भारतकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 147, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 147

मुक्तायुक्तिः । १०७ शुद्धस्य गोमेद मणेस्तु मूल्यं, सुवर्णतो द्वैगुणमाहुरेके । अन्ये तथा विद्रुमतुल्य-मूल्यं ; तथापरे चामरतुल्यमाहुः ॥ ४१ ॥ चतुर्विधानामेषान्तु धारणे परिसम्मतम् ॥ ४२ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ गोमेद परीक्षा ॥ अथ मुक्ता परीक्षा । द्विपेन्द्र जीमूतवराहशङ्ख, मत्स्याहि-शुक्त्युद्भववेणुजानि । मुक्ताकलानि प्रथितानि लोके ; तेषान्तु शुक्त्युद्भवमेव भुरि * ॥ ४३ ॥ वेध्यन्तु शुक्त्युद्भवमेव तेषां, शेषान्यवेध्यानि वदन्ति तज्ज्ञाः । मतङ्गजा ये तु विशुद्धवंश्या ; स्तेमौक्तिकानां प्रभवाः प्रदिष्टाः ॥ ४४ ॥ उत्पद्यते मौक्तिकमेषु वृत्तम्, आपीतवर्णं प्रभया विहीनम् ॥ ४५ ॥ वक्ष्ये गजपरीक्षायां गजजातिर्चतुर्विधा । मौक्तिकं तेषु जातं हि चतुर्विधमुदीर्य्यते ॥ ४६ ॥ ब्राह्मणं पीतशुक्लन्तु क्षत्रियं पीतरक्तकम् । पीतश्यामन्तु वैश्यः स्यात् शूद्रं स्यात् पीतनीलकम् ॥ ४७ ॥ काम्बोज-कुम्भसम्भूतं धात्रीफलनिभं गुरु । अतिपिञ्जरसच्छायं मौक्तिकं मन्ददीधिति ॥ ४८ ॥ धाराधरेषु जायेत मौक्तिकं जल-विन्दुभिः । दुर्लभन्तन्मनुष्याणां देवैस्तत् ह्रियतेऽम्बरात् ॥ ४९ ॥ कुकुटाण्डसमं वृत्तं मौक्तिकं निविड़ं गुरु । घनजं भानुसंकाशं देवयोग्यममानुषम् ॥ ५० ॥

  • “स्वात्यम्बु शुक्ति कुहरे पतदेवमुक्ता, मुक्तैव पङ्कजदले नरजःसु किञ्चित्” ॥ इति कवयः ।
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक) · पृष्ठ 147, कुल 278 में से · BharatKosha