युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 142, कुल 278 में से
संदर्भ में पढ़ें१०२ युक्तिकल्पतरौ—
स्फुटिताग्नि विशीर्ण शृङ्गदेशम् मलवर्णैः पृषतैरुपेतमध्यम् । न हि वज्रभृतोऽपि वज्रमाशु श्रियमन्याय्य-नाशं विधत्ते ॥ ९५ ॥ यस्यैकदेशे क्षतजावभासो यद्वा भवेल्लोहितवर्ण-चित्रम् । नतन्न कुर्य्यात् ध्रियमाणमाशु स्वच्छन्दमृत्योरपि जीवितान्तम् ॥ ९६॥ प्रथमं गुणसम्पदाद्युपेतं प्रतिबद्धं यमुपैति यत् स दोषम् । सुलभाभरणेन तस्य राज्ञो गुण-हीनोऽपि मणिर्न भूषणाय ॥ ९७ ॥ यस्य क्षते भवेच्छोथो दाहो वा ज्वर एव च । तथा चिमचिमायेत तद्वज्रं दुष्टमुच्यते ॥ ९८ ॥ कर्कशं गुरु यद् वज्रं न तद्धारयते नृपः । त्रिकोणं कलहो यस्माच्चतुष्कोणं भयावहम् ॥ ९९ ॥ पञ्चकोणे भवेन्मृत्युः षट्कोणं शुद्धमादिशेत् । द्विदले कलहो नित्यं त्रिदले सुखनाशनम् ॥ १०० ॥ चतुष्कोणे सुखावाप्तिःशोकश्च पञ्चमे दले । षड्दले राजतो भीतिर्मृत्युः सप्तदले तथा ॥ अष्टदलं भवेच्छुद्धं वज्रमित्याह ‘पावकः’ ॥ १ ॥ विच्छायं विपदं करोति मलिनं धत्ते शुचं कर्कशम्, दुःखं स्नेह-विलिसमन्तकरणं श्याम(व)च्छविः क्लेशकृत् । रेखाकाक-पदाङ्क-विन्दु सहितं स्यान्मृत्यवे देहिनाम् ; वज्रं वज्रविचक्षणैस्तु विभृयात्तस्माद्विचाय्य स्वयम् ॥ २ ॥ गुर्विणीभिर्न धर्त्तव्यो युवतीभिरयं मणिः । जठरे वज्र-सम्पर्काद् गर्भस्तासां हि शुष्यति ॥ ३ ॥ अयसा पद्मरागेण तथा गोमेदकेन च । वैदूर्य्यस्फटिकाभ्याञ्च काचैर्वा(ष्रा)पि पृथग्विधैः ॥ ४ ॥ प्रतिरूपाणि कुर्व्वन्ति वज्रस्य कुशला नराः । परोक्षा तेषु कर्त्तव्या विद्वद्भिः सुपरीक्षकैः ॥ ५ ॥