भारतकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 143, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 143

हीरकादिभूत्युक्तिः । १०३ क्षारोल्लेखन शाणैस्तु (१०) कार्यं तेषां परीच्छणम् । क्षाराम्लैर्लेपयेद्वज्रं रौद्रे चैव परीक्षयेत् ॥ ६ ॥ क्वचिन्न याति वैवर्ण्यं स्वरूपञ्चाभिदीप्यते । क्षीयते शाणसंसर्गात् (११) चूर्णतां याति चूर्णितम् ॥ ७ ॥ तथा च,— पृथिव्यां यानि रत्नानि ये चान्ये लोहधातवः । सर्वाणि विलिखेद्बज्रं तच्च तैर्न विलिख्यते ॥ ८ ॥ गुरुता सर्वरत्नानां गौरवाधान-कारणम् । वज्रेऽतान् वैपरीत्येन सूरयः परिचक्षते ॥ ९ ॥ न तेषां प्रतिबन्धानां भा भवत्यूर्द्धगामिनी । तिर्यक् क्षतत्वात् केषाञ्चित् कथञ्चिदपि दृश्यते ॥ १० ॥ तिर्यग्गालिख्यमानानां सा पार्श्वेष्वपि (१२) हन्यते ॥ ११॥ —*— अथ मूल्यम् । अष्टाभिः सर्षपैः गौरैस्तण्डलं परिकल्पयेत् । तण्डुलेन तु वज्राणां धारणे मूल्यमुच्यते ॥ १२ ॥ यदि वज्रमपेत सर्व-दोषं, विभृयात्तण्डुलविंशतिं गुरुत्वे । मणि-शास्त्रविदो वदन्ति तस्य द्विगुणं रूपक-लक्षशमग्र्यमूल्यम् ॥ १३ ॥ त्रिभागहीनार्द्ध-तदर्द्धशेषं त्रयोदशं त्रिंशदतोऽर्द्धभागाः । अशीति भागोऽथ शतांशभागाः सहस्रभागोऽल्पसमानयोगः ॥ १४॥ (१०) शालाभिः इति (क) पुस्तक पाठः । (११) क्षयते शाणसंघर्षात् इति (ख) पुस्तक पाठः । (१२) सा पार्श्वेषु विहन्यते इति (ख) पुस्तक पाठः ।