भारतकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 146, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 146

१०६ युक्तिकल्पतरौ— ते मृत्युमेवात्मनि वै वहन्ति सत्यं वदत्येष यतो मुनीन्द्रः * ॥३३॥ इति श्रीभोजराजीये युक्तिकल्पतरौ प्रवाल परीक्षा ॥ —*— अथ गोमेद परीक्षा । हिमालये वा सिन्धौ वा गोमेद-मणिसम्भवः । स्वच्छकान्तिर्गुरुः स्निग्धो वर्णाढ्यो दीप्तिमानपि ॥ ३४ ॥ वलक्षः पिञ्जरो धन्यः 'गोमेद' इति कीर्त्तितः । चतुर्द्धा जाति-भेदस्तु गोमेदेऽपि प्रकाश्यते ॥ ३५ ॥ ब्राह्मणः शुक्लवर्णः स्यात् क्षत्रियो रक्त उच्यते । आपीतो वैश्यजातिस्तु शूद्रस्वानील उच्यते ॥ ३६ ॥ छाया चतुर्विधा श्वेता रक्ता पीताऽसिता तथा ॥ ३७ ॥ गुरुः प्रभाढ्यः सितवर्णरूपः स्निग्धो मृदुर्वाति महापुराणः । स्वच्छस्तु गोमेदमणिर्घृ तोऽयं करोति लक्ष्मीं धनधान्य-वृद्धिम् ॥३८॥