच्छस्तु गोमेदमणिर्घृ तोऽयं करोति लक्ष्मीं धनधान्य-वृद्धिम् ॥३८॥
मुक्तायुक्तिः । १०७ शुद्धस्य गोमेद मणेस्तु मूल्यं, सुवर्णतो द्वैगुणमाहुरेके । अन्ये तथा विद्रुमतुल्य-मूल्यं ; तथापरे चामरतुल्यमाहुः ॥ ४१ ॥ चतुर्विधानामेषान्तु धारणे परिसम्मतम् ॥ ४२ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ गोमेद परीक्षा ॥ अथ मुक्ता परीक्षा । द्विपेन्द्र जीमूतवराहशङ्ख, मत्स्याहि-शुक्त्युद्भववेणुजानि । मुक्ताकलानि प्रथितानि लोके ; तेषान्तु शुक्त्युद्भवमेव भुरि * ॥ ४३ ॥ वेध्यन्तु शुक्त्युद्भवमेव तेषां, शेषान्यवेध्यानि वदन्ति तज्ज्ञाः । मतङ्गजा ये तु विशुद्धवंश्या ; स्तेमौक्तिकानां प्रभवाः प्रदिष्टाः ॥ ४४ ॥ उत्पद्यते मौक्तिकमेषु वृत्तम्, आपीतवर्णं प्रभया विहीनम् ॥ ४५ ॥ वक्ष्ये गजपरीक्षायां गजजातिर्चतुर्विधा । मौक्तिकं तेषु जातं हि चतुर्विधमुदीर्य्यते ॥ ४६ ॥ ब्राह्मणं पीतशुक्लन्तु क्षत्रियं पीतरक्तकम् । पीतश्यामन्तु वैश्यः स्यात् शूद्रं स्यात् पीतनीलकम् ॥ ४७ ॥ काम्बोज-कुम्भसम्भूतं धात्रीफलनिभं गुरु । अतिपिञ्जरसच्छायं मौक्तिकं मन्ददीधिति ॥ ४८ ॥ धाराधरेषु जायेत मौक्तिकं जल-विन्दुभिः । दुर्लभन्तन्मनुष्याणां देवैस्तत् ह्रियतेऽम्बरात् ॥ ४९ ॥ कुकुटाण्डसमं वृत्तं मौक्तिकं निविड़ं गुरु । घनजं भानुसंकाशं देवयोग्यममानुषम् ॥ ५० ॥
- “स्वात्यम्बु शुक्ति कुहरे पतदेवमुक्ता, मुक्तैव पङ्कजदले नरजःसु किञ्चित्” ॥ इति कवयः ।
१०८ युक्तिकल्पतरौ— तथापि, गारुड़े,— नाप्येति मेघ-प्रभवं धरित्रीं वियद्गतं तद्विबुधा हरन्ति । अर्चिंप्रभानाहृत-दिग्विभाग मादित्यवद्दुः खविभाव्य विम्बम् ॥५१॥ तेजस्तिरस्कृत्य हुतासनेन्दु, नक्षत्रताराग्रह-सम्भवञ्च । दिवा यथा दीप्तिकरं तथैव ; तमोऽवगाढाष्वपि तन्निशासु ॥ ५२ ॥ विचित्ररत्नद्युति-चारुतोय-चतुः समुद्रा भवनाभिरामाः । मूर्खं नवास्यादितिनिश्चयो मे ; कृत्स्ना मही तस्य सुवर्ण-पूर्णा ॥५३॥ हीनोऽपि यस्तल्लभते कथञ्चिद्विपाक योगान्महतः शुभस्य । सपत्नहीनः पृथिवीं समग्रां भुनक्ति तत्तिष्ठति यावदेव ॥ ५४ ॥ न केवलन्तच्छुभकृन्नृपस्य भाग्यैः प्रजानामपि जन्म तस्य । तद्योजनानां परितः शतस्य सर्वाननर्थान् विमुखी करोति ॥५५॥ जलज्योतिर्मरुज्जानां मेघानान्त्रिविधम्भवॆत् । जलाधिकेऽधिकं स्वच्छं कोमलं गुरु कान्तिमत् ॥ ५६ ॥ ज्योतिषं कान्तिमद्वृत्तं दुर्निरोध्यं रविप्रभम् । कान्तिमत् कोमलं वृत्तं मारुतं विमलं लघु ॥ ५७ ॥ गारुड़े,— वराहदंष्ट्रा प्रभवं वरिष्ठम्, * तस्यैव दंष्ट्राङ्कुर-तुल्य वर्णम् । क्वचित् कथञ्चित् स भुवः प्रदेशे; प्रजायते शूकरवह्निशिष्टः ॥ ५८ ॥ ब्रह्मादि जातिभेदेन वराहोऽपि चतुर्विधः । तेषु जाता भवेन्मुक्ता समासेन चतुर्विधा ॥ ५९ ॥ ब्राह्मणः शुक्लवर्णस्तु शूद्रमन्ते च लभ्यते । क्षत्रियो रक्तवर्णस्तु स्पर्शे कर्कश एव च ॥ ६० ॥
- 'दंष्ट्रामूले मणिकान्ति-सप्रभं बहुगुणञ्च वाराहम्' । इति बृहत्संहितायाम् ।
मुक्तायुक्तिः । १०८ वैश्यः स्यात् शुक्ल-पीतस्तु कोमलः कोल-सन्निभः । शूद्रः स्यात् शुक्लनीलस्तु कर्कशः श्याम एव च ॥ ६१ ॥ तथा च,— कोलजं कोलसदृशं तद्दंष्ट्रा सदृशच्छविः । अलभ्यं मनुजैरम्यं मौक्तिकं पुण्यवर्ज्जितैः ॥ ६२ ॥ ये कम्बवः शार्ङ्गि सुखावमर्श पूतस्य शङ्ख प्रवरस्य गोत्रे । स्यान्मौक्तिकानामिह तेषु जन्म तल्लक्षणं सम्प्रतिकीर्त्तयामः ॥ ६३ ॥ स्वयोनि मध्यच्छवि-तुल्यवर्णं शङ्खादृहत्कोलफलप्रमाणम् ॥ ६४ ॥ तथाच,— वर्षोपल समं दीप्त्या पाञ्चजन्य-कुलोद्भवम् ॥ कपोताण्ड-प्रमाणं तत् अतिकान्ति-मनोहरम् ॥ ६५ ॥ अश्विन्यादिक नक्षत्रे ये जाताः कम्बवः शुभाः । मौक्तिकं तेषु जातं हि सप्तविंशति-भेदभाक् ॥ ६६ ॥ शुक्लाशुक्लाः पीतरक्ता नीलालोहित-पिञ्जराः । आकर्व्वुराः पाटलाश्च नववर्णाः प्रकीर्त्तिताः ॥ ६७ ॥ महन्मध्य लघून्मानैः सप्तविंशतिधा भवेत् । क्रमतस्तेषु विज्ञेयं नक्षत्रेपु मनीषिभिः ॥ ६८ ॥ पाठीन पृष्ठस्य समानवर्णं मीनात् सुवृत्तं लघु नातिसूक्ष्मम् । उत्पद्यते वारिचराननेषु मीनाश्चते मध्यचराः पयोधेः ॥ ६९ ॥ तल्लक्षणं यथा,— गुञ्जाफलकाय-स्थौल्यं मौक्तिकं तिमिजं लघु * । पाटलापुष्प-संकाशं अल्पकान्ति सुवर्त्तुलम् ॥ ७० ॥ वातपित्त-कफद्वन्द्व-सन्निपात-प्रभेदतः । सप्त प्रकृतयो मीना सप्तधा तेन मौक्तिकम् ॥ ७१ ॥ ————————————————————————————————————————————————
- “तिमिजं मत्स्याक्षिनिभं वृहत्पवित्रं बहुगुणञ्च” । इति वराहमिहिरोये ।
११० युक्तिकल्पतरौ— लघिष्ठमरुणं वाता दापीतं मृदुपित्ततः । शुक्लं गुरुकफोद्रेकाद्वातपित्तान्मृदुर्लघुः ॥ ७२ ॥ वातश्लेष्मभवं स्थूलं पित्तश्लेष्मजमच्छकम् । सर्व्वलिङ्गप्रयोगेन सान्निपातिकमुच्यते ॥ ७३ ॥ एकजाः शुभदाः प्रोक्ता स्तथा वै सान्निपातिकाः ॥ ७४ ॥ फणि-मुक्तारूपम्,— भौजङ्गमं नील विशुद्धवर्णं सर्व्वम्भवेत् प्रोज्ज्वलवर्णशोभम् । नितान्तधौत-प्रतिकल्पमानं निस्त्रिंशधारा समवर्ण-शोभम् ॥ ७५ ॥ भुजङ्गमास्ते विषवेग तृप्ताः, श्रीवासुकेर्वंश-भवाः पृथिव्याम् । क्वचित्कदाचित् खलु पुण्यदेशे ; तिष्ठन्ति ते पश्यति तान् मनुष्यः ॥ ७६ ॥ तल्लक्षणमुच्यते,— फणिजं वर्त्तुलं रम्यं नीलच्छायं महाद्युतिम् । पुण्यहीना न पश्यन्ति वासुकेः कुल-सम्भवम् ॥ ७७ ॥ शृगाल-कोलामल-कोलगुञ्जा-फलप्रमाणास्तु चतुर्विधास्ते । स्युर्ब्रह्म-वाह्वङ्गज-वैश्यशूद्र-सर्पेषु जाताः प्रवरास्तु सर्वे ॥ ७८ ॥ फलं यथा,— प्राप्यापि रत्नानि धनं श्रियञ्च, राजश्रियञ्चा महतीं दुरापाम् । तेजोन्विताः पुण्यकृतो भवन्ति ; मुक्ताफलस्यास्य विधारणेन ॥ ७९ ॥ जिज्ञासयारत्न-विनिश्चयज्ञैः, शुभे मुहूर्त्ते प्रयतैः प्रयत्नात् ।
मुक्तायुक्तिः । १११ रक्षाविधानं सुमहद्विधाय ; हर्म्योपविष्टं क्रियते यदा तत् ॥ ८० ॥ तदा महद्दुन्दुभि-तूर्य्यघोषैः घनैर्घनेराद्रियतेऽन्तरीक्षम् ॥ ८१ ॥ न तं भुजङ्गा न तु जातुधाना, न राक्षसा नापि च दुष्ट लोकाः । हिंसन्ति यस्याह्नि शिरः समुत्थं ; मुक्ताफलं तिष्ठति कोषमध्ये ॥८२॥ भेकादिष्वपि जायन्ते मणयो ये क्वचित् क्वचित् । भौजङ्गम मणेस्तुल्यास्ते विज्ञेया बुधोत्तमैः ॥ ८३ ॥ नक्षत्रमालेव दिवो विशीर्णा, दन्तावली तस्य महासुरस्य । विचित्र रूपेषु विचित्र-वर्णा ; पयः सुपत्युः पयसां पपात ॥ ८४ ॥ सम्पूर्ण-चन्द्रांशु कलापकान्ते, र्मणि प्रवेकस्य महागुणस्य । तच्छूक्तिमत्सु स्थितिमापवौज,– मासन् पुराण्यन्य भवानि यानि ॥ ८५ ॥ यस्मिन् प्रदेशेऽम्बुनिधौ पपात, सुचारुमुक्तामणिरत्नवौजम् । तस्मिन् पयस्तोयधराबकीर्णं ; शुक्तौ स्थितं मौक्तिकतामवाप ॥ ८६ ॥ सैंहलिक पारलौकिक-सौराष्ट्रिक-ताम्रपर्णि पारसवाः । कौवेर-पाण्ड्य-वाटक-हैमा इत्याकरा ह्यष्टौ ॥ ८७ ॥ स्वात्यां स्थिते रवौ मेघैर्य्ये मुक्ता जलविन्दवः । शीर्णाः शुक्तिषु जायन्ते तैर्मुक्ता निर्मल-त्विषः ॥ ८८ ॥ स्थूला मध्यास्तथा सूक्ष्मा विन्दुमानानुसारतः ।
under य? Look at यथैव: य has a small dot/smudge? No, यथैव विद्वान् ।)
* Line 17:
`न हि व्यवस्थास्ति गुणागुणेषु;`
Wait, semicolon at the end? Yes, `;`!
* Line 18:
`सर्व्वत्र सर्व्वाकृतयो भवन्ति ॥ ८५ ॥`
Notice double v: `सर्व्वत्र सर्व्वाकृतयो भवन्ति ॥ ८५ ॥`.
* Line 19:
`ब्रह्मादि जाति-भेदेन शुक्तयोपि चतुर्विधाः ।`
Wait: `ब्रह्मादि` or `ब्राह्मादि`?
First letter: `ब्र` or `ब्रा`? There is no aa-kar, it's `ब्रह्मादि`!
Wait, look at line 21: `ब्राह्मणस्तु`. Here `ब्रा` has an aa-kar. In line 19, `ब्रह्मादि` has NO aa-kar, it is `ब्रह्मादि`.
`जाति-भेदेन`: has hyphen: `जाति-भेदेन`.
`शुक्तयोपि`: `शुक्तयोपि` (no avagraha).
`चतुर्विधाः ।`
* Line 20:
`तासु सर्वासु जातं हि मौक्तिकं स्याच्चतुर्विध
Digitized By Siddhanta eGangotri Gyaan Kosha मुक्तायुक्तिः । ११३ वर्षोपलानां समवर्णशोभम्, त्वक्सार पर्व्वप्रभवं प्रदिष्टम् । ते वेणवो दिव्यजनोपभोग्ये ; स्थाने प्ररोहन्ति न सार्व्वजन्ये ॥ ९६ ॥ [ अथ वेणुजमुक्ता लक्षणारम्भः ] । वंशजं शशिसंकाशं कङ्कोलफलमार्द्रकम् । प्राप्यते बहुभिः पुण्यैस्तद्द्रव्यं वेदमन्त्रतः ॥ १०० ॥ पञ्चभूतसमुद्रेकाद्दंशे पञ्चविधे भवेत् । मुक्ताः पञ्चविधास्तासां यथा लक्षणमुच्यते ॥ १ ॥ पार्थिवी गुरुवत्सा च तैजसी तेजसा लघुः । वायवी च मृदुः स्थूला गागनी कोमला लघुः ॥ २ ॥ आप्याः स्निग्धाः भृशं शुक्लाः पञ्चैताः प्रवरा मताः । आसां धारणमात्रेण व्याधिः कोऽपि न जायते ॥ ३ ॥ एवमन्यत्रापि,— गजाहि कोलमत्स्यानां शीर्षे मुक्ताफलोद्भवः । त्वक्सार शुक्ति-शङ्खानां गर्भे मुक्ताफलोद्भवः ॥ ४ ॥ धाराधरेषु जायेत मौक्तिकं जलविन्दुभिः । जीमूते शुचिरूपञ्च गजे पाटलभास्वरम् ॥ ५ ॥ मत्स्ये श्वेतञ्च निस्तेजः फणीन्द्रे नीलभास्वरम् । हरिश्च्छ्वेतं तथा वंशे पीतश्वेतञ्च शूकरे ॥ ६ ॥ शङ्खशुक्त्युद्भवं श्वेतं मुक्नारत्नमनुत्तमम् । चतुर्धा मौक्तिके छाया पीता च मधुरा सिता ॥ ७ ॥ नीला चैव समाख्याता 'रत्न-तत्त्व परीक्षकैः' । पीता लक्ष्मीप्रदा च्छाया मधुरा बुद्धिवर्द्धिनी ॥ ८ । शुक्ला यशस्करी च्छाया नीला सौभाग्य-दायिनी । १५ CC-0. Gurukul Kangri Collection, Haridwar.
११४ युक्तिकल्पतरौ— सित च्छाया भवेद्विप्रः क्षत्रियश्चार्कंरश्मिमान् । पीतच्छाया भवेद्वैश्यः शूद्रः कृष्णरुचिर्मतः ॥ ६ ॥ ——००—— अथ गुणाः । [ मात्स्ये ] । सुतारञ्च सुवृत्तञ्च स्वच्छञ्च निर्मलन्तथा । घनं स्निग्धञ्च सच्छायं तथाऽस्फुटितमेव च । अष्टौ गुणाः समाख्याता मौक्तिकानामशेषतः ॥ १० ॥ तद्यथा,— तारकाद्युतिसंकाशं सुतारमिति गद्यते । सर्व्वतो वर्त्तुलं यच्च सुवृत्तं तन्निगद्यते ॥ ११ ॥ स्वच्छं दोषविनिर्मुक्तं निर्मलं मलवर्ज्जितम् । गुरुत्वं तुलने यस्य तद्घनं मौक्तिकं वरम् ॥ १२ ॥ स्नेहेनैव विलिप्तं यत् तत् स्निग्धमिति गद्यते । छाया समन्वितं यच्च सु(स)च्छायं तन्निगद्यते । व्रणरेखाविहोनं यत् तत्स्यादस्फुटितं शुभम् ॥ १३ ॥ भ्राजिष्णु कोमलं कान्तं मनोज्ञं स्फुरतीव च । स्रवतीव च सत्त्वानि तन्महार्त्न संज्ञितम् ॥ १४ ॥ श्वेतकाच समाकारं शुभ्रांशु शतयोजितम् । ऋषराज(१) प्रतिच्छायं मौक्तिकं देवभूषणम् ॥ १५ ॥ गारुड़े,—* त्वक्सार नागेन्द्र-तिमि-प्रसूतम्, यच्छङ्खजं यच्च वराह जातम् । ─────────────────────────── ( १ ) शशिराज इति (ग) पुस्तक पाठः ।
- अन्यत् सर्व्वं शुक्रनीति-बृहत्संहिता-मत्स्यपुराण-मानसोल्लासादिषु अनुसन्धेयम् ।