युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 145, कुल 278 में से
संदर्भ में पढ़ेंप्रवालयुक्तिः । १०५ अरुणं शशरक्ताख्यं कोमलं स्निग्धमेव च । प्रवालं विप्रजातिः स्यात् सुखवेध्यं मनोरमम् ॥ २२ ॥ जवाबन्धूकसिन्दूरं दाड़िमी-कुसुम-प्रभम् । कठिनं दुर्वेध्यमस्निग्धं क्षत्रजातिं तदुच्यते ॥ २३ ॥ पलाशकुसुमाभासं तथापाटल-सन्निभम् । वैश्यजातिर्भवेत् स्निग्धं वर्णाढ्यं मन्दकान्तिमत् ॥ २४ ॥ रक्तोत्पलदलाकारं कठिनं न चिरद्युतिः । विद्रुमं शूद्रजातिः स्याद् वायु-वेद्यं तथैव च ॥ २५ ॥ रक्तता स्निग्धता दार्य्यं चिरद्युति-सुवर्णता । प्रवालानां गुणाः प्रोक्ताः धनधान्य-कराः पराः ॥ २६ ॥ हिमाद्रौ यत्तु संजातं तद्रक्तमतिनिष्ठुरम् । तत्र लिप्तो भवेन्निम्ब-कल्कोऽति मधुरः स्थिरः(तः) ॥ २७ ॥ तस्य धारण-मात्रेण विषवेगः प्रशाम्यति । विवर्णता तु खरता प्रवाले दूषणद्वयम् ॥ २८ ॥ रेखा काकपदो विन्दुर्यथा वज्रेषु दोषकृत्(हृत्) । तथा प्रवाले सर्व्वत्र वर्ज्जनीयं विचक्षणैः ॥ २९ ॥ रेखा हन्याद् यशोलक्ष्मीमावर्त्तः कुलनाशनः । पट्टलो रोगकृत् ख्यातो विन्दुर्घन-विनाशकृत् ॥ ३० ॥ त्रासः सञ्जनयेत्त्रासं नैलिका मृत्यु-कारिणी । मूल्यं शुद्ध-प्रवालस्य रौप्यद्विगुणमुच्यते ॥ ३१ ॥ धारणेऽस्यापि नियमो जाति-भेदेन पूर्ववत् ॥ ३२ ॥ तथाहि,— विरूप-जातिं विषमं विवर्णम्, खर-प्रवालं प्रवदन्ति ये ये । १४